Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 87
    ऋषिः - मधुच्छन्दा ऋषिः देवता - इन्द्रो देवता छन्दः - निचृद्गायत्री स्वरः - षड्जः
    3

    इन्द्राया॑हि चित्रभानो सु॒ताऽइ॒मे त्वा॒यवः॑। अण्वी॑भि॒स्तना॑ पू॒तासः॑॥८७॥

    स्वर सहित पद पाठ

    इन्द्र॑। आ। या॒हि॒। चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो। सु॒ताः। इ॒मे। त्वा॒यव॒ इति॑ त्वा॒ऽयवः॑। अण्वी॑भिः। तना॑। पू॒तासः॑ ॥८७ ॥


    स्वर रहित मन्त्र

    इन्द्रायाहि चित्रभानो सुता इमे त्वायवः । अण्वीभिस्तना पूतासः ॥


    स्वर रहित पद पाठ

    इन्द्र। आ। याहि। चित्रभानो इति चित्रऽभानो। सुताः। इमे। त्वायव इति त्वाऽयवः। अण्वीभिः। तना। पूतासः॥८७॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 87
    Acknowledgment

    अन्वयः - हे चित्रभानो इन्द्र! त्वं य इमे अण्वीभिस्सुतास्तना पूतासस्त्वायवः पदार्थाः सन्ति, तानायाहि॥८७॥

    पदार्थः -
    (इन्द्र) सभेश (आ) (याहि) आगच्छ (चित्रभानो) चित्रा भानवो विद्याप्रकाशा यस्य तत्संबुद्धौ (सुताः) निष्पादिताः (इमे) (त्वायवः) ये त्वां युवन्ति मिलन्ति ते (अण्वीभिः) अङ्गुलीभिः (तना) विस्तृतगुणेन (पूतासः) पवित्राः॥८७॥

    भावार्थः - मनुष्याः सत्क्रियया पदार्थान् संशोध्य भुञ्जताम्॥८७॥

    इस भाष्य को एडिट करें
    Top