Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 59
    ऋषिः - विदर्भिर्ऋषिः देवता - अश्विसरस्वतीन्द्रा देवताः छन्दः - अनुष्टुप् स्वरः - गान्धारः
    4

    अ॒श्विना॒ नमु॑चेः सु॒तꣳ सोम॑ꣳ शु॒क्रं प॑रि॒स्रुता॑। सर॑स्वती॒ तमाभ॑रद् ब॒र्हिषेन्द्रा॑य॒ पात॑वे॥५९॥

    स्वर सहित पद पाठ

    अ॒श्विना॑। नमु॑चेः। सु॒तम्। सोम॑म्। शु॒क्रम्। प॒रि॒स्रुतेति॑ परि॒ऽस्रुता॑। सर॑स्वती। तम्। आ। अ॒भ॒र॒त्। ब॒र्हिषा॑। इन्द्रा॑य। पात॑वे ॥५९ ॥


    स्वर रहित मन्त्र

    अश्विना नमुचेः सुतँ सोमँ शुक्रम्परिस्रुता । सरस्वती तामाभरद्बर्हिषेन्द्राय पातवे ॥


    स्वर रहित पद पाठ

    अश्विना। नमुचेः। सुतम्। सोमम्। शुक्रम्। परिस्रुतेति परिऽस्रुता। सरस्वती। तम्। आ। अभरत्। बर्हिषा। इन्द्राय। पातवे॥५९॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 59
    Acknowledgment

    अन्वयः - यौ परिस्रुताऽश्विना सरस्वती बर्हिषेन्द्राय नमुचेर्निवारणाय च शुक्र सुतं सोमं पातवे तमाभरत् समन्ताद् भरतः सदा तावेव सुखिनौ भवतः॥५९॥

    पदार्थः -
    (अश्विना) सद्गुणकर्मस्वभावव्यापिनौ (नमुचेः) यो न मुञ्चति तस्यासाध्यस्यापि रोगस्य (सुतम्) सम्यक् निष्पादितम् (सोमम्) सोमाद्योषधिगणम् (शुक्रम्) वीर्यकरम् (परिस्रुता) परितः सर्वतो गच्छन्तावव्याहतगती। स्रु गतौ धातोः क्विप्, तुक्, द्विवचनस्य सुपाम्॰ [अष्टा॰७.१.३९] इत्यात्वम्। (सरस्वती) प्रशंसिता गृहिणी तथा पुरुषः (तम्) (आ) (अभरत्) बिभर्त्ति (बर्हिषा) सुखवर्द्धकेन कर्मणा (इन्द्राय) परमैश्वर्यसुखाय (पातवे) पातुम्। अत्र पा धातोस्तुमर्थे तवेन् प्रत्ययः॥५९॥

    भावार्थः - ये साङ्गोपाङ्गान् वेदान् पठित्वा हस्तक्रियां विजानन्ति, तेऽसाध्यानपि रोगान्निवर्त्तयन्ति॥५९॥

    इस भाष्य को एडिट करें
    Top