Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 37
    ऋषिः - आङ्गिरस ऋषिः देवता - तनूनपाद्देवता देवता छन्दः - त्रिष्टुप् स्वरः - धैवतः
    5

    नरा॒शꣳसः॒ प्रति॒ शूरो॒ मिमा॑न॒स्तनू॒नपा॒त् प्रति॑ य॒ज्ञस्य॒ धाम॑। गोभि॑र्व॒पावा॒न् मधु॑ना सम॒ञ्जन् हिर॑ण्यैश्च॒न्द्री य॑जति॒ प्रचे॑ताः॥३७॥

    स्वर सहित पद पाठ

    नरा॒शꣳसः॑। प्रति॑। शूरः॑। मिमा॑नः। तनू॒नपा॒दिति॒ तनू॒ऽनपा॑त्। प्रति॑। य॒ज्ञस्य॑। धाम॑। गोभिः॑। व॒पावा॒निति॑ व॒पाऽवा॑न्। मधु॑ना। स॒म॒ञ्जन्निति॑ सम्ऽअ॒ञ्जन्। हिर॑ण्यैः। च॒न्द्री। य॒ज॒ति॒। प्रचे॑ता॒ इति॒ प्रऽचे॑ताः ॥३७ ॥


    स्वर रहित मन्त्र

    नराशँसः प्रति शूरो मिमानस्तनूनपात्प्रति यज्ञस्य धाम । गोभिर्वपावान्मधुना समञ्जन्हिरण्यैश्चन्द्री यजति प्रचेताः ॥


    स्वर रहित पद पाठ

    नराशꣳसः। प्रति। शूरः। मिमानः। तनूनपादिति तनूऽनपात्। प्रति। यज्ञस्य। धाम। गोभिः। वपावानिति वपाऽवान्। मधुना। समञ्जन्निति सम्ऽअञ्जन्। हिरण्यैः। चन्द्री। यजति। प्रचेता इति प्रऽचेताः॥३७॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 37
    Acknowledgment

    अन्वयः - हे मनुष्याः! यो नराशंसो यज्ञस्य धाम प्रति मिमानः शूरस्तनूनपाद् गोभिर्वपावान् मधुना समञ्जन् हिरण्यैश्चन्द्री प्रचेताः प्रति यजति, सोऽस्माभिराश्रयितव्यः॥३७॥

    पदार्थः -
    (नराशंसः) यो नरैराशस्यते स्तूयते सः (प्रति) व्याप्तौ (शूरः) सर्वतो निर्भयः (मिमानः) योऽनेकानुत्तमान् पदार्थान् मिमीते (तनूनपात्) यस्तनूं न पातयति (प्रति) (यज्ञस्य) सत्यव्यवहारस्य (धाम) (गोभिः) धेनुवृषभैः (वपावान्) वपन्ति यया क्रियया सा वपा सा प्रशस्ता विद्यते यस्य सः (मधुना) मधुरगुणेन रसेन (समञ्जन्) व्यक्तीकुर्वन् (हिरण्यैः) सुवर्णादिभिः (चन्द्री) चन्द्रं बहुसुवर्णं विद्यते यस्य सः (यजति) (प्रचेताः) प्रकृष्टं चेतः प्रज्ञा यस्य सः॥३७॥

    भावार्थः - मनुष्यैः कश्चिन्निन्दितो भीरुः स्वशरीरनाशक उद्यमहीनोऽलसो मूढो दरिद्रश्च नैव संगन्तव्यः॥३७॥

    इस भाष्य को एडिट करें
    Top