Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 20/ मन्त्र 73
    ऋषिः - विदर्भिर्ऋषिः देवता - अश्विसरस्वतीन्द्रा देवताः छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    2

    अ॒श्विना॒ गोभि॑रिन्द्रि॒यमश्वे॑भिर्वी॒र्यं बल॑म्।ह॒विषेन्द्र॒ꣳ सर॑स्वती॒ यज॑मानमवर्द्धयन्॥७३॥

    स्वर सहित पद पाठ

    अ॒श्विना॑। गोभिः॑। इ॒न्द्रि॒यम्। अश्वे॑भिः। वी॒र्य्य᳕म्। बल॑म्। ह॒विषा॑। इन्द्र॑म्। सर॑स्वती। यज॑मानम्। अ॒व॒र्द्ध॒य॒न् ॥७३ ॥


    स्वर रहित मन्त्र

    अश्विना गोभिरिन्द्रियमश्वेभिर्वीर्यम्बलम् । हविषेन्द्रँ सरस्वती यजमानमवर्दयन् ॥


    स्वर रहित पद पाठ

    अश्विना। गोभिः। इन्द्रियम्। अश्वेभिः। वीर्य्यम्। बलम्। हविषा। इन्द्रम्। सरस्वती। यजमानम्। अवर्द्धयन्॥७३॥

    यजुर्वेद - अध्याय » 20; मन्त्र » 73
    Acknowledgment

    अन्वयः - अश्विना सरस्वती च गोभिरश्वेभिर्हविषेन्द्रियं वीर्यं बलमिन्द्रं यजमानमवर्द्धयन्॥७३॥

    पदार्थः -
    (अश्विना) अध्यापकोपदेशकौ (गोभिः) सुशिक्षिताभिर्वाणीभिः पृथिवीधेनुभिर्वा (इन्द्रियम्) धनम् (अश्वेभिः) सुशिक्षितैस्तुरङ्गादिभिः (वीर्यम्) पराक्रमम् (बलम्) (हविषा) उपादत्तेन पुरुषार्थेन (इन्द्रम्) ऐश्वर्ययुक्तम् (सरस्वती) सुशिक्षिता विदुषी स्त्री (यजमानम्) सत्यानुष्ठानस्य यज्ञस्य कर्त्तारम् (अवर्द्धयन्)॥७३॥

    भावार्थः - ये येषां समीपे निवसेयुस्तेषां योग्यतास्ति, ते तान् सर्वैः शुभगुणकर्मभिरैश्वर्यादिना च समुन्नयेयुः॥७३॥

    इस भाष्य को एडिट करें
    Top