यजुर्वेद - अध्याय 20/ मन्त्र 28
ऋषिः - प्रजापतिर्ऋषिः
देवता - इन्द्रो देवता
छन्दः - भुरिगुष्णिक्
स्वरः - ऋषभः
7
सि॒ञ्चन्ति॒ परि॑ षिञ्च॒न्त्युत्सि॑ञ्चन्ति पु॒नन्ति॑ च।सुरा॑यै ब॒भ्वै्र मदे॑ कि॒न्त्वो व॑दति कि॒न्त्वः॥२८॥
स्वर सहित पद पाठसि॒ञ्चन्ति॒। परि॑। सि॒ञ्च॒न्ति॒। उत्। सि॒ञ्च॒न्ति॒। पु॒नन्ति॑। च॒। सुरा॑यै। ब॒भ्र्वै। मदे॑। कि॒न्त्वः। व॒द॒ति॒। कि॒न्त्वः ॥२८ ॥
स्वर रहित मन्त्र
सिञ्चन्ति परि षिञ्चन्त्युत्सिञ्चन्ति पुनन्ति च । सुरायै बर्भ्वै मदे किन्त्वो वदति किन्त्वः ॥
स्वर रहित पद पाठ
सिञ्चन्ति। परि। सिञ्चन्ति। उत् । सिञ्चन्ति। पुनन्ति। च। सुरायै। बभ्वै्र। मदे। किन्त्वः। वदति। किन्त्वः॥२८॥
विषयः - अथ विद्वद्विषये शारीरिकविषयमाह॥
अन्वयः - ये बभ्वै्र सुरायै मदे महौषधिरसं सिञ्चन्ति परिसिञ्चन्त्युत्सिञ्चन्ति पुनन्ति च, ते शरीरात्मबल-माप्नुवन्ति, यः किन्त्वः किन्त्वश्चेति वदति, स किञ्चिदपि नाप्नोति॥२८॥
पदार्थः -
(सिञ्चन्ति) (परि) सर्वतः (सिञ्चन्ति) (उत्) (सिञ्चन्ति) (पुनन्ति) पवित्रीभवन्ति (च) (सुरायै) सोमाय (बभ्वै्र) बलधारकाय (मदे) आनन्दाय (किन्त्वः) किमसौ (वदति) (किन्त्वः) किमन्यः॥२८॥
भावार्थः - येऽन्नादीनि पवित्रीकृत्य संस्कृत्योत्तमरसैः परिषिच्य युक्ताहारविहारेण भुञ्जते, ते बहुसुखं लभन्ते। यो मूढतयैवं नाचरति, स बलबुद्धिहीनः सततं दुःखं भुङ्क्ते॥२८॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal