यजुर्वेद - अध्याय 25/ मन्त्र 20
पृष॑दश्वा म॒रुतः॒ पृश्नि॑मातरः शुभं॒ यावा॑नो वि॒दथे॑षु जग्म॑यः।अ॒ग्नि॒जि॒ह्वा मन॑वः॒ सूर॑चक्षसो॒ विश्वे॑ नो दे॒वाऽअव॒साग॑मन्नि॒ह॥२०॥
स्वर सहित पद पाठपृष॑दश्वा॒ इति॒ पृष॑त्ऽअश्वाः। म॒रुतः॑। पृश्नि॑मातर॒ इति॒ पृश्नि॑ऽमातरः। शु॒भं॒यावा॑न॒ इति॑ शुभ॒म्ऽयावा॑नः। वि॒दथे॑षु जग्म॑यः अ॒ग्नि॒जि॒ह्वा इत्य॑ग्निऽजिह्वाः। मन॑वः। सूर॑चक्षस॒ इति॒ सूर॑ऽचक्षसः। विश्वे॑। नः॒। दे॒वाः। अव॑सा। आ। अ॒ग॒म॒न्। इ॒ह ॥२० ॥
स्वर रहित मन्त्र
पृषदश्वा मरुतः पृश्निमातरः शुभँयावानो विदथेषु जग्मयः । अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवाऽअवसा गमन्निह ॥
स्वर रहित पद पाठ
पृषदश्वा इति पृषत्ऽअश्वाः। मरुतः। पृश्निमातर इति पृश्निऽमातरः। शुभंयावान इति शुभम्ऽयावानः। विदथेषु जग्मयः अग्निजिह्वा इत्यग्निऽजिह्वाः। मनवः। सूरचक्षस इति सूरऽचक्षसः। विश्वे। नः। देवाः। अवसा। आ। अगमन्। इह॥२०॥
विषयः - पुनः के किं कुर्युरित्याह ॥
सपदार्थान्वयः - ये पृश्निमातर इव पृषदश्वा मरुतो विदथेषु शुभंयावानो जग्मयोऽग्निजिह्वाः सूरचक्षसो विश्वे देवा मनवोऽवसा सह वर्त्तन्ते ते इह नोऽस्मानागमन् ॥ २० ॥ सपदार्थान्वयः--ये पृश्निमातरः पृश्निरन्तरिक्षं माता येषां वायूनां ते इव पृषदश्वाः पृषत:=पुष्ट्यादिना संसिक्ताङ्गा अश्वा येषान्ते, मरुतः मनुष्या:; विदथेषु सङ्ग्रामेषु शुभंयावानः ये शुभं=कल्याणं यान्ति=प्राप्नुवन्ति ते, जग्मयः संगन्तारः, अग्निजिह्वाः अग्निरिव सुप्रकाशिता जिह्वा=वाणी येषान्ते, सूरचक्षसः सूर=ऐश्वर्येप्रेरणे वा चक्षुः=दर्शनं येषान्ते, विश्वे सर्वे देवाः विद्वांसः, मनवः मननशीला: अवसा रक्षणाद्येन सह वर्त्तन्ते; त इह अस्मिन्संसारे वर्त्तमानसमये वा नः=अस्मान् आ+अगमन् प्राप्नुवन्तु ॥ २५।२०॥
पदार्थः -
(पृषदश्वाः) पृषतः=पुष्ट्यादिना संसिक्ताङ्गा अश्वा येषान्ते (मरुतः) मनुष्याः (पृश्निमातरः) पृश्निरन्तरिक्षं माता येषां वायूनां ते इव (शुभंयावानः) ये शुभं=कल्याणं यान्ति=प्राप्नुवन्ति ते । अत्र वाच्छन्दसि सर्वे विधयो भवन्तीति द्वितीयाया अलुक् (विदथेषु) संग्रामेषु (जग्मयः) संगन्तार: (अग्निजिह्वाः) अग्निरिव सुप्रकाशिता जिह्वा=वाणी येषान्ते । जिह्वेति वाङ्ना० निघं० । १ । ११ ॥ (मनव:) मननशीला: (सूरचक्षसः) सूर=ऐश्वर्ये प्रेरणे वा चक्षो=दर्शनं येषान्ते (विश्वे) सर्वे (नः) अस्मान् (देवाः) विद्वांसः (अवसा) रक्षणाद्येन सह (आ) (अगमन्) प्राप्नुवन्तु (इह) अस्मिन्संसारे वर्त्तमानसमये वा ॥ २० ॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः । मनुष्यैर्विदुषां सङ्गः सदैव प्रार्थनीयः, यथाऽस्मिञ्जगति सर्वे वायवः सर्वेषां जीवनहेतवः सन्ति, तथाऽत्र जङ्गमेषु विद्वांसः सन्ति ॥ २५ । २० ॥
भावार्थ पदार्थः - पृश्निमातरः=वायव इव सर्वेषां जीवनहेतवः ।
विशेषः - गोतमः । विद्वांसः=स्पष्टम् । जगती । निषादः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal