यजुर्वेद - अध्याय 25/ मन्त्र 44
ऋषिः - गोतम ऋषिः
देवता - आत्मा देवता
छन्दः - स्वराट् पङ्क्तिः
स्वरः - पञ्चमः
3
न वाऽउ॑ऽए॒तान्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ२ऽइदे॑षि प॒थिभिः॑ सु॒गेभिः॑।हरी॑ ते॒ युञ्जा॒ पृष॑तीऽअभूता॒मुपा॑स्थाद् वा॒जी धु॒रि रास॑भस्य॥४४॥
स्वर सहित पद पाठन। वै। ऊँ॒ इत्यूँ॑। ए॒तत्। म्रि॒य॒से॒। न। रि॒ष्य॒सि॒। दे॒वान्। इत्। ए॒षि। प॒थिऽभिः॑। सु॒गेभिः॑। हरी॒ इति॒ हरी॑। ते॒। युञ्जा॑। पृष॑ती॒ इति॒ पृष॑ती। अ॒भू॒ता॒म्। उप॑। अ॒स्था॒त्। वा॒जी। धु॒रि। रास॑भस्य ॥४४ ॥
स्वर रहित मन्त्र
न वाऽउ एतन्म्रियसे न रिष्यसि देवाँऽइदेषि पथिभिः सुगेभिः । हरी ते युञ्जा पृषतीऽअभूतामुपास्थाद्वाजी धुरि रासभस्य ॥
स्वर रहित पद पाठ
न। वै। ऊँ इत्यूँ। एतत्। म्रियसे। न। रिष्यसि। देवान्। इत्। एषि। पथिऽभिः। सुगेभिः। हरी इति हरी। ते। युञ्जा। पृषती इति पृषती। अभूताम्। उप। अस्थात्। वाजी। धुरि। रासभस्य॥४४॥
सपदार्थान्वयः - हे विद्वन् यद्येतद्विज्ञानं प्राप्नोषि तर्हि न त्वं म्रियसे न वै रिष्यसि सुगेभिः पथिभिर्देवानिदेषि यदि ते पृषती युञ्जा हरी अभूतामु तर्हि वाजी रासभस्य धुर्य्युपास्थात् ॥ ४४ ॥ सपदार्थान्वयः--हे विद्वन् ! यद्येतद् विज्ञानं प्राप्नोषि तर्हि न त्वं म्रियसे, न वै निश्चयेन रिष्यसि हन्सि, सुगेभिः सुष्ठु गच्छन्ति येषु तैः पथिभिः मार्गै: देवान् विदुषः इत् एव एषि यदि ते तव पृषती स्थूलौ युञ्जा योजकौ हरी हरणशीलौ अभूतां भवेताम्, उ=तर्हि वाजी वेगवान् रासभस्य अश्वसम्बन्धस्य धुरि धारणे उपास्थात् उपतिष्ठेत् ॥ २५ । ४४ ॥
पदार्थः -
(न) निषेधे (वै) निश्चयेन (उ) इति वितर्के (एतत्) विज्ञानं प्राप्य (म्रियसे) न) (रिष्यसि) हन्सि (देवान्) विदुषः (इत्) एव (एषि) (पथिभिः) मार्गै: (सुगेभिः) सुष्ठु गच्छन्ति येषु तैः (हरी) हरणशीलौ (ते) तव (युञ्जा) योजकौ (पृषती) स्थूलौ (अभूताम्) भवेताम् (उप) (अस्थात्) उपतिष्ठेत् (वाजी) वेगवान् (धुरि) धारणे (रासभस्य) अश्वसम्बन्धस्य ॥ ४४ ॥
भावार्थः - यथा विद्यया संयुक्तैर्वायुजलाग्निभिर्युक्ते रथे मार्गान् सुखेन गच्छन्ति; तथैव--आत्मज्ञानेन स्वस्वरूपं नित्यं बुद्ध्वा, मरणहिंसात्रासं विहाय, दिव्यानि सुखानि प्राप्नुयुः ॥ २५ । ४४ ॥
विशेषः - गोतमः । आत्मा=स्वस्वरूपम्| स्वराट्पङ्क्तिः । पञ्चमः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal