Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 25/ मन्त्र 21
    ऋषिः - गोतम ऋषिः देवता - विद्वांसो देवता छन्दः - निचृत त्रिष्टुप् स्वरः - धैवतः
    2

    भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः। स्थि॒रैरङ्गै॑स्तुष्टु॒वास॑स्त॒नूभि॒र्व्यशेमहि दे॒वहि॑तं॒ यदायुः॑॥२१॥

    स्वर सहित पद पाठ

    भ॒द्रम्। कर्णे॑भिः। शृ॒णु॒या॒म॒। दे॒वाः॒। भ॒द्रम्। प॒श्ये॒म॒। अ॒क्षभि॒रित्य॒क्षऽभिः॑। य॒ज॒त्राः॒। स्थि॒रैः। अङ्गैः॑। तु॒ष्टु॒वासः॑। तु॒स्तु॒वास॒ इति॑ तुस्तु॒ऽवासः॑। त॒नूभिः॑। वि। अ॒शे॒म॒हि॒। दे॒वहि॑त॒मिति॑ दे॒वऽहि॑तम्। यत्। आयुः॑ ॥२१ ॥


    स्वर रहित मन्त्र

    भद्रङ्कर्णेभिः शृणुयाम देवा भद्रम्पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेमहि देवहितँयदायुः ॥


    स्वर रहित पद पाठ

    भद्रम्। कर्णेभिः। शृणुयाम। देवाः। भद्रम्। पश्येम। अक्षभिरित्यक्षऽभिः। यजत्राः। स्थिरैः। अङ्गैः। तुष्टुवासः। तुस्तुवास इति तुस्तुऽवासः। तनूभिः। वि। अशेमहि। देवहितमिति देवऽहितम्। यत्। आयुः॥२१॥

    यजुर्वेद - अध्याय » 25; मन्त्र » 21
    Acknowledgment

    सपदार्थान्वयः - हे यजत्रा देवा विद्वांसो भवत्सङ्गेन वयं कर्णेभिर्भद्रं शृणुयामाक्षभिर्भद्रं पश्येम स्थिरैरङ्गैस्तुष्टुवांसः सन्तस्तनूभिर्यद्देवहितमायुस्तद् व्यशेमहि ॥२१॥ सपदार्थान्वयः--हे यजत्राः सङ्गन्तारः देवाः=विद्वांसः ! भवत्सङ्गेन वयं कर्णेभिः श्रोत्रैः भद्रं सत्यलक्षणकरं वचः शृणुयाम,अक्षभिः चक्षुर्भिः भद्रं कल्याणं पश्येम, स्थिरैः दृढैः अङ्गैः अवयवैः तुष्टुवांसः स्तुवन्तः सन्तस्तनूभिः शरीरैः यद्देवहितं देवेभ्यो=विद्वद्भ्यः हितम् आयु: जीवनं तदू; वि+अशेमहि प्राप्नुयाम ॥२५ । २१॥

    पदार्थः -
    (भद्रम्) सत्यलक्षणकरं वचः (कर्णेभिः) श्रोत्रैः (शृणुयाम) (देवाः) विद्वांसः (भद्रम्) कल्याणम् (पश्येम) (अक्षभिः) चक्षुर्भिः (यजत्राः) संगन्तारः (स्थिरैः) दृढैः (अङ्गैः) अवयवैः (तुष्टुवांसः) स्तुवन्तः (तनूभिः) शरीरैः (वि, अशेमहि) प्राप्नुयाम (देवहितम्) देवेभ्यो=विद्वद्भ्यो हितम् (यत्) (आयुः) जीवनम् ॥ २१ ॥

    भावार्थः - यदि मनुष्या विद्वत्सङ्गेन विद्वांसो भूत्वा सत्यं शृणुयुः, सत्यं पश्येयुः, जगदीश्वरं स्तुयुस्तर्हि ते दीर्घायुषो भवेयुः । मनुष्यैरसत्यश्रवणं कुदर्शनं मिथ्यास्तुतिर्व्यभिचारश्च कदापि नैव कर्त्तव्यः ॥ २५ । २१ ॥

    विशेषः - गोतमः । विद्वांसः=स्पष्टम् । निचृत्त्रिष्टुप् । धैवतः ॥

    इस भाष्य को एडिट करें
    Top