Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 25/ मन्त्र 31
    ऋषिः - गोतम ऋषिः देवता - यज्ञो देवता छन्दः - त्रिष्टुप् स्वरः - धैवतः
    4

    यद्वा॒जिनो॒ दाम॑ स॒न्दान॒मर्व॑तो॒ या शी॑र्ष॒ण्या रश॒ना रज्जु॑रस्य।यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये] तृण॒ꣳ सर्वा॒ ता ते॒ऽअपि॑ दे॒वेष्व॑स्तु॥३१॥

    स्वर सहित पद पाठ

    यत्। वा॒जिनः॑। दाम॑। स॒न्दान॒मिति॑ स॒म्ऽदान॑म्। अर्व॑तः। या। शी॒र्ष॒ण्या᳖। र॒श॒ना। रज्जुः॑। अ॒स्य॒। यत्। वा॒। घ॒। अ॒स्य॒। प्रभृ॑त॒मिति॒ प्रऽभृ॑तम्। आ॒स्ये᳖। तृण॑म्। सर्वा॑। ता। ते॒। अपि॑। दे॒वेषु॑। अ॒स्तु॒ ॥३१ ॥


    स्वर रहित मन्त्र

    यद्वाजिनो दाम सन्दानमर्वतो या शीर्षण्या रशना रज्जुरस्य । यद्वा घास्य प्रभृतमास्ये तृणँ सर्वा ता तेऽअपि देवेष्वस्तु ॥


    स्वर रहित पद पाठ

    यत्। वाजिनः। दाम। सन्दानमिति सम्ऽदानम्। अर्वतः। या। शीर्षण्या। रशना। रज्जुः। अस्य। यत्। वा। घ। अस्य। प्रभृतमिति प्रऽभृतम्। आस्ये। तृणम्। सर्वा। ता। ते। अपि। देवेषु। अस्तु॥३१॥

    यजुर्वेद - अध्याय » 25; मन्त्र » 31
    Acknowledgment

    सपदार्थान्वयः - हे विद्वन् वाजिनोऽस्यार्वतो यद्दाम सन्दानं या शीर्षण्या रशना रज्जुर्यद्वाऽस्यास्येतृणं प्रभृतं ता सर्वा ते सन्तु। एतत्सर्वं घ देवेष्वप्यस्तु ॥ ३१ ॥ सपदार्थान्वयः--हे विद्वन् ! वाजिनः प्रशस्तवेगवतः अस्यार्वतः बलिष्ठस्याश्वस्य यद्दाम उदरबन्धनं, सन्दानं पादादिबन्धनादीनि, या शीर्षण्या शिरसि भवा रशना व्याप्नुवती रज्जुः, यद्वाऽस्यास्ये मुखे तृणं घासविशेषं प्रभृतं प्रकर्षेण धृतं,ता तानि सर्वा सर्वाणिते तव सन्तु । एतत्सर्वं घ एव देवेषु विद्वत्सु अप्यस्तु ॥ २५ । ३१ ॥

    पदार्थः -
    (यत्) (वाजिनः) प्रशस्तवेगवतः (दाम) उदरबन्धनम् (सन्दानम्) पादादिबन्धनादीनि (अर्वतः) बलिष्ठस्याश्वस्य (या) (शीर्षण्या) शिरसि भवा (रशना) व्याप्नुवती (रज्जु:) (अस्य) (यत्) (वा) (घ) एव (अस्य) (प्रभृतम्) प्रकर्षेण धृतम् (आस्ये) मुखे (तृणम्) घासविशेषम् (सर्वा) सर्वाणि (ता) तानि (ते) तव (अपि) (देवेषु) विद्वत्सु (अस्तु) ॥३१ ॥

    भावार्थः - येऽश्वान् सुशिक्ष्य सर्वावयवबन्धनानि सुन्दराणि, भक्ष्यं भोज्यं पेयं च श्रेष्ठमौषधमुत्तमं च कुर्वन्ति; ते विजयादीनि कार्याणि साधुं शक्नुवन्ति ॥ २५ । ३१ ॥

    भावार्थ पदार्थः - तृणम्=भक्ष्यं भोज्यं पेयं श्रेष्ठम्, औषधमुत्तमं च ।

    विशेषः - गोतमः । यज्ञः=अश्वसुशिक्षणादिः । त्रिष्टुप् । धैवतः ॥

    इस भाष्य को एडिट करें
    Top