यजुर्वेद - अध्याय 25/ मन्त्र 23
ऋषिः - प्रजापतिर्ऋषिः
देवता - द्यौरित्यादयो देवताः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
2
अदि॑ति॒र्द्यौरदितिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः।विश्वे॑ दे॒वाऽअदि॑तिः॒ पञ्च॒ जना॒ऽअदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम्॥२३॥
स्वर सहित पद पाठअदि॑तिः। द्यौः। अदि॑तिः। अ॒न्तरि॑क्षम्। अदि॑तिः। मा॒ता। सः। पि॒ता। सः। पु॒त्रः। विश्वे॑। दे॒वाः। अदि॑तिः। पञ्च॑। जनाः॑। अदि॑तिः। जा॒तम्। अदि॑तिः। जनि॑त्व॒मिति॒ जनि॑ऽत्वम् ॥२३ ॥
स्वर रहित मन्त्र
अदितिर्द्यारदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः । विश्वे देवाऽअदितिः पञ्च जनाऽअदितिर्जातमदितिर्जनित्वम् ॥
स्वर रहित पद पाठ
अदितिः। द्यौः। अदितिः। अन्तरिक्षम्। अदितिः। माता। सः। पिता। सः। पुत्रः। विश्वे। देवाः। अदितिः। पञ्च। जनाः। अदितिः। जातम्। अदितिः। जनित्वमिति जनिऽत्वम्॥२३॥
विषयः - अथादितिशब्दस्यानेकाऽर्थाः सन्तीत्याह॥
सपदार्थान्वयः - हे मनुष्या युष्माभिद्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रश्चादितिर्विश्वे देवा अदितिः पञ्च जना अदितिर्जातञ्जनित्वञ्चादितिरस्तीति वेद्यम् ॥ २३ ॥ सपदार्थान्वयः--हे मनुष्याः !युष्माभिर्द्यौःकारणरूपेण प्रकाशः अदितिः अखण्डिता;अन्तरिक्षम् आकाशम् अदितिःअविनाशि; माता सर्वस्य जगतो जननी प्रकृतिः सः परमेश्वर: पिता नित्यपालकः स पुत्रः ईश्वरस्य पुत्र इवाविनाशी चादितिः विनाशरहितः, विश्वे सर्वे देवाः दिव्यगुणादियुक्ताः पृथिव्यादयः अदितिः कारणरूपेण नाशरहिता, पञ्च एतत्संख्याकाः जनाः मनुष्याः प्राणा वा अदितिः स्वात्मरूपेण नित्यं; जातं यत्किञ्चिदुत्पन्नं कार्यं जनित्वम् उत्पत्स्यमानं चादितिः कारणरूपेण नित्यम् अस्तीति वेद्यम्॥ २५ । २३ ॥
पदार्थः -
(अदितिः) अखण्डिता (द्यौः) कारणरूपेण प्रकाश: (अदितिः) अविनाशि (अन्तरिक्षम्) आकाशम् (अदितिः) विनाशरहिता (माता) सर्वस्य जगतो जननी प्रकृतिः (सः) परमेश्वरः (पिता) नित्यपालकः (सः) (पुत्रः) ईश्वरस्य पुत्र इवाविनाशी (विश्वे) सर्वे (देवाः) दिव्यगुणादियुक्ताः पृथिव्यादयः (अदितिः) कारणरूपेण नाशरहिता (पञ्च) एतत्संख्याका: (जनाः) मनुष्याः प्राणा वा (अदितिः) स्वात्मरूपेण नित्यम् (जातम्) यत्किंचिदुत्पन्नं कार्यम् (अदितिः) कारणरूपेण नित्यम् (जनित्वम्) उत्पत्स्यमानम् ॥ २३ ॥
भावार्थः - हे मनुष्या ! भवन्तो यत् किंचित् कार्यं जगत् पश्यन्ति तददृष्टकारणं विजानन्तु । जगन्निर्माता परमात्मा, जीवः, पृथिव्यादीनि तत्त्वानि, यज्जातं यच्च जनिष्यते, या च प्रकृतिस्तत् सर्वं स्वरूपेण नित्यमस्ति । न कदाप्यस्याभावो भवति, न चाभावाद्भावोत्पत्तिर्भवतीति विज्ञेयम् ॥
भावार्थ पदार्थः - अदितिः=अदृष्टकारणम् । माता=जगन्निर्माता परमात्मा।पुत्रः=जीवः । विश्वेदेवाः=पृथिव्यादीनि तत्त्वानि । जनित्वम्=यज्जनिष्यते तत् । अदितिः=स्वरूपेण नित्यम् ॥
विशेषः - प्रजापतिः । द्यौरित्यादयः=काररणरूपप्रकाशादयः । त्रिष्टुप् | धैवतः ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal