यजुर्वेद - अध्याय 3/ मन्त्र 11
ऋषिः - गोतम ऋषिः
देवता - अग्निर्देवता
छन्दः - निचृत् गायत्री,
स्वरः - षड्जः
4
उ॒प॒प्र॒यन्तो॑ऽअध्व॒रं मन्त्रं॑ वोचेमा॒ग्नये॑। आ॒रेऽअ॒स्मे च॑ शृण्व॒ते॥११॥
स्वर सहित पद पाठउ॒प॒प्र॒यन्त॒ इत्यु॑पऽप्र॒यन्तः॑। अ॒ध्व॒रम्। मन्त्र॑म्। वो॒चे॒म॒। अ॒ग्नये॑। आ॒रे। अ॒स्मेऽइत्य॒स्मे। च॒ शृ॒ण्व॒ते ॥११॥
स्वर रहित मन्त्र
उपप्रयन्तोऽअध्वरं मन्त्रँवोचेमाग्नये । आरेऽअस्मे च शृण्वते ॥
स्वर रहित पद पाठ
उपप्रयन्त इत्युपऽप्रयन्तः। अध्वरम्। मन्त्रम्। वोचेम। अग्नये। आरे। अस्मेऽइत्यस्मे। च शृण्वते॥११॥
विषयः - अथेश्वरेण स्वस्वरूपमुपदिश्यते ॥
सपदार्थान्वयः -
अध्वरं क्रियामयं यज्ञम् उपप्रयन्तः उत्कृष्ट निष्पादयन्तो जानन्तो वयमस्मे=अस्माकम् आरे=दूरे चात्समीपे शृण्वते यो यथार्थतया शृणोति तस्मै अग्नये=जगदीश्वराय, विज्ञानस्वरूपायान्तर्यामिने जगदीश्वराय मन्त्रं वेदस्थं विज्ञानहेतुं वोचेम=उच्याम।। ३ । ११ ।।
[अध्वरमुपप्रयन्तो वयम्.........शृण्वतेऽग्नये=जगदीश्वराय मन्त्रं वोचेम=उच्याम ]
पदार्थः -
(उपप्रयन्तः) उत्कृष्टं निष्पादयन्तः=जानन्तः (अध्वरम् ) क्रियामयं यज्ञम् (मन्त्रम्) वेदस्थं विज्ञानहेतुम् (वोचेम) उच्याम । अयमाशिषि लिङ्युत्तमबहुवचने प्रयोगः । लिङ्याशिष्य ङित्यङि कृते छन्दस्युभयथेति सार्वधातुकमाश्रित्येयसकारलोपौ । वच उम् ॥ अ० ७ ।४ ।२० ॥ इत्यङि पर उमागमश्च (अग्नये) विज्ञानस्वरूपायान्तर्यामिने जगदीश्वराय (आरे) दूरे । आर इति दूरनामसु पठितम् ॥ निघं० ३ ।२६ ॥ (अस्मे) अस्माकम् । अत्र सुपां सुलुगित्यामः स्थाने शे आदेश: (च) समुच्चये ( शृण्वते) यो यथार्थतया शृणोति तस्मै ॥ अयं मंत्रः शत० २ । ३।२।९। १० व्याख्यातः ॥ ११ ॥
भावार्थः -
भावार्थ:-- मनुष्यैर्वेदमन्त्रैरीश्वरस्य स्तुतियज्ञानुष्ठाने कृत्वा, य ईश्वरोऽन्तर्बहिश्चाभिव्याप्य सर्वं शृण्वन् वर्तते, तस्माद् भीत्वा न कदाचिदधर्मं कर्तुमिच्छापि कार्या ।
[अस्मे=अस्माकमारे=दूरे चात्समीपे]
यदा मनुष्य एतं जानाति तदा समीपस्थो, यदैनं न जानाति तदा दूरस्थ इति वेद्यम् ।। ३ । ११ ।।
भावार्थ पदार्थः -
भा० पदार्थ:-अध्वरम्=यज्ञानुष्ठानम् । शृण्वते=सर्वं शृण्वन् वर्तते तस्मै । मन्त्रम्=वेदमन्त्रम् ।।
विशेषः -
गोतमः । अग्निः=जगदीश्वरः। निचृद्गायत्री । षड्जः ।।
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal