Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 3/ मन्त्र 32
    ऋषिः - सप्तधृतिर्वारुणिर्ऋषिः देवता - आदित्यो देवता छन्दः - निचृत् गायत्री, स्वरः - षड्जः
    6

    न॒हि तेषा॑म॒मा च॒न नाध्व॑सु वार॒णेषु॑। ईशे॑ रि॒पुर॒घश॑ꣳसः॥३२॥

    स्वर सहित पद पाठ

    न॒हि। तेषा॑म्। अ॒मा। च॒न। न। अध्व॒स्वित्यध्व॑ऽसु। वा॒र॒णेषु॑। ईशे॑। रि॒पुः। अ॒घश॑ꣳस॒ इत्य॒घऽश॑ꣳसः ॥३२॥


    स्वर रहित मन्त्र

    नहि तेषाममा चन नाध्वसु वारणेषु । ईशे रिपुरघशँसः ॥


    स्वर रहित पद पाठ

    नहि। तेषाम्। अमा। चन। न। अध्वस्वित्यध्वऽसु। वारणेषु। ईशे। रिपुः। अघशꣳस इत्यधऽशꣳसः॥३२॥

    यजुर्वेद - अध्याय » 3; मन्त्र » 32
    Acknowledgment

    सपदार्थान्वयः -

    य ईश्वरोपासकास्तेषां परमेश्वरोपासकानां सूर्यप्रकाशस्थितानां वा अमा=गृहेषु, अध्वसु मार्गेषु वारणेषु वारयन्ति यैर्युद्धैस्तेषु, वा वारयन्ति ये चोरदस्युव्याघ्रादयो येषु तेषु चन अपि अघशंसः योऽघानि=पापानि कर्माणि शंसति स रिपुः शत्रुः नह्युत्तिष्ठते=न खलु तान् क्लेशयितुं शक्नोति, तं तांश्चाहमीशे समर्थो भवामि ॥ ३ । ३२ ।।

    [य ईश्वरोपासकास्तेषां......रिपुर्नह्युत्तिष्ठते=न खलु तान् क्लेशयितुं शक्नोति ]

    पदार्थः -

     (नहि) निषेधार्थे (तेषाम्) परमेश्वरोपासकानां सूर्यप्रकाशस्थितानां वा (अमा) गृहेषु । अमेति गृहनामसु पठितम् ॥ निघं॰ ३ ।४ ॥ (चन) अपि (न) निषेधार्थे (अध्वसु) मार्गेषु (वारणेषु) वारयन्ति यैर्युद्धैस्तेषु वा वारयन्ति ये चोरदस्युव्याघ्रादयो येषु तेषु (ईशे) समर्थो भवामि (रिपुः) शत्रुः (अघशंसः) योऽघानि=पापानि कर्माणि शंसति सः । अयं मंत्रः शत० २ ।३ ।४ ।३७ व्याख्यातः ॥ ३२ ॥

    भावार्थः -

    ये धर्मात्मानः सर्वोपकारकाः सन्ति नैव क्वापि तेषां भयं भवति, येऽजातशत्रवो नैव तेषां कश्चिदपि शत्रुर्जायते ।।३ ।३२ ।।

    विशेषः -

    सप्तधृतिर्वारुणिः । आदित्यो=ईश्वरः । निचृद्गायत्री । षड्जः ॥

    इस भाष्य को एडिट करें
    Top