यजुर्वेद - अध्याय 3/ मन्त्र 7
ऋषिः - सर्पराज्ञी कद्रूर्ऋषिः
देवता - अग्निर्देवता
छन्दः - विराट् गायत्री,
स्वरः - षड्जः
5
अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती। व्य॑ख्यन् महि॒षो दिव॑म्॥७॥
स्वर सहित पद पाठअ॒न्तरित्य॒न्तः। च॒र॒ति॒। रो॒च॒ना। अ॒स्य॒। प्रा॒णात्। अ॒पा॒न॒तीत्य॑पऽअ॒न॒ती। वि। अ॒ख्य॒न्। म॒हि॒षः। दिव॑म् ॥७॥
स्वर रहित मन्त्र
अन्तश्चरति रोचनास्य प्राणादपानती व्यख्यन्महिषो दिवम् ॥
स्वर रहित पद पाठ
अन्तरित्यन्तः। चरति। रोचना। अस्य। प्राणात्। अपानतीत्यपऽअनती। वि। अख्यन्। महिषः। दिवम्॥७॥
विषयः - सोग्निः कथंभूत इत्युपदिश्यते ।।
सपदार्थान्वयः -
याऽस्य=अग्नेः प्राणात् ब्रह्माण्डशरीरयोर्मध्य ऊर्ध्वगमनशीलाद् अपानती अपानमधोगमनशीलं वायुं निष्पादयन्ती विद्युत् सतीरोचना=दीप्तिर्विद्युच्छरीरब्रह्माण्डयोरन्तः ब्रह्माण्डशरीरयोर्मध्ये चरति गच्छति।
स महिष: स्वगुणैर्महान् अग्निः दिवं सूर्यलोकं व्यख्यत्=विख्यापयति विविधं ख्यापयति ॥
[अस्य=अग्ने: प्राणादपानती सती रोचना दीप्तिर्विद्युच्छरीरब्रह्माण्डयोरन्तश्चरति ]
पदार्थः -
(अन्तः) ब्रह्माण्डशरीरयोर्मध्ये (चरति) गच्छति (रोचना) दीप्ति: (अस्य ) अग्नेः (प्राणात्) ब्रह्माण्डशरीरयोर्मध्य ऊर्ध्वगममनशीलात् (अपानती) अपानमधोगमनशीलं वायुं निष्पादयन्ती विद्युत् (वि) विविधार्थे (अख्यत्) ख्यापयति । अत्र लडर्थे लुङन्तर्गतो ण्यर्थश्च (महिषः) स्वगुणैर्महान् (दिवम्) सूर्यलोकम् ।। ७ ।।
भावार्थः -
मानवैर्योऽग्निर्विद्युदाख्या सर्वान्तःस्था कान्तिर्वर्तते सा प्राणापानाभ्यां सह संयुज्य सर्वान् प्राणापानाग्निप्रकाशगत्यादीन् चेष्टाव्यवहारान् प्रसिद्धीकरोतीति बोध्यम् ॥ ३ । ७ ।।
भावार्थ पदार्थः -
रोचना=कान्तिः । व्यख्यत्=चेष्टाव्यवहारन् प्रसिद्धीकरोति॥
विशेषः -
सर्पराज्ञी कद्रूः । अग्निः=[विद्युत्] । गायत्री । षड्जः ।
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal