Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 3/ मन्त्र 12
    ऋषिः - विरूप ऋषिः देवता - अग्निर्देवता छन्दः - निचृत् गायत्री, स्वरः - षड्जः
    24

    अ॒ग्निर्मू॒र्द्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्याऽअ॒यम्। अ॒पा रेता॑सि जिन्वति॥१२॥

    स्वर सहित पद पाठ

    अ॒ग्निः। मू॒र्द्धा। दि॒वः। क॒कुत्। पतिः॑। पृ॒थि॒व्याः। अ॒यम्। अ॒पाम्। रेता॑सि। जि॒न्व॒ति॒ ॥१२॥


    स्वर रहित मन्त्र

    अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपाँ रेताँसि जिन्वति ॥


    स्वर रहित पद पाठ

    अग्निः। मूर्द्धा। दिवः। ककुत्। पतिः। पृथिव्याः। अयम्। अपाम्। रेतासि। जिन्वति॥१२॥

    यजुर्वेद - अध्याय » 3; मन्त्र » 12
    Acknowledgment

    सपदार्थान्वयः -

    हे मनुष्या ! यूयं योऽयं निरूपितपूर्वः ककुत् महान् मूर्द्धा सर्वोपरि विराजमानः अग्निः = जगदीश्वरः सर्वस्वामीश्वर: दिवः प्रकाशवतः सूर्यादेर्जगतः पृथिव्याः प्रकाशरहितस्य पृथिव्यादेर्जगतः च पतिः=पालकः पालयिता सन्नपां प्राणानां रेतांसि वीर्याणि जिन्वति=स्रष्टं जानाति रचयितुं जानाति तमेव पूज्यं मन्यध्वमित्येकः

    योऽयं निरूपितपूर्व: अग्निः प्रकाशादिगुणवान् भौतिकः ककुद् महान् दिवः प्रकाशवतः सूर्यादेर्जगतः मूर्द्धा सर्वोपरि विराजमानः पृथिव्याः प्रकाशरहितस्य पृथिव्यादेर्जगतश्च पतिः=पालनहेतुः सन्नपां जलानां वा रेतांसि वीर्याणि जिन्वति प्राणानां, स सुखं प्रापयतीति द्वितीयः ॥ ३ ॥ १२ ॥

    [ योऽयं अग्निः=जगदीश्वरो दिवः पृथिव्याश्च  पतिः=पालकः सन्नपां रेतांसि जिन्वति ]

    पदार्थः -

    (अग्निः) सर्वस्वामीश्वरः, प्रकाशादिगुणवान्भौतिको वा (मूर्द्धा) सर्वोपरि विराजमानः (दिव:) प्रकाशवतः सूर्यादेर्जगतः (ककुत्) महान् । ककुह इति महन्नामसु पठितम् ॥ निघं० ३ ।३ ॥ ककुहशब्दस्य स्थाने ककुत्। पृषोदराद्याकृतिगणान्तर्गतत्वात्सिद्धः (पतिः) पालयिता, पालनहेतुर्वा (पृथिव्याः) प्रकाशरहितस्य पृथिव्यादेर्जगतः (अयम्) निरूपितपूर्व: (अपाम्) प्राणानां जलानां वा । आप इति पदनामसु पठितम् ॥ निघं० ५ । ३ ॥ अनेन चेष्टादिव्यवहारप्रापकाः प्राणा गृह्यन्ते । आप इत्युदकनामसु पठितम्॥ निघं० १ । १२ ॥ (रेतांसि) वीर्याणि (जिन्वति) रचयितुं जानाति, प्रापयति वा। जिन्वतीति गतिकर्मसु पठितम् ॥ निघं० २ ।१४ ॥ अयं मंत्रः शत० २ ।३ ।२ ।११ व्याख्यातः ॥ १२ ॥

    भावार्थः -

     अत्र श्लेषालङ्कारः॥ यो जगदीश्वरः प्रकाशाप्रकाशवद् द्विविधं जगदर्थात् प्रकाशवत् सूर्यादिकमप्रकाशवत्पृथिव्यादिकं च रचयित्वा, पालयित्वा प्राणेषु बलं च दधाति,

    [ योऽयमग्निर्दिवः पृथिव्याश्च पतिः=पालनहेतुः सन्नपां रेतांसि जिन्वति स सुखं प्रापयति ]

    तथा-–योऽयमग्निः पृथिव्यादिजगतः पालनहेतुर्भूत्वा विद्युज्जाठरादिरूपः प्राणानां जलानां वीर्याणि जनयति, स एव सुखसाधको भवतीति ॥३ । १२ ।।

    भावार्थ पदार्थः -

    भा॰ पदार्थः-- रेतांसि=बलानि । जिन्वति=दधाति । अग्निः=विद्युज्जाठरादिरूपः । जिन्वति=जनयति ॥

    विशेषः -

    विरूपः । अग्निः=ईश्वरो भौतिकश्च ॥ निचृद्गायत्री । षड्जः ॥

    इस भाष्य को एडिट करें
    Top