Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 3/ मन्त्र 6
    ऋषिः - सर्प्पराज्ञी कद्रूर्ऋषिः देवता - अग्निर्देवता छन्दः - निचृत् गायत्री, स्वरः - षड्जः
    4

    आयं गौः पृश्नि॑रक्रमी॒दस॑दन् मा॒तरं॑ पु॒रः। पि॒तरं॑ च प्र॒यन्त्स्वः॑॥६॥

    स्वर सहित पद पाठ

    आ। अ॒यम्। गौः। पृश्निः॑। अ॒क्र॒मी॒त्। अस॑दत्। मा॒तर॑म्। पु॒रः। पि॒तर॑म्। च॒। प्र॒यन्निति॑ प्र॒ऽयन्। स्व॒रिति॒ स्वः᳕ ॥६॥


    स्वर रहित मन्त्र

    आयङ्गौः पृश्निरक्रमीदसदन्मातरम्पुरः पितरञ्च प्रयन्त्स्वः ॥


    स्वर रहित पद पाठ

    आ। अयम्। गौः। पृश्निः। अक्रमीत्। असदत्। मातरम्। पुरः। पितरम्। च। प्रयन्निति प्रऽयन्। स्वरिति स्वः॥६॥

    यजुर्वेद - अध्याय » 3; मन्त्र » 6
    Acknowledgment

    सपदार्थान्वयः -

    अयं प्रत्यक्षः गौः=पृथिवीगोलः यो गच्छति स भूगोलः स्वः आदित्यं पितरं पालकं पुरः पूर्वं पूर्वं प्रयन् प्रकृष्टतया गच्छन् स्वयोनिमपः, जलनिमित्तेन पृथिव्युत्पत्तेः प्रयन् पृश्निः=अन्तरिक्षे आक्रमीत् = आक्राम्यति अभितः क्राम्यति, [असदत् ]=समन्ताद् भ्रमति स्वकक्ष्यायां भ्रमति ॥ ३ ॥ ६ ॥

    मातरम्-ग्रपश्च -

    [ अयं गौ=पृथिवीगोलः  स्वः पितरं  पुरः प्रयन्, मातरम्=अपश्च प्रयन्, पृश्निः=अन्तरिक्षे आक्रमीत्= आक्राम्यति=समन्ताद् भ्रमति, [असदत्] स्वकक्ष्यायां भ्रमति]

    पदार्थः -

    (आ) अभ्यर्थे (अयम्) प्रत्यक्ष (गौः) यो गच्छति स भूगोलः ।गौरिति पृथिवीनामसु पठितम् ॥ निघं० १ ॥ १ ॥ गौरिति पृथिव्या नामधेयम् । यद् दूरं गता भवति । यच्चास्यां भूतानि गच्छन्ति ॥ निरु० २ ॥ ५ ॥ (पृश्निः) अन्तरिक्षे । अत्र सुपां सुलुगिति सप्तम्येकवचने प्रथमैकवचनम् । पृश्निरिति साधारणनामसु पठितम् ॥ निघं० १ ।४ ॥ (अक्रमीत्) क्राम्यति । अत्र लडर्थे लुङ् (असदत्) स्वकक्ष्ययायां भ्रमति । अत्रापि लडर्थे लुङ् (मातरम्) स्वयोनिमपः, जलनिमित्तेन पृथिव्युत्पत्तेः (पुरः) पूर्वं पूर्वम् (पितरम्) पालकम् (प्रयन्) प्रकृष्टतया गच्छन् (स्व:) आदित्यम् । स्वरादित्यो भवति ॥ निरु० २ ।१४ ॥अयं मंत्रः श० २ । १ । ४ । २९ निगदव्याख्यातः ॥ ६ ॥

    भावार्थः -

    मनुष्यैर्यस्माज्जलाग्निनिमित्तोत्पन्नोऽयं भूगोलोऽन्तरिक्षे स्वकक्ष्यायामाकर्षणेन रक्षकस्य सूर्यस्याभिः प्रतिक्षणं भ्रमति,

     

    [फलमाह --]

    तस्मादहोरात्रशुक्लकृष्णपक्षर्त्वयनादीनि कालविभागाः क्रमशः सम्भवन्तीति वेद्यम् । ३।६।।

    भावार्थ पदार्थः -

     गौः=भूगोलः । स्वः=सूर्यम् । आक्रमीत्=प्रतिक्षणं भ्रमति ।।पितरम्=रक्षकम् । पुरः=अभि।

    विशेषः -

    सर्प्पराज्ञी कद्रूः । अग्निः= [भौतिकोःऽग्निः] । गायत्री । षड्जः ॥

    इस भाष्य को एडिट करें
    Top