Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 8/ मन्त्र 13
    ऋषिः - भरद्वाज ऋषिः देवता - गृहपतयो विश्वेदेवा देवताः छन्दः - साम्नी उष्णिक्,निचृत् साम्नी उष्णिक्,निचृत् साम्नी अनुष्टुप्,भूरिक् प्राजापत्या गायत्री,निचृत् आर्षी उष्णिक् स्वरः - ऋषभः
    0

    दे॒वकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि मनु॒ष्यकृत॒स्यैन॑सोऽव॒यज॑नमसि पि॒तृकृ॑त॒स्यैन॑सोऽव॒यज॑नम-स्या॒त्मकृ॑त॒स्यैन॑सोऽव॒यज॑नम॒स्येन॑सऽएनसोऽव॒यज॑नमसि। यच्चा॒हमेनो॑ वि॒द्वाँश्च॒कार॒ यच्चावि॑द्वाँ॒स्तस्य॒ सर्व॒स्यैन॑सोऽव॒यज॑नमसि॥१३॥

    स्वर सहित पद पाठ

    दे॒वकृ॑त॒स्येति॑ दे॒वऽकृ॑तस्य। एन॑सः। अ॒व॒यज॑न॒मित्य॑व॒ऽयज॑नम्। अ॒सि॒। म॒नु॒ष्य॒कृत॒स्येति॑ म॒नु॒ष्य᳖ऽकृत॑स्य। एन॑सः। अ॒व॒यज॑न॒मित्य॑व॒ऽयज॑नम्। अ॒सि॒। पि॒तृकृ॑त॒स्येति॑ पि॒तृऽकृ॑तस्य। एन॑सः। अ॒व॒यज॑न॒मित्य॑व॒ऽयज॑नम्। अ॒सि॒। आ॒त्मकृ॑त॒स्येत्या॒त्मऽकृ॑तस्य। एन॑सः। अ॒व॒यज॑न॒मित्य॑व॒ऽयज॑नम्। अ॒सि॒। एन॑स एनस॒ इत्येन॑सःऽएनसः। अ॒व॒यज॑न॒मित्य॑व॒ऽयज॑नम्। अ॒सि॒। यत्। च॒। अ॒हम्। एनः॑। वि॒द्वान्। च॒कार॑। यत्। च॒। अवि॑द्वान्। तस्य॑। सर्व॑स्य। एन॑सः। अ॒व॒यज॑न॒मित्य॑व॒ऽयज॑नम्। अ॒सि॒ ॥१३॥


    स्वर रहित मन्त्र

    देवकृतस्यैनसोवयजनमसि मनुष्यकृतस्यैनसोवयजनमसि पितृकृतस्यैनसोवयजनमस्यैत्मकृतस्यैनसो वयजनमसि एनसएनसो वयजनमसि । यच्चाहमेनो विद्वाँश्चकार यच्चाविद्वाँस्तस्य सर्वस्यैनसो वयजनमसि । यजुर्वेद 8ण्1३॥


    स्वर रहित पद पाठ

    देवकृतस्येति देवऽकृतस्य। एनसः। अवयजनमित्यवऽयजनम्। असि। मनुष्यकृतस्येति मनुष्यऽकृतस्य। एनसः। अवयजनमित्यवऽयजनम्। असि। पितृकृतस्येति पितृऽकृतस्य। एनसः। अवयजनमित्यवऽयजनम्। असि। आत्मकृतस्येत्यात्मऽकृतस्य। एनसः। अवयजनमित्यवऽयजनम्। असि। एनस एनस इत्येनसःऽएनसः। अवयजनमित्यवऽयजनम्। असि। यत्। च। अहम्। एनः। विद्वान्। चकार। यत्। च। अविद्वान्। तस्य। सर्वस्य। एनसः। अवयजनमित्यवऽयजनम्। असि॥१३॥

    यजुर्वेद - अध्याय » 8; मन्त्र » 13
    Acknowledgment

    सपदार्थान्वयः - हे सर्वोपकारिन् सखे ! त्वं देवकृतस्य दानशीलकृतस्य एनसः पापस्य अवयजनं पृथक्करणम् असि, मनुष्यकृतस्य साधारणजनेनाचरितस्य एनसः अपराधस्य अवयजनं दूरीकरणम् असि, पितृकृतस्य जनककृतस्य एनसः विरोधाचरणस्य अवयजनं परिहरणम् असि, आत्मकृतस्य स्वयमाचरितस्य एनसः पापस्य अवयजनमसि, एनस एनसः अधर्मस्याधर्मस्य अवयजनं परिहरणम् असि विद्वान् जानन् सन् अहं यत्अतीते काले च वर्त्तमाने एनः=पापम् अधर्माचरणं चकार=कृतवान् करोमि करिष्यामि वा अविद्वान्अजानन् सन् अहं यत् अतीते काले च वर्त्तमाने एनः अधर्म्माचरणं कृतवान् करोमि, करिष्यामि वा तस्य सर्वस्यैनस: दुष्टाचरणस्य अवयजनं दूरीकरणं चासि ॥ ८ । १३॥ [हे सर्वोपकारिन्सखे ! त्वं देवकृतस्य, मनुष्यकृतस्य, पितृकृतस्य, आत्मकृतस्यैनसोऽवयजनमसि, विद्वानहं यच्चैन:=पापं चकार=कृतवान्, करोमि, करिष्यामि वा, अविद्वानहं यच्चैनः कृतवान्, करोमि, करिष्यामि वा तस्य सर्वस्यैनसोऽवयजनं चासि]

    पदार्थः -
    (देवकृतस्य) दानशीलकृतस्य (एनसः) पापस्य (अवयजनम्) पृथक्करणम् (असि)(मनुष्यकृतस्य) साधारणजनेनाचरितस्य (एनसः) अपराधस्य (अवयजनम्) दूरीकरणम् (असि)(पितृ- कृतस्य) जनककृतस्य (एनसः) विरोधाचरणस्य (अवयजनम्) परिहरणम् (असि)(आत्मकृतस्य) स्वय- माचरितस्य (एनसः) पापस्य (अवयजनम्)(असि)(एनसः)(एनसः) अधर्म्मस्याधर्म्मस्य (अवयजनम्) परिहरणम् (असि)(यत्) अतीते काले (च) वर्त्तमाने (अहम्)(एनः) अधर्म्माचरणम् (विद्वान) जानन् सन् (चकार) कृतवान् करोमि करिष्यामि वा । अत्र छन्दसि लुङ् लिङ् लिटः ॥ अ० ३ । ४ । ६ ॥ इति कालसामान्ये लिट्(यत्)(च) अविद्यासमुच्चये (अविद्वान्) अजानन् सन् (तस्य)(सर्वस्य)(एनसः) दुष्टाचरणस्य (अवयजनम्) दूरीकरणम् (असि) ॥ अयं मन्त्रः शत० ४ । ३ । ६ । १ व्याख्यातः ॥ १३ ॥

    भावार्थः - अत्रोपमालङ्कारः ॥ यथा विद्वान् गृहाश्रमी पुरुषो दानादिप्रसक्तपुरुषाणामपराधदूरीकरणे प्रयतेत, जानन्नजानन् वात्मकृतमपराधं स्वयं त्यजेदन्यकृतमन्यस्मान्निवारयेत्, तथाऽनुष्ठाय सर्वे यथोक्तं सुखं प्राप्नुयुरिति ॥८ । १३॥

    विशेषः - देवकृतस्येत्यस्य भारद्वाजः । गृहपतयो विश्वेदेवा=विद्वांसो गृहस्थाः । मनुष्यकृतस्येत्यस्य सामान्युष्णिक्, पितृकृतस्येत्यस्यात्मकृतस्येत्यस्य च निचृत्साम्न्युष्णिक्, एनस इत्यस्य प्राजापत्योष्णिक्, यच्चाहमित्यस्य निचृदार्ष्युष्णिक् च छन्दांसि ॥ ऋषभः ॥

    इस भाष्य को एडिट करें
    Top