Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 8/ मन्त्र 15
    ऋषिः - अत्रिर्ऋषिः देवता - गृहपतिर्देवता छन्दः - भूरिक् आर्षी त्रिष्टुप्, स्वरः - धैवतः
    0

    समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभिः॒ सꣳ सू॒रिभि॑र्मघव॒न्त्सꣳ स्व॒स्त्या। सं ब्रह्म॑णा दे॒वकृ॑तं॒ यदस्ति॒ सं दे॒वाना॑ सुम॒तौ य॒ज्ञिया॑ना॒ स्वाहा॑॥१५॥

    स्वर सहित पद पाठ

    सम्। इ॒न्द्र॒। नः॒। मन॑सा। ने॒षि॒। गोभिः॑। सम्। सू॒रिभि॒रिति॑ सू॒रिऽभिः॑। म॒घ॒व॒न्निति॑ मघऽवन्। सम्। स्व॒स्त्या। सम्। ब्रह्म॑णा। दे॒वकृ॑त॒मिति॑ दे॒वऽकृ॑तम्। यत्। अस्ति॑। सम्। दे॒वाना॑म्। सु॒म॒ताविति॑ सुऽम॒तौ। य॒ज्ञियाना॑म्। स्वाहा॑ ॥१५॥


    स्वर रहित मन्त्र

    समिन्द्र णो मनसा नेषि गोभिः सँ सूरिभिर्मघवन्त्सँ स्वस्त्या । सम्ब्रह्मणा देवकृतँयदस्ति सन्देवानाँ सुमतौ यज्ञियानाँ स्वाहा ॥


    स्वर रहित पद पाठ

    सम्। इन्द्र। नः। मनसा। नेषि। गोभिः। सम्। सूरिभिरिति सूरिऽभिः। मघवन्निति मघऽवन्। सम्। स्वस्त्या। सम्। ब्रह्मणा। देवकृतमिति देवऽकृतम्। यत्। अस्ति। सम्। देवानाम्। सुमताविति सुऽमतौ। यज्ञियानाम्। स्वाहा॥१५॥

    यजुर्वेद - अध्याय » 8; मन्त्र » 15
    Acknowledgment

    सपदार्थान्वयः - हे मघवन् ! परमपूजितधनयुक्त इन्द्र=विद्यादिपरमैश्वर्ययुक्त समध्यापकोपदेशक ! यतस्त्वं संमनसा विज्ञानसहितेनान्तःकरणेन सन्मार्गं, गोभि: धेनुभिः सुष्ठुवाग्युक्तैर्व्यवहारैर्वा संस्वस्त्या सुखेन पुरुषार्थं, सूरिभिःमेधाविभिर्विद्वद्भिरिव सह ब्रह्मणा बृहता वेदज्ञानेन धनेन वा विद्यां, [यत्] यज्ञियानां यज्ञस्य पतिं विद्यातुमर्हाणांदेवानाम्आप्तानां विपश्चितां स्वाहा सत्यया वाचा सुमतौ शोभनायां बुद्धाविव देवकृतम्=यज्ञकृतं इन्द्रियकृतं कर्म्म [अस्ति तत्] नः=अस्मान् सम्-नेषि प्राप्नोषि तस्माद् भवानस्माभिः सत्कर्त्तव्योऽसि ॥ ८।१५॥ [हे मघवन्निन्द्र=विद्यादिपरमैश्वर्ययुक्त समध्यापकोपदेशक ! यतस्त्वं संमनसा सन्मार्गं, गोभिः संस्वस्त्या पुरुषार्थं.....नः=अस्मान् सम्+नेषि, तस्माद् भवानस्माभिः सत्कर्त्तव्योऽस्ति]

    पदार्थः -
    (सम्)(इन्द्र) परमैश्वर्ययुक्त गृहपते ! (नः) अस्मान् (मनसा) विज्ञानसहितेनान्तःकरणोन (नेषि) प्राप्नोषि । अत्र बहुलं छन्दसि ॥ अ० २ । ४ ।७३॥इति शबभावः(गोभिः) धेनुभिः सुष्ठुवाग्युक्तैर्व्यवहारैर्वा (सम्)(सूरिभिः) मेधाविभिर्विद्वद्भिरिव (मघवन्) परमपूजितधनयुक्त ! (सम् )(स्वस्त्या) सुखेन (सम्)(ब्रह्मणा) बृहता=वेदज्ञानेन धनेन वा । ब्रह्मेति धननामसु पठितम् ॥ निघं० २ । १० ॥(देवकृतम्) इन्द्रियकृतं कर्म्म (यत्)(अस्ति)(सम्)(देवानाम्) आप्तानां विपश्चिताम् (सुमतौ) शोभनायां बुद्धाविव (यज्ञियानाम्) यज्ञस्य पतिं विधातुमर्हाणाम् (स्वाहा) सत्यया वाचा ॥ अयं मन्त्र: शत० ४ । ४ । ४ । ७ व्याख्यातः ॥ १५॥

    भावार्थः - गृहस्थैर्विद्वांसोऽतः पूजनीया यतस्ते बालकान् स्वशिक्षया सुगुणयुक्तान् राजा- प्रजाजनाँश्चैश्वर्यसहितान् सम्पादयन्ति ॥ ८ । १५॥

    विशेषः - समिन्द्रेत्यस्यात्रिः। गृहपति:=गृहस्थः ॥ भुरिगार्षी त्रिष्टुप् । धैवतः ॥

    इस भाष्य को एडिट करें
    Top