Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 8/ मन्त्र 36
    ऋषिः - विवस्वान् ऋषिः देवता - परमेश्वरो देवता छन्दः - भूरिक् आर्षी त्रिष्टुप्, स्वरः - धैवतः
    0

    यस्मा॒न्न जा॒तः परो॑ऽअ॒न्योऽअस्ति॒ यऽआ॑वि॒वेश॒ भुव॑नानि॒ विश्वा॑। प्र॒जाप॑तिः प्र॒जया॑ सꣳररा॒णस्त्रीणि॒ ज्योती॑षि सचते॒ स षो॑ड॒शी॥३६॥

    स्वर सहित पद पाठ

    यस्मा॑त्। न। जा॒तः। परः॑। अ॒न्यः। अस्ति॑। यः। आ॒वि॒वेशेत्या॑ऽवि॒वेश॑। भुव॑नानि। विश्वा॑। प्र॒जाप॑ति॒रिति॑ प्र॒जाऽप॑तिः। प्र॒जयेति॑ प्र॒ऽजया॑। स॒र॒रा॒ण इति॑ सम्ऽर॒रा॒णः। त्रीणि॑। ज्योति॑षि। स॒च॒ते॒। सः। षो॒ड॒शी ॥३६॥


    स्वर रहित मन्त्र

    यस्मन्न जातः परोऽअन्योऽअस्ति यऽआविवेश भुवनानि विश्वा । प्रजापतिः प्रजया सँरराणस्त्रीणि ज्योतीँषि सचते स षोडशी ॥


    स्वर रहित पद पाठ

    यस्मात्। न। जातः। परः। अन्यः। अस्ति। यः। आविवेशेत्याऽविवेश। भुवनानि। विश्वा। प्रजापतिरिति प्रजाऽपतिः। प्रजयेति प्रऽजया। सरराण इति सम्ऽरराणः। त्रीणि। ज्योतिषि। सचते। सः। षोडशी॥३६॥

    यजुर्वेद - अध्याय » 8; मन्त्र » 36
    Acknowledgment

    सपदार्थान्वयः - यस्मात् परमात्मनः पर: उत्तमः अन्यः भिन्नः न जातः प्रसिद्धः [अस्ति] । किंच--यो विश्वा सर्वाणिभुवनानि स्थानानि आविवेश, स प्रजापतिः विश्वस्याध्यक्षः प्रजया सर्वेण संसारेणसंरराणः सम्यग्दातृशीलः षोडशी प्रशस्ता: षोडश कला: [इच्छा प्राणः श्रद्धा पृथिव्यापोऽग्निर्वायुराकाशमिन्द्रियाणि मनोऽन्नं वीर्यं तयो मन्त्रा लोको नाम च] विद्यन्ते यस्मिन् सः त्रीणि ज्योतींषि सूर्य्य विद्युद्ग्न्याख्यानि सचते सर्वेषु समवैति ॥ ८। ३६ ॥ [यो विश्वा भुवनान्याविवेश, स प्रजापतिः प्रजया संरराण: षोडशी त्रीणि ज्योतींषि सचते]

    पदार्थः -
    (यस्मात्) परमात्मनः (न) निषेधे (जातः) प्रसिद्धः (परः) उत्तमः (अन्यः) भिन्नः (अस्ति)(यः)(आविवेश)(भुवनानि) स्थानानि (विश्वा) सर्वाणि। अत्र शेर्लुक्(प्रजापतिः) विश्वस्याध्यक्षः (प्रजया) सर्वेण संसारेण(संरराणः) सम्यग्दातृशीलः । अत्र व्यत्ययेनात्मनेपदम् । बहुलं छन्दसि ॥अ० २ । ४ । ७३ ॥इति शपः स्थाने श्लुः(त्रीणि)(ज्योतींषि) सूर्य्यविद्युदग्न्याख्यानि (सचते) सर्वेषु समवैति (सः)(षोडशी) प्रशस्ताः षोडश कला विद्यन्ते यस्मिन् स:। इच्छा प्राणः श्रद्धा पृथिव्यापोऽग्निर्वायुराकाशमिन्द्रियाणि मनोऽन्नं वीर्य्यन्तपो मन्त्रा लोको नाम चैताः कलाः प्रश्नोपनिषदि प्रतिपादिताः ॥ अयम्मन्त्रः शत० ४ । ४ । ५ । ६ व्याख्यातः ॥ ३६ ॥

    भावार्थः - गृहाश्रममिच्छद्भिर्मनुष्यैः--यः सर्वत्राभिव्यापी, सर्वेषां लोकानां स्रष्टा, धर्ता, दाता, न्यायकारी, सनातनः, सच्चिदानन्दो, नित्य शुद्धबुद्धमुक्तस्वभाव:, सूक्ष्मात् सूक्ष्मः, महतो महान्, सर्वशक्तिमान् परमात्मास्ति, [यस्मात्परोऽन्यो न जातः [अस्ति]] यस्मात् कश्चिदपि पदार्थ उत्तमः समो वा नास्ति, स एवोपास्यः ॥ ८ । ३६ ॥

    विशेषः - विवस्वान् । परमेश्वर:=स्पष्टम् ॥भुरिगार्षी त्रिष्टुप् । धैवतः ॥

    इस भाष्य को एडिट करें
    Top