Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 8/ मन्त्र 63
    ऋषिः - कश्यप ऋषिः देवता - यज्ञो देवता छन्दः - स्वराट आर्षी गायत्री, स्वरः - षड्जः
    0

    आ प॑वस्व॒ हिर॑ण्यव॒दश्वव॑वत् सोम वी॒रव॑त्। वाजं॒ गोम॑न्त॒माभ॑र॒ स्वाहा॑॥६३॥

    स्वर सहित पद पाठ

    आ। प॒व॒स्व॒। हिर॑ण्यव॒दिति॒ हिर॑ण्यऽवत्। अश्व॑व॒दित्यश्व॑ऽवत्। सो॒म॒। वी॒रव॒दिति॑ वी॒रऽव॑त्। वाज॑म्। गोम॑न्त॒मिति॒ गोऽम॑न्तम्। आ। भ॒र॒। स्वाहा॑ ॥६३॥


    स्वर रहित मन्त्र

    आपवस्व हिरण्यवदश्ववत्सोम वीरवत् । वाजङ्गोमन्तमाभर स्वाहा ॥


    स्वर रहित पद पाठ

    आ। पवस्व। हिरण्यवदिति हिरण्यऽवत्। अश्ववदित्यश्वऽवत्। सोम। वीरवदिति वीरऽवत्। वाजम्। गोमन्तमिति गोऽमन्तम्। आ। भर। स्वाहा॥६३॥

    यजुर्वेद - अध्याय » 8; मन्त्र » 63
    Acknowledgment

    सपदार्थान्वयः - हे सोम ! ऐश्वर्यमिच्छुक गृहस्थ ! त्वं स्वाहा सत्यया वाचा सत्यक्रियया वा हिरण्यवत् हिरण्यादिना तुल्यम् अश्ववत् अश्वादिभि: समानंवीरवत् प्रशस्तवीरसदृशं गोमन्तं प्रशस्तेन्द्रियादिसम्बन्धं वाजम्=अन्नम् अन्नादिपदार्थमियं यज्ञम् आ-भर समन्ताद् धर, तेन जगदापवस्व समन्तात् पवित्रीकुरु ॥ ८ । ६३॥ [हे सोम ! त्वं स्वाहा हिरण्यवदश्ववद्वीरवद् .....वाजमन्त्रमाभर, तेन जगदापवस्व]

    पदार्थः -
    (अ) समन्तात् (पवस्व) पवित्रीकुरु (हिरण्यवत्) हिरण्यादिना तुल्यम् (अश्ववत्) अश्वादिभि: समानम् (सोम) ऐश्वर्य्यमिच्छुक गृहस्थ (वीरवत्) प्रशस्तवीरसदृशम् (वाजम्) अन्नादिपदार्थमयं यज्ञम् । अत्रार्शआदित्वादच्(गोमन्तम्) प्रशस्तेन्द्रियादिसम्बन्धम् (आ)(भर) धर (स्वाहा) सत्यया वाचा सत्यक्रियया वा ॥ ६३ ॥

    भावार्थः - अत्रोपमालङ्कारः ॥ मनुष्यैः पुरुषार्थेन सुवर्णादिधनभासाद्याश्वादयो रक्षणीयास्तदनन्तरं वीराश्च, कुतो यावदेतां सामग्रीं नाभरन्ति तावद्गृहाश्रमारब्धव्या यज्ञमप्यलं कर्त्तुं न शक्नुवन्ति ॥ ८। ६३ ॥ [पूर्वापराध्यायार्थसंगतिमाह] अस्मिन्नध्याये गृहस्थधर्मसेवनाय ब्रह्मचारिण्या कन्यया कुमारब्रह्मचारिस्वीकरणं, गृहाश्रमधर्मवर्णनं, राजप्रजासभापत्यादिकृत्यमुक्तमत एतदध्यायोक्तार्थस्य पूर्वाध्यायोक्तार्थेन सह संगतिरस्तीति बोद्धव्यम् । ८॥ इति श्रीयुतपण्डितसुदर्शनदेवाचार्यकृते दयानन्द-यजुर्वेदभाष्य-भास्करेऽषष्ठोऽध्यायः ॥

    विशेषः - कश्यपः। यज्ञ:=स्पष्टम्॥ स्वराडार्षी गायत्री। षड्जः ॥

    इस भाष्य को एडिट करें
    Top