Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 8/ मन्त्र 26
    ऋषिः - अत्रिर्ऋषिः देवता - गृहपतयो देवताः छन्दः - स्वराट आर्षी बृहती, स्वरः - मध्यमः
    0

    देवी॑रापऽए॒ष वो॒ गर्भ॒स्तꣳ सुप्री॑त॒ꣳ सुभृ॑तं बिभृत। देव॑ सोमै॒ष ते॑ लो॒कस्तस्मि॒ञ्छञ्च॒ वक्ष्व॒ परि॑ च वक्ष्व॥२६॥

    स्वर सहित पद पाठ

    देवीः॑। आ॒पः॒। ए॒षः। वः॒। गर्भः॑। तम्। सुप्री॑त॒मिति॒ सुऽप्री॑तम्। सुभृ॑त॒मिति॒ सुऽभृ॑तम्। बि॒भृ॒त॒। देव॑ सो॒म॒। ए॒षः। ते॒। लो॒कः। तस्मि॑न्। शम्। च॒। वक्ष्व॑। परि॑। च॒। व॒क्ष्व॒ ॥२६॥


    स्वर रहित मन्त्र

    देवीरापऽएष वो गर्भस्तँ सुप्रीतँ सुभृतम्बिभृत । देव सोमैष ते लोकस्तस्मिञ्छञ्च वक्ष्व परि च वक्ष्व ॥


    स्वर रहित पद पाठ

    देवीः। आपः। एषः। वः। गर्भः। तम्। सुप्रीतमिति सुऽप्रीतम्। सुभृतमिति सुऽभृतम्। बिभृत। देव सोम। एषः। ते। लोकः। तस्मिन्। शम्। च। वक्ष्व। परि। च। वक्ष्व॥२६॥

    यजुर्वेद - अध्याय » 8; मन्त्र » 26
    Acknowledgment

    सपदार्थान्वयः - हे आपः सर्वाः शुभगुणकर्म्म विद्याव्यापिन्यः देवी:=देव्यः ! देदीप्यमाना विदुष्यः यूयं वः=युष्माकं य एषः गर्भो लोक: लोकनीय:=पुत्रपत्यादिसम्बन्धसुखकरो गृहाश्रमः तं सुप्रीतं सुष्ठु प्रीतिनिबद्धंसुभृतं सुष्ठुधारितं यथा स्यात्तथाबिभृत धरत पुष्यत । हे देव ! दिव्यगुणैः कमनीय सोम ऐश्वर्य्याढ्य गृहस्थजन ! य एष ते=तव लोक: लोकनीय:= पुत्रपत्यादिसम्बन्धसुखकरो गृहाश्रमः अस्ति, तस्मिन् शं कल्याणकारकं ज्ञानं [च] चात्-शिक्षां वक्ष्व प्रापय[च] चाद् रक्षणं परिवक्ष्व वह ॥ ८ । २६ ॥ [हे.....देवी:=देव्यः ! यूयं वः=युष्माकं य एष गर्भो लोकस्तं सुप्रीतं.....बिभृत]

    पदार्थः -
    (देवीः) देदीप्यमाना विदुष्यः (आपः) सर्वाः शुभगुणकर्म्मविद्याव्यापिन्यः (एषः)(वः) युष्माकं (गर्भः)(तम्)(सुप्रीतम्) सुष्ठु प्रीतिनिबद्धम्(सुभृतम्) सुष्ठु धारितम्(बिभृत) धरत, पुष्यत (देव) दिव्यगुणैः कमनीय ! (सोम) ऐश्वर्याढ्य गृहस्थजन ! (एषः) प्रत्यक्ष: (ते) तव (लोक:) लोकनीय: पुत्रपत्यादिसंबन्धमुखकरो गृहाश्रमः (तस्मिन्)(शम्) कल्याणकारकं ज्ञानम्(च) शिक्षाम् (वक्ष्व) प्रापय (परि)(च) अनुक्तसमुच्चये (वक्ष्व) वह ॥ अयं मन्त्रः शत० ४ । ४ । ५ । २१ व्याख्यातः ॥ २६ ॥

    भावार्थः - विदुषी स्त्री यथोक्तविवाहविधिना विद्वांसं पतिं प्राप्य तन्मनोरञ्जनपुरःसरं गर्भमादधीत, [हे......सोम ! य एष ते=तव लोकोऽस्ति तस्मिन् शं [च] चाच्छिक्षां वक्ष्व [च] चादरक्षणं परिवक्ष्व] सच पतिः स्त्रीरक्षणे तन्मनोरञ्जने च नित्यमुत्सहेत ॥ ८ । २६ ॥

    विशेषः - अत्रिः। गृहपतय:=गृहस्थाः ॥ स्वराडार्षी बृहती । मध्यमः ॥

    इस भाष्य को एडिट करें
    Top