Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 9/ मन्त्र 11
    ऋषिः - बृहस्पतिर्ऋषिः देवता - इन्द्राबृहस्पती देवते छन्दः - जगती, स्वरः - निषादः
    0

    बृह॑स्पते॒ वाजं॑ जय॒ बृह॒स्पत॑ये॒ वाचं॑ वदत॒ बृह॒स्पतिं॒ वाजं॑ जापयत। इन्द्र॒ वाजं॑ ज॒येन्द्रा॑य॒ वाचं॑ वद॒तेन्द्रं॒ वाजं॑ जापयत॥११॥

    स्वर सहित पद पाठ

    बृह॑स्पते। वाज॑म्। ज॒य॒। बृह॒स्पत॑ये। वाच॑म्। व॒द॒त॒। बृह॒स्पति॑म्। वाज॑म्। जा॒प॒य॒त॒। इन्द्र॑। वाज॑म्। ज॒य॒। इन्द्रा॑य। वाच॑म्। व॒द॒त॒। इन्द्र॑म्। वाज॑म्। जा॒प॒य॒त॒ ॥११॥


    स्वर रहित मन्त्र

    बृहस्पते वाजं जय बृहस्पतये वाचं वदत बृहस्पतिं वाजं जापयत । इन्द्र वाजं जयेन्द्राय वाचं वदतेन्द्रं वाजं जापयत ॥


    स्वर रहित पद पाठ

    बृहस्पते। वाजम्। जय। बृहस्पतये। वाचम्। वदत। बृहस्पतिम्। वाजम्। जापयत। इन्द्र। वाजम्। जय। इन्द्राय। वाचम्। वदत। इन्द्रम्। वाजम्। जापयत॥११॥

    यजुर्वेद - अध्याय » 9; मन्त्र » 11
    Acknowledgment

    सपदार्थान्वयः - [उपदेशका योद्धारश्च] सपदार्थान्वयः-- हे बृहस्पते ! सर्वविद्याध्यापकोपदेशक वा सकलविद्याप्रचारकोपदेशक! त्वं वाजं विज्ञानंजय उत्कर्ष । हे विद्वांसः ! यूयमस्मै बृहस्पतये अध्ययनाध्यापनाभ्यां विद्याप्रचाररक्षकाय वाचं वेदसुशिक्षाजनितां वाणींवदत अध्यापयतोपदिशत वा इमंबृहस्पतिम् अनूचानमध्यापकंवाजं विद्याबोधं जापयत उत्कर्षेण बोधयत । हे इन्द्र ! विद्यैश्वर्यप्रकाशक ! त्वं वाजं परमैश्वर्यंजय उत्कर्ष । हे युद्धविद्याकुशला विद्वांसः ! यूयमस्मा इन्द्राय परमैश्वर्यप्रापकाय वाचं राजधर्मप्रचारिणीं वाणींवदत, इममिन्द्रं वाजं जापयत उत्कृष्टतां प्रापयत ।।९।११ ।। [राजा] हे बृहस्पते=सर्वविद्याध्यापक ! सकलविद्याप्रचारक ! त्वं वाजं संग्रामंजय उत्कर्ष । हे विद्वांसः ! यूयमस्मै बृहस्पतये अध्ययनाध्यापनाभ्यां विद्याप्रचाररक्षकाय वाचं वेदसुशिक्षाजनितां वाणीं वदत अध्यापयतोपदिशत वा इमंबृहस्पतिं सम्राजंवाजं युद्धं जापयत उत्कर्षेण बोधयत । हे इन्द्र शत्रुविदारक ! त्वं वाजं शत्रुविजयाख्यं युद्धं जय उत्कर्ष । हे युद्धविद्याकुशला विद्वांसः ! यूयमस्मा इन्द्राय परमैश्वर्यप्रापकाय वाचं राजधर्मप्रचारिणीं वाणींवदत, इममिन्द्रं वाजं जापयत उत्कृष्टतां प्रापयत ।। ९ । ११ ।। [हे बृहस्पते=सर्वविद्याध्यापक! त्वं वाजं जय]

    पदार्थः -
    (बृहस्पते) सकलविद्याप्रचारकोपदेशक (वाजम्) विज्ञानं संग्रामं वा (जय) (बृहस्पतये) अध्ययनाध्यापनाभ्यां विद्याप्रचाररक्षकाय (वाचम्) वेदसुशिक्षाजनितां वाणीम् (वदत) अध्यापयतोपदिशत वा (बृहस्पतिम्) सम्राजमनूचानमध्यापकं वा (वाजम्) विद्याबोधं युद्धं वा (जापयत) उत्कर्षेण, बोधयत (इन्द्र) विद्यैश्वर्यप्रकाशक शत्रुविदारक वा (वाजम्) परमैश्वर्यं शत्रुविजयाख्यं युद्धं वा (जय) उत्कर्ष (इन्द्राय) परमैश्वर्यप्रापकाय (वाचम्) राजधर्मप्रचारिणीं वाणीम् (वदत) (इन्द्रम्) (वाजम्) (जापयत) उत्कृष्टतां प्रापयत ॥ अयं मन्त्रः शत० ५ । १ । ५ । ८-९ व्याख्यातः ।। ११ ।।

    भावार्थः - अत्र श्लेषालङ्कारः ॥ राजा तथा प्रयतेत यथा वेदविद्याप्रचारः शत्रुविजयश्च सुगम: स्यात् । [हे बृहस्पते=सर्वविद्याध्यापकोपदेशक वा त्वं वाजं जय] उपदेशका योद्धारश्चेत्थं प्रयतेरन् यतो राज्ये वेदादिशास्त्राध्ययनाध्यापनप्रवृत्तिः स्वराजा विजयालङ्कृतो भवेद्, येन धर्मवृद्धिरधर्महानिश्च सुतिष्ठेत् ।। ९ । ११ ।।

    विशेषः - बृहस्पतिः । इन्द्राबृहस्पती=राजा, उपदेशकश्च ॥ जगती निषादः ।।

    इस भाष्य को एडिट करें
    Top