Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 9/ मन्त्र 1
    ऋषिः - इन्द्राबृहस्पती ऋषी देवता - सविता देवता छन्दः - स्वराट आर्षी त्रिष्टुप्, स्वरः - धैवतः
    0

    देव॑ सवितः॒ प्रसु॑व य॒ज्ञं प्रसु॑व य॒ज्ञप॑तिं॑ भगा॑य। दि॒व्यो ग॑न्ध॒र्वः के॑त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाजं॑ नः स्वदतु॒ स्वाहा॑॥१॥

    स्वर सहित पद पाठ

    देव॑। स॒वि॒त॒रिति॑ सवितः। प्र। सु॒व॒। य॒ज्ञम्। प्र। सु॒व॒। य॒ज्ञप॑ति॒मिति॑ य॒ज्ञऽप॑तिम्। भगा॑य। दि॒व्यः। ग॒न्ध॒र्वः। के॒त॒पूरिति॑ केत॒ऽपूः। केत॑म्। नः॒। पु॒ना॒तु॒। वा॒चः। पतिः॑। वाज॑म्। नः॒। स्व॒द॒तु॒। स्वाहा॑ ॥१॥


    स्वर रहित मन्त्र

    देव सवितः प्रसुव यज्ञम्प्रसुव यज्ञपतिम्भगाय । दिव्यो गन्धर्वः केतुपूः केतन्नः पुनातु वाचस्पतिर्वाजन्नः स्वदतु स्वाहा ॥


    स्वर रहित पद पाठ

    देव। सवितरिति सवितः। प्र। सुव। यज्ञम्। प्र। सुव। यज्ञपतिमिति यज्ञऽपतिम्। भगाय। दिव्यः। गन्धर्वः। केतपूरिति केतऽपूः। केतम्। नः। पुनातु। वाचः। पतिः। वाजम्। नः। स्वदतु। स्वाहा॥१॥

    यजुर्वेद - अध्याय » 9; मन्त्र » 1
    Acknowledgment

    सपदार्थान्वयः - हे देव दिव्यगुणसम्पन्न सवितः ! सकलैश्वर्यसंयुक्त सम्राट् ! त्वंभगाय समग्रैश्वर्य्याय स्वाहा वेदवाचा यज्ञं सर्वेषां सुखजनकं राजधर्मंप्रसुव ईर्स्व, यज्ञपतिं राजधर्मपालकं प्रसुव ईर्स्व, यतो दिव्यः प्रकाशमानेषु क्षत्रगुणेषु भवः गन्धर्वः गां=पृथिवीं धरतीति केतपूः यः केतं=प्रज्ञां पुनाति=पवित्रीकरोति सः वाचस्पतिः=प्रजाराजजनाः अध्ययनाध्यापनोपदेशैर्वाण्याः पालकः स्वाहा वेदवाचा नः अस्माकं प्रजाराजपुरुषाणांकेतं प्रज्ञां पुनातु शुन्धतु,नः अस्माकं स्वाहा वेदवाचा वाजम्अन्नं स्वदतुआभुनक्तु ॥ ९ । १ ।। [हे.........सवितः ! त्वं........यज्ञपतिं प्रसुव, यतो.......वाचस्पतिः=प्रजावराजजनः..........वाजं स्वदतु]

    पदार्थः -
    (देव) दिव्यगुणसम्पन्न (सवितः) सकलैश्वर्यसंयुक्त सम्राट् (प्र) (सुव) ईर्स्व (यज्ञम्) सर्वेषां सुखजनकं राजधर्मम् (प्र) (सुव) (यज्ञपतिम्) राजधर्मपालकम् (भगाय) समग्रैश्वर्य्याय (दिव्यः) प्रकाशमानेषु क्षत्रगुणेषु भवः (गन्धर्व:) गां= पृथिवीं धरतीति । पृषोदरादिना गोशब्दस्य गम्भावः (केतपूः) यः केतं=प्रज्ञां पुनाति=पवित्रीकरोति सः (केतम्) प्रज्ञाम् । केतमिति प्रज्ञाना० ॥ निघं० ३ । ९॥ (नः) अस्माकं प्रजाराजपुरुषाणाम् (पुनातु) शुन्धतु (वाचस्पतिः) अध्ययनाध्यापनोपदेशैर्वाण्याः पालकः (वाजम्) अन्नम् (नः) अस्माकम् (स्वदतु) आभुनक्तु (स्वाहा) वेदवाचा ॥ अयं मन्त्रः शत० ५। १।१। १६ व्याख्यातः ॥ १॥

    भावार्थः - न्यायेन प्रजापालनं विद्याप्रदानकरणमेव राज्ञां यज्ञोऽस्ति ॥ ९। १ ॥

    विशेषः - इन्द्राबृहस्पती।सविता=सम्राट्। स्वराडार्षी त्रिष्टुप् । धैवतः ॥

    इस भाष्य को एडिट करें
    Top