Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 9/ मन्त्र 3
    ऋषिः - तापस ऋषिः देवता - सम्राड् देवता छन्दः - निचृत् अति शक्वरी, स्वरः - पञ्चमः
    0

    अ॒पा रस॒मुद्व॑यस॒ꣳ सूर्ये॒ सन्त॑ꣳ स॒माहि॑तम्। अ॒पा रस॑स्य॒ यो रस॒स्तं वो॑ गृह्णाम्युत्त॒ममु॑पया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम्॥३॥

    स्वर सहित पद पाठ

    अ॒पाम्। रस॑म्। उद्व॑यस॒मित्युत्ऽवय॑सम्। सूर्ये॑। सन्त॑म्। स॒माहि॑त॒मिति॑ स॒म्ऽआहि॑तम्। अ॒पाम्। रस॑स्य। यः। रसः॑। तम्। वः॒। गृ॒ह्णा॒मि॒। उ॒त्त॒ममित्यु॑त्ऽत॒मम्। उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। इन्द्रा॑य। त्वा॒। जुष्ट॑म्। गृ॒ह्णा॒मि॒। ए॒षः। ते॒। योनिः॑। इन्द्रा॑य। त्वा। जुष्ट॑तम॒मिति॒ जुष्ट॑ऽतमम् ॥३॥


    स्वर रहित मन्त्र

    अपाँ रसमुद्वयसँ सूर्ये सन्तँ समाहितम् अपाँ रसस्य यो रसस्तँवो गृह्णाम्युत्तममुपयामगृहीतो सीन्द्राय त्वा जुष्टङ्गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ॥


    स्वर रहित पद पाठ

    अपाम्। रसम्। उद्वयसमित्युत्ऽवयसम्। सूर्ये। सन्तम्। समाहितमिति सम्ऽआहितम्। अपाम्। रसस्य। यः। रसः। तम्। वः। गृह्णामि। उत्तममित्युत्ऽतमम्। उपयामगृहीत इत्युपयामऽगृहीतः। असि। इन्द्राय। त्वा। जुष्टम्। गृह्णामि। एषः। ते। योनिः। इन्द्राय। त्वा। जुष्टतममिति जुष्टऽतमम्॥३॥

    यजुर्वेद - अध्याय » 9; मन्त्र » 3
    Acknowledgment

    सपदार्थान्वयः - हे राजन् ! अहमिन्द्राय परमेश्वराय वः युष्मभ्यं सूर्येअस सवितृप्रकाशे सन्तं वर्तमानंसमाहितं सम्यक् सर्वतो धृतम् उद्वयसम् उत्कृष्टं वयः=जीवनं यस्मात्तम् अपां जलानां रसं सारं गृह्णामि स्वीकरोमि । योऽपां जलानां रसस्य सारस्य रसः वीर्य्यं धातुः तमुत्तमं श्रेयांसं वः युष्मभ्यं गृह्णामि स्वीकरोमि । [यस्त्वमुपयामगृहीतः] साधनोपसाधनैः संयुक्त: [असि] यस्यैष ते तव योनिः गृहम् अस्ति,तं [जुष्टं] प्रीत्या वर्त्तमानम् इन्द्राय परमैश्वर्याय जुष्टतमं त्वा गृह्णामि स्वीकरोमि ॥ ९ । ३ ॥ [हे राजन् ! अहमिन्द्राय.........अपां रसं गृह्णामि,योऽपां रसस्य रसस्तमुत्तमं वो गृह्णामि]

    पदार्थः -
    (अपाम्) जलानाम् (रसम्) सारम् (उद्वयसम्) उत्कृष्टं वयो=जीवनं यस्मात्तम् (सूर्य्ये) सवितृप्रकाशे (सन्तम्) वर्त्तमानम् (समाहितम्) सम्यक् सर्वतो धृतम् (अपाम्) जलानाम् (रसस्य) सारस्य (यः) (रसः) वीर्य्यं धातुः (तम्) (वः) युष्मभ्यम् (गृह्णामि) (उत्तमम्) श्रेयांसम् (उपयामगृहीतः) साधनोपसाधनैः स्वीकृतः (असि) (इन्द्राय) परमेश्वराय (त्वा) (जुष्टम्) प्रीत्या वर्तमानम् (गृह्णामि) स्वीकरोमि (एषः) (ते) तव (योनिः) गृहम् ( इन्द्राय) परमैश्वर्य्याय (त्वा) (जुष्टतमम् ) ॥ अयं मन्त्रः शत० ५ । १ ।२ । ७ व्याख्यातः ॥ ३ ॥

    भावार्थः - राजा स्वभृत्यप्रजाजनान् शरीरात्मबलवर्धनाय ब्रह्मचर्यौषधविद्यायोगाभ्याससेवनेनियुञ्जीत, यतः सर्वे रोगरहिताः सन्तः पुरुषार्थिनः स्युः।।९।३॥

    विशेषः - बृहस्पतिः । इन्द्रः=राजा। प्रतिशक्वरी। पञ्चमः ।।

    इस भाष्य को एडिट करें
    Top