Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 9/ मन्त्र 21
    ऋषिः - वसिष्ठ ऋषिः देवता - यज्ञो देवता छन्दः - अत्यष्टिः स्वरः - गान्धारः
    0

    आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पता॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां पृ॒ष्ठं य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पताम्। प्र॒जाप॑तेः प्र॒जाऽअ॑भूम॒ स्वर्देवाऽअगन्मा॒मृता॑ऽअभूम॥२१॥

    स्वर सहित पद पाठ

    आयुः॑। य॒ज्ञेन॑। क॒ल्प॒ता॒म्। प्रा॒णः। य॒ज्ञेन॑। क॒ल्प॒ता॒म्। चक्षुः॑। य॒ज्ञेन॑। क॒ल्प॒ता॒म्। श्रोत्र॑म्। य॒ज्ञेन॑। क॒ल्प॒ता॒म्। पृ॒ष्ठम्। य॒ज्ञेन॑। क॒ल्प॒ता॒म्। य॒ज्ञः। य॒ज्ञेन॑। क॒ल्प॒ता॒म्। प्र॒जाप॑ते॒रिति॑ प्र॒जाऽप॑तेः। प्र॒जा इति॑ प्र॒ऽजाः। अ॒भू॒म॒। स्वः॑। दे॒वाः॒। अ॒ग॒न्म॒। अ॒मृताः॑। अ॒भू॒म॒ ॥२१॥


    स्वर रहित मन्त्र

    आयुर्यज्ञेन कल्पताम्प्राणो यज्ञेन कल्पताञ्चक्षुर्यज्ञेन कल्पताँ श्रोत्रँ यज्ञेन कल्पताम्पृष्ठँ यज्ञेन कल्पताँयज्ञो यज्ञेन कल्पताम् । प्रजापतेः प्रजाऽअभूम स्वर्देवा ऽअगन्मामृता ऽअभूम ॥


    स्वर रहित पद पाठ

    आयुः। यज्ञेन। कल्पताम्। प्राणः। यज्ञेन। कल्पताम्। चक्षुः। यज्ञेन। कल्पताम्। श्रोत्रम्। यज्ञेन। कल्पताम्। पृष्ठम्। यज्ञेन। कल्पताम्। यज्ञः। यज्ञेन। कल्पताम्। प्रजापतेरिति प्रजाऽपतेः। प्रजा इति प्रऽजाः। अभूम। स्वः। देवाः। अगन्म। अमृताः। अभूम॥२१॥

    यजुर्वेद - अध्याय » 9; मन्त्र » 21
    Acknowledgment

    सपदार्थान्वयः - हे मनुष्याः ! युष्माकमायुः जीवनं सततं यज्ञेन धर्म्येणेश्वराज्ञापालनेन कल्पतां समर्थताम् । प्राणः जीवनहेतुर्बलकारी यज्ञेन धर्मेण विद्याभ्यासेन कल्पतां, चक्षुः चष्टेऽनेन, तद् यज्ञेन शिष्टाचरितेन प्रत्यक्षविशेषेण कल्पतांश्रोत्रं शृणोति येन तत् यज्ञेन शब्दप्रमाणाभ्यासेन कल्पतां, पृष्ठं प्रच्छन्नं यज्ञेन संवादाख्येन कल्पतां समर्थतां [यज्ञः] यजधातोरर्थ: [यज्ञेन] ब्रह्मचर्याद्याचरणेन [कल्पताम्], यथा वयं प्रजापतेः विश्वम्भरस्य जगदीश्वरस्येव धार्मिकस्य राज्ञः प्रजाः तदधीनपालनाः अभूम भवेम, देवाः विद्वांसः सन्तोऽमृताः प्राप्तमोक्षसुखाः अभूम भवेम, स्वः सुखम् अगन्म प्राप्नुयाम, इति यूयं निश्चिनुत ॥ ९। २१ ।। [हे मनुष्याः !.......यथा वयं प्रजापतेः प्रजा अभूम, देवाःसन्तोऽमृता अभूम, स्वरगन्मेति यूयं निश्चिनुत]

    पदार्थः -
    (आयुः) जीवनम् (यज्ञेन) धर्म्येणेश्वराज्ञापालनेन (कल्पताम्) समर्थताम् (प्राणः) जीवनहेतुर्बलकारी (यज्ञेन) धर्म्येण विद्याभ्यासेन (कल्पताम्) (चक्षुः) चष्टेऽनेन तत् (यज्ञेन) शिष्टाचरितेन प्रत्यक्षविषयेण (कल्पताम्) (श्रोत्रम्) शृणोति येन तत् (यज्ञेन) शब्दप्रमाणाभ्यासेन (कल्पताम्) (पृष्ठम्) प्रच्छन्नम् (यज्ञेन) संवादाख्येन (कल्पताम्) (यज्ञः) यजधातोरर्थ: (यज्ञेन) ब्रह्मचर्याद्याचरणेन (कल्पताम्) (प्रजापतेः) विश्वम्भरस्य जगदीश्वरस्येव धार्मिकस्य राज्ञः (प्रजाः) तदधीनपालना: (अभूम) भवेम (स्व:) सुखम् (देवाः) विद्वांसः (अगन्म) प्राप्नुयाम (अमृताः) प्राप्तमोक्षसुखा: (अभूम) भवेम ॥ अयं मन्त्रः शत० ५। २ । १।४ व्याख्यातः ॥ २१ ॥

    भावार्थः - ईश्वरः सर्वान् मनुष्यानिदमाज्ञापयति--यूयं मत्सदृशस्य सत्यगुणकर्मस्वभावस्यैव प्रजा भवतेतरस्य क्षुद्राऽऽशयस्य च कदाचित्प्रजाभावं मा स्वीकुरुत । यथा मां न्यायाधीशं मत्वा, मदाज्ञायां वर्तित्वा, सर्वं स्वं धर्मेण सहचरितं कृत्वाऽऽभ्युदयिकनिश्श्रेयसे सुखे नित्यं प्राप्नुतः, तथा यो हि धर्मेण न्यायेनयुष्मान् निरन्तरं पालयेत् तं च सभेशं राजानं मन्यध्वम् ।। ९ । २१।।

    भावार्थ पदार्थः - प्रजापतेः=यो हि धर्मेण न्यायेन युष्मान् निरन्तरं पालयेत् [तस्य] । स्वः=अभ्युदयिकनिश्श्रेयसे सुखे।।

    विशेषः - वसिष्ठः । यज्ञः=धर्म्येश्वराज्ञापालनादिः । अत्यष्टिः । गान्धारः ॥

    इस भाष्य को एडिट करें
    Top