Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 9/ मन्त्र 31
    ऋषिः - तापस ऋषिः देवता - अग्न्यादयो मन्त्रोक्ता देवताः छन्दः - स्वराट अति धृति, स्वरः - षड्जः
    0

    अ॒ग्निरेका॑क्षरणे प्रा॒णमुद॑जय॒त् तमुज्जे॑षम॒श्विनौ॒ द्व्यक्षरेण द्वि॒पदो॑ मनु॒ष्यानुद॑जयतां॒ तानुज्जे॑षं॒ विष्णु॒स्त्र्यक्षरेण॒ त्रील्ँलो॒कानुद॑जय॒त् तानुज्जे॑षं॒ꣳ सोम॒श्चतु॑रक्षरेण॒ चतु॑ष्पदः प॒शूनुद॑जय॒त् तानुज्जे॑षम्॥३१॥

    स्वर सहित पद पाठ

    अ॒ग्निः। एका॑क्षरे॒णेत्येक॑ऽअक्षरेण। प्रा॒णम्। उत्। अ॒ज॒य॒त्। तम्। उत्। जे॒ष॒म्। अ॒श्विनौ॑। द्व्य॑क्षरे॒णेति॒ द्विऽअ॑क्षरेण। द्वि॒पद॑ इति॒ द्वि॒ऽपदः॑। म॒नु॒ष्या᳖न्। उत्। अ॒ज॒य॒ता॒म्। तान्। उत्। जे॒ष॒म्। विष्णुः॑। त्र्य॑क्षरे॒णेति॒ त्रिऽअ॑क्षरेण। त्रीन्। लो॒कान्। उत्। अ॒ज॒य॒त्। तान्। उत्। जे॒ष॒म्। सोमः॑। चतु॑रक्षरे॒णेति॒ चतुः॑ऽअक्षरेण। चतु॑ष्पदः। चतुः॑पद इति॒ चतुः॑ऽपदः। प॒शून्। उत्। अ॒ज॒य॒त्। तान्। उत्। जे॒ष॒म् ॥३१॥


    स्वर रहित मन्त्र

    अग्निरेकाक्षरेण प्राणमुदजयत्तमुज्जेषमश्विनौ द्व्यक्षरेण द्विपदो मनुष्यानुदजयतान्तानुज्जेषम् । विष्णुस्त्र्यक्षरेण त्रीँल्लोकानुदजयत्तानुज्जेषँ सोमश्चतुरक्षरेण चतुष्पदः पशूनुदजयत्तानुज्जेषम् ॥


    स्वर रहित पद पाठ

    अग्निः। एकाक्षरेणेत्येकऽअक्षरेण। प्राणम्। उत्। अजयत्। तम्। उत्। जेषम्। अश्विनौ। द्व्यक्षरेणेति द्विऽअक्षरेण। द्विपद इति द्विऽपदः। मनुष्यान्। उत्। अजयताम्। तान्। उत्। जेषम्। विष्णुः। त्र्यक्षरेणेति त्रिऽअक्षरेण। त्रीन्। लोकान्। उत्। अजयत्। तान्। उत्। जेषम्। सोमः। चतुरक्षरेणेति चतुःऽअक्षरेण। चतुष्पदः। चतुःपद इति चतुःऽपदः। पशून्। उत्। अजयत्। तान्। उत्। जेषम्॥३१॥

    यजुर्वेद - अध्याय » 9; मन्त्र » 31
    Acknowledgment

    सपदार्थान्वयः - हे राजन् ! अग्निः अग्निरिव वर्त्तमानो राजा भवान् यथा एकाक्षरेण ओमित्यनेन विज्ञापकेन दैव्या गायत्र्या छन्दसा प्राणं शरीरस्थं वायुम् इव यं प्रजाजनमुदजयद् उत्कृष्टया नीत्या जयेदुत्कर्षेत्, तथा तमहमप्युज्जेषम् उत्कृष्टया नीत्या जयेयमुत्कर्षेयम् । हे राजजनावश्विनौ ! सूर्याचन्द्रमसाविव राजराजपुरुषौ ! भवन्तौ यथा द्व्यक्षरेण दैव्या उष्णिहा यान् द्विपदो मनुष्यान् मननशीलान्उज्जयताम् उत्कृष्टया नीत्या जयतामुत्कर्षतांतथा तानहमपिउज्जेषं जयेयमुत्कर्षेयम् । हे सर्वप्रधानपुरुष ! विष्णुः परमेश्वर इव न्यायकारी भवान् यथा त्र्यक्षरेण दैव्याऽनुष्टुभा यान् त्रीन् जन्मस्थाननामवच्यान् लोकान् दर्शनीयान् उदजयत् उत्कृष्टया नीत्या जयेदुत्कर्षेत् तथा तानहमप्युज्जेषं जयेयमुत्कर्षेयम् । हे न्यायधीश ! सोमः ऐश्वर्य्यमिच्छु: भवान्यथा चतुरक्षरेण दैव्या बृहत्या याँश्चतुष्पदः पशून् हरिणादीनारण्यान् उदजयत् उत्कृष्टया नीत्या जयेदुत्कर्षेत तथा तानहमप्युज्जेषं जयेयमुत्कर्षेयम् ।। ९ । ३१ ।। [हे राजन् !.........भवान् यथा एकाक्षरेण प्राणमिव यं प्रजाजनमुदजयत्तथा तमहमप्युज्जेषम्,........ ]

    पदार्थः -
    (अग्निः) अग्निरिव वर्त्तमानो राजा (एकाक्षरेण) ओमित्यनेन विज्ञापकेन दैव्या गायत्र्या छन्दसा (प्राणम्) शरीरस्थं वायुमिव प्रजाजनम् (उत्) उत्कृष्टया नीत्या (अजयत्) जयेदुत्कर्षेत् (तम्) (उत्) (जेषम्) जयेयमुत्कर्षेयम् (अश्विनौ) सूर्याचन्द्रमसाविव राजराजपुरुषौ (द्व्यक्षरेण) दैव्या उष्णिहा (द्विपदः) (मनुष्यान्) मननशीलान् (उत्) (अजयताम्) (तान्) (उत्) (जेषम्) (विष्णुः) परमेश्वर इव न्यायकारी (त्र्यक्षरेण) दैव्याऽनुष्टुभा (त्रीन्) जन्मस्थाननामवाच्यान् (लोकान्) दर्शनीयान् (उत्) (अजयत्) (तान्) (उत्) (जेषम्) (सोमः) ऐश्वर्य्यमिच्छु: (चतुरक्षरेण) दैव्या बृहत्या (चतुष्पदः) (पशून्) हरिणादीनारण्यान् (उत्) (अजयत्) (तान्) (उत्) (जेषम्) ॥ अयं मंत्रः शत० ५ । २ । २ । १७ व्याख्यातः ।। ३१ ॥

    भावार्थः - यदि राजा सर्वान् प्रजाजनानुन्नयेत्तर्हि प्रजापुरुषास्तं कथं नोन्नयेयुर्नोचेन्न ॥ ९ । ३१ ।।

    विशेषः - तापसः । अग्न्यादयो मन्त्रोक्ताः=राजादयः ॥ अत्यष्टि: । गान्धारः ।।

    इस भाष्य को एडिट करें
    Top