Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 9/ मन्त्र 12
    ऋषिः - बृहस्पतिर्ऋषिः देवता - इन्द्राबृहस्पती देवते छन्दः - स्वराट अति धृति, स्वरः - षड्जः
    0

    ए॒षा वः॒ सा स॒त्या सं॒वाग॑भू॒द् यया॒ बृह॒स्पतिं॒ वाज॒मजी॑जप॒ताजी॑जपत॒ बृह॒स्पतिं॒ वाजं॒ वन॑स्पतयो॒ विमु॑च्यध्यम्। ए॒षाः वः॒ स॒त्या सं॒वाग॑भू॒द् ययेन्द्रं॒ वाज॒मजी॑जप॒ताजी॑जप॒तेन्द्रं॒ वाजं॒ वन॑स्पतयो॒ विमु॑च्यध्वम्॥१२॥

    स्वर सहित पद पाठ

    ए॒षा। वः॒। सा। स॒त्या। सं॒वागिति॑ स॒म्ऽवाक्। अ॒भू॒त्। यया॑। बृह॒स्प॑तिम्। वाज॑म्। अजी॑जपत। अजी॑जपत। बृह॒स्पति॑म्। वाज॑म्। वन॑स्पतयः। वि। मु॒च्य॒ध्व॒म्। ए॒षा। वः॒। सा। स॒त्या। संवागिति॑ स॒म्ऽवाक्। अ॒भू॒त्। यया॑। इन्द्र॑म्। वाज॑म्। अजी॑जपत। अजी॑जपत। इन्द्र॑म्। वाज॑म्। वन॑स्पतयः। वि। मु॒च्य॒ध्व॒म् ॥१२॥


    स्वर रहित मन्त्र

    एषा वः सा सत्या सँवागभूद्यया बृहस्पतिँवाजमजीजपताजीजपत बृहस्पतिँवाजन्वनस्पतयो विमुच्यध्वम् । एषा वः सा सत्या सँवागभूद्ययेन्द्रँवाजमजीजपताजीजपतेन्द्रँवाजँवनस्पतयो वि मुच्यध्वम् ॥


    स्वर रहित पद पाठ

    एषा। वः। सा। सत्या। संवागिति सम्ऽवाक्। अभूत्। यया। बृहस्पतिम्। वाजम्। अजीजपत। अजीजपत। बृहस्पतिम्। वाजम्। वनस्पतयः। वि। मुच्यध्वम्। एषा। वः। सा। सत्या। संवागिति सम्ऽवाक्। अभूत्। यया। इन्द्रम्। वाजम्। अजीजपत। अजीजपत। इन्द्रम्। वाजम्। वनस्पतयः। वि। मुच्यध्वम्॥१२॥

    यजुर्वेद - अध्याय » 9; मन्त्र » 12
    Acknowledgment

    सपदार्थान्वयः - हे वनस्पतयः ! वनस्य=किरणसमूहस्येव न्यायस्य पालकाः ! यूयं यया बृहस्पतिं वेदशास्त्रपालकंवाजं वेद-शास्त्रबोधम् अजीजपत उत्कर्षयत, बृहस्पतिं बृहतो राज्यस्य पालकं [वाजं] संग्रामम्अजीजपत, [विमुच्यध्वं] मुक्ता भवत, सैषा उक्ता वक्ष्यमाणा च वः युष्माकं संवाक् राजनीतिनिष्ठा सम्यग्वाणी सत्या यथार्थोक्ता अभूत् भवतु । हे वनस्पतयः ! वनानां=जङ्गलानां पालका: ! यूयं ययेन्द्रं परमैश्वर्य्यवते पुरुषाय वाजं युद्धम् अजीजपत जापयत, इन्द्रं परमैश्वर्ययुक्तमुत्तमश्रीप्रापकमुद्योगं [वाजं] वेगयुक्तं अजीजपत सम्यक् प्रापयत [विमुच्यध्वम्] सैषा पूर्वाऽपरप्रतिपादितावः युष्माकं संवाक् विनयपुरुषार्थयोः सम्यक् प्रकाशिनी वाणी: सत्या सत्यभाषणयुक्ता अभूत् भवेत् ।। ९। १२ ।। [हे वनस्पतयः ! .......सैषावः संवाक् सत्याऽभूत्]

    पदार्थः -
    (एषा) उक्ता वक्ष्यमाणा च (व:) युष्माकम् (सा) (सत्या) यथार्थोक्ता (संवाक्) राजनीतिनिष्ठा सम्यग्वाणी (अभूत्) भवतु (यया) (बृहस्पतिम्) वेदशास्त्रपालकम् (वाजम्) वेदशास्त्रबोधम् (अजीजपत) उत्कर्षयत (अजीजपत) (बृहस्पतिम्) बृहतो राज्यस्य पालकम् (वाजम्) संग्रामम् (वनस्पतयः) वनस्य=किरणसमूहस्येव न्यायस्य पालकाः । वनमिति रश्मिनामसुपठितम् ॥ निघं० १ । ५ ॥ (वि) (मुच्यध्वम्) मुक्ता भवत । विकरणव्यत्ययेन श्यन् (एषा) पूर्वापरप्रतिपादिता (वः) युष्माकम् (सा) (सत्या) सत्यभाषणयुक्ता (संवाक्) विनयपुरुषार्थयोः सम्यक् प्रकाशिनी वाणी (अभूत्) भवेत् (यया) (इन्द्रम्) परमैश्वर्यवते पुरुषाय (वाजम्) युद्धम् (अजीजपत) जापयते (अजीजपत) सम्यक् प्रापयत (इन्द्रम्) परमैश्वर्ययुक्तमुत्तमश्रीप्रापकमुद्योगम् (वाजम्) वेगयुक्तम् (वनस्पतयः) वनानां=जङ्गलानां पालकाः (वि) (मुध्यध्वम्) ॥ अयं मन्त्रः शत० ५ । १ । ५ । ११-१२ व्याख्यातः ।। १२।।

    भावार्थः - नैव कदाचिदपि राजा राजामात्यभृत्याः प्रजाजनाश्च स्वकीयां प्रतिज्ञां वाचं चासत्यां कुर्य्युः । यावतीं ब्रूयुस्तावती तथ्यामेव कुर्य्युः । यस्य वाणी सर्वदा सत्याऽस्ति स एव सम्राट् भवितुमर्हति, यावदेवं न भवति तावद्राजप्रजाजना विश्वसिताः सुखस्योत्कर्षकाश्च भवितुं नार्हन्ति ।। ९ । १२ ।।

    विशेषः - बृहस्पतिः । इन्द्राबृहस्पती=परमैश्वर्यवान् वेदशास्त्रपालकश्च ॥ स्वराडतिधृतिः । षड्जः ॥

    इस भाष्य को एडिट करें
    Top