यजुर्वेद - अध्याय 6/ मन्त्र 23
ऋषिः - दीर्घतमा ऋषिः
देवता - अब्यज्ञसूर्या देवताः
छन्दः - निचृत् आर्षी अनुष्टुप्,
स्वरः - गान्धारः
7
ह॒विष्म॑तीरि॒माऽआपो॑ ह॒विष्माँ॒२ऽआवि॑वासति। ह॒विष्मा॑न् दे॒वोऽअ॑ध्व॒रो ह॒विष्माँ॑२ऽअस्तु॒ सूर्यः॑॥२३॥
स्वर सहित पद पाठह॒विष्म॑तीः। इ॒माः। आपः॑। ह॒विष्मा॑न्। आ। वि॒वा॒स॒ति॒। ह॒विष्मा॑न्। दे॒वः। अ॒ध्व॒रः। ह॒विष्मा॑न्। अ॒स्तु॒। सूर्यः॑ ॥२३॥
स्वर रहित मन्त्र
हविष्मतीरिमा आपो हविष्माँ आ विवासति । हविष्मान्देवो अध्वरो हविष्माँ अस्तु सूर्यः ॥
स्वर रहित पद पाठ
हविष्मतीः। इमाः। आपः। हविष्मान्। आ। विवासति। हविष्मान्। देवः। अध्वरः। हविष्मान्। अस्तु। सूर्यः॥२३॥
विषयः - पुनरन्योऽन्यं मिलित्वा राजप्रजे केन किं किं कुर्यातामित्याह ।।
सपदार्थान्वयः - हे विद्वांसः! यथा इमाः प्रत्यक्षा आपः जलानि हविष्मतीः=हविष्मत्यः प्रशस्तानि हवींषि विद्यन्ते यासु ताः, स्युरयं वायुर्हविष्मान् प्रशस्तानि हवींषि विद्यन्ते यस्य वायोः सः,एव आ+विवासति=सर्वान् परिचरति समन्तात् सेवते। देवः सुखयिता अध्वरः यज्ञो हविष्मान् प्रशस्तानि हवींषि विद्यन्ते यस्य सः, स्यात्। सूर्य्यः हविष्मान् प्रशस्तानि हवींषि विद्यन्ते यस्य सः, अस्तु=भवेत्, तथा भवन्तो यज्ञेनैतान् शुद्धान् कुर्वन्तु।। ६।२३ ।। [हे विद्वांसः! यथेमा आप हविष्मतीः=हविष्मत्यः स्युरयं वायुर्हविष्मानेवाविवासति=सर्वान्परिचरति]
पदार्थः -
(हविष्मतीः) प्रशस्तानि हवींषि विद्यन्ते यासु ताः (इमाः) प्रत्यक्षा: (आपः) जलानि (हविष्मान्) प्रशस्तानि हवींषि विद्यन्ते यस्य वायोः सः। दीर्घादटि समानपदि ॥ अ०। ८।३।९॥ इति रुः। अतोऽटि नित्यम् ॥ अ० ८ । ३ । ३।। इति सानुनासिकत्वम् (आ) समन्तात् (विवासति) सेवते । विवासतीति परिचरणकर्मसु पठितम् ॥ निघं० ३ । ५ ।।(हविष्मान्) (देव:) सुखयिता। (अध्वरः) यज्ञः (हविष्मान्) (अस्तु) (सूर्य:)।। अयं मन्त्रः शत० ३ । ९ ।२।१० व्याख्यातः॥ २३॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः॥ येन वायुजलसंयोगेनानेकानि सुखानि साध्यन्ते, यैर्विविधदेशदेशान्तरगमनेन वस्तुप्रापणं भवति। तैरेतत्कर्म क्रियाविचक्षण एव कर्तुं शक्नोति। [देवोऽध्वरो हविष्मान् स्यात्, सूर्यो हविष्मानस्तु=भवेत्, तथा भवन्तो यज्ञेनैतान् शुद्धान् कुर्वन्तु] यो विविधक्रियाप्रकाशकोऽस्ति, स यज्ञो वृष्ट्यादिसुखकरो भवति ॥ ६। २३॥ [हे विद्वांसः! यथेमा आप हविष्मतीः=हविष्मत्यः स्युरयं वायुर्हविष्मानेवाविवासति=सर्वान्परिचरति]
विशेषः - दीर्घतमाः। अब्यज्ञसूर्या:=जलयज्ञसूर्याः। निचृदार्ष्यनुष्टुप्। गान्धारः॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal