Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 6/ मन्त्र 29
    ऋषिः - मधुच्छन्दा ऋषिः देवता - अग्निर्देवता छन्दः - भूरिक् आर्षी गायत्री, स्वरः - षड्जः
    11

    यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे॑षु॒ यं जु॒नाः। स यन्ता॒ शश्व॑ती॒रिषः॒ स्वाहा॑॥२९॥

    स्वर सहित पद पाठ

    यम्। अ॒ग्ने॒। पृत्स्विति॑ पृ॒त्ऽसु। मर्त्य॑म्। अवाः॑। वाजे॑षु। यम्। जु॒नाः। सः। यन्ता॑। शश्व॑तीः। इषः॑। स्वाहा॑ ॥२९॥


    स्वर रहित मन्त्र

    यमग्ने पृत्सु मर्त्यमवा वाजेषु यञ्जुनाः । स यन्ता शश्वतीरिषः स्वाहा ॥


    स्वर रहित पद पाठ

    यम्। अग्ने। पृत्स्विति पृत्ऽसु। मर्त्यम्। अवाः। वाजेषु। यम्। जुनाः। सः। यन्ता। शश्वतीः। इषः। स्वाहा॥२९॥

    यजुर्वेद - अध्याय » 6; मन्त्र » 29
    Acknowledgment

    सपदार्थान्वयः - हे अग्ने सर्वगुणवर! त्वं पृत्सु सङ्ग्रामेषु यं मर्त्यं मनुष्यम् अवाःरक्षेः, यं च वाजेषु अन्ननिमित्तक्षेत्राऽऽदिषु जुनाः गमयेः सः शश्वती: अविनश्वराः इषः इष्यन्ते यास्ताः प्रजा: [स्वाहा] उत्साहिकया वाचा यन्ता स्यात् ।। ६ । २९॥ [हे अग्ने! त्वं पृत्सु यं मर्त्यमवा....स शश्वतीरिषः [स्वाहा] यन्ता स्यात्]

    पदार्थः -
    (यम्) (अग्ने) सर्वगुणवर! (पृत्सु) संग्रामेषु। पृत्स्विति संग्रामनामसु पठितम्।। निघं० २ । १७ ॥ ( मर्त्यम्) मनुष्यम् (अवाः) रक्षेः (वाजेषु) अन्ननिमित्तक्षेत्रादिषु (यम्) (जुना:) गमये: (सः) (यन्ता) (शश्वतीः) अविनश्वराः (इषः) इष्यन्ते यास्ताः प्रजा: (स्वाहा) उत्साहिकया वाचा॥ अयं मन्त्रः श० ३ । ९। ३ । ३१-३२ व्याख्यातः ॥ २९॥

    भावार्थः - गुरुशिक्षया सर्वस्य सुखं वर्द्धत एव ।। ६ । २९।।

    विशेषः - मधुच्छन्दाः। अग्निः=सर्वगुणसम्पन्नो विद्वान्॥ भुरिगार्षी गायत्री। षड्जः॥

    इस भाष्य को एडिट करें
    Top