Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 6/ मन्त्र 7
    ऋषिः - मेधातिथिर्ऋषिः देवता - त्वष्टा देवता छन्दः - निचृत् आर्षी बृहती, स्वरः - मध्यमः
    9

    उ॒पा॒वीर॒स्युप॑ दे॒वान् दैवी॒र्विशः॒ प्रागु॑रु॒शिजो॒ वह्नि॑तमान्। देव॑ त्वष्ट॒र्वसु॑ रम ह॒व्या ते॑ स्वदन्ताम्॥७॥

    स्वर सहित पद पाठ

    उ॒पा॒वीरित्यु॑पऽअ॒वीः। अ॒सि॒। उप॑। दे॒वान्। दैवीः॑। विशः॑। प्र। अ॒गुः॒। उ॒शिजः॑। वह्नि॑तमा॒निति॒ वह्नि॑ऽतमान्। देव॑। त्व॒ष्टः॒। वसु॑। र॒म॒। ह॒व्या। ते॒। स्व॒द॒न्ता॒म् ॥७॥


    स्वर रहित मन्त्र

    उपावीरस्युप देवान्दैवीर्विशः प्रागुरुशिजो वह्नितमान् । देव त्वष्टर्वसु रम हव्या ते स्वदन्ताम् ॥


    स्वर रहित पद पाठ

    उपावीरित्युपऽअवीः। असि। उप। देवान्। दैवीः। विशः। प्र। अगुः। उशिजः। वह्नितमानिति वह्निऽतमान्। देव। त्वष्टः। वसु। रम। हव्या। ते। स्वदन्ताम॥७॥

    यजुर्वेद - अध्याय » 6; मन्त्र » 7
    Acknowledgment

    सपदार्थान्वयः - हे देव! दिव्यगुणसम्पन्न!त्वष्टः=सभापते ! सर्वदुःखच्छित् ! यत् स्त्वमुपावीः उपागतपालक (इव) इवासि। तस्माद् दैवीः देवसम्बन्धिनीर्दिव्याः विशः प्रजाः यथाउशिजः कमनीयान् वह्नितमान् अतिशयिता वह्नयो=वोढारस्तान् देवान् विदुषः उप+प्र+अगुः प्रकृष्टतयाऽगमन्तथा त्वां प्राप्नुवन्ति। यथैतास्त्वदाश्रयेणाढ्या भूत्वा रमन्ते तथा त्वमपि तासु रम=रमस्व। [यथा] भवानेतेषां पदार्थान् भुङ्क्ते तथैते ते तव हव्या=होतुमर्हाणि हव्यानि होतुमत्तुमर्हाणिवसु=वसूनि वसूनि धनानि स्वदन्तां भुञ्जताम् ॥ ६।७।। [हे....त्वष्टः=सभापते!.....विशो यथा उशिजो वह्नितमान् देवानुपप्रागुस्तथा त्वां प्राप्नुवन्ति, यथैतास्त्वदाश्रयेणाढ्या भूत्वा रमन्ते तथा त्वमपि तासु रम=रमस्व]

    पदार्थः -
    (उपावीः) उपागतपालक इव (असि) [उप] (देवान्) विदुषः (दैवी:) देवसम्बन्धिनीर्दिव्याः (विश:) प्रजा: (प्र) प्रकृष्टार्थे (अगु:) अगमन् (उशिजः) कमनीयान् (वह्नितमान्) अतिशयिता वह्नयो=वोढारस्तान् (देव) दिव्यगुणसम्पन्न! (त्वष्ट:) सर्वदुःखच्छित् (वसु) वसूनि=धनानि । अत्र सुपां सुलुक् ॥ अ० ७ । १ । ३९॥ इति शसो लुक् (रम) रमस्व। अत्रात्मनेपदे व्यत्ययेन परस्मैपदम् (हव्या) होतुमत्तुमर्हाणि (ते) तव (स्वदन्ताम्) भुञ्जताम् ॥ अयं मंत्रः शत० ३ । ७ । ३। ९-१२ व्याख्यातः ॥ ७॥

    भावार्थः - यथा गुणग्राहिण उत्तमगुणं सेवन्ते तथा न्यायविचक्षणं राजानं प्रजांश्च सेवन्ते, येन मिथ: प्रीत्या परस्परस्योन्नतिर्भवतीति।।६।७।।

    विशेषः - मेधातिथिः । त्वष्टा=सभापतिः॥ निचृद् आर्षी बृहती। मध्यमः।

    इस भाष्य को एडिट करें
    Top