Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 6/ मन्त्र 35
    ऋषिः - मधुच्छन्दा ऋषिः देवता - द्यावापृथिव्यौ देवते छन्दः - भूरिक् आर्षी अनुष्टुप्, स्वरः - गान्धारः
    7

    मा भे॒र्मा संवि॑क्था॒ऽऊर्जं॑ धत्स्व॒ धिष॑णे वी॒ड्वी स॒ती वी॑डयेथा॒मूर्जं॑ दधाथाम्। पा॒प्मा ह॒तो न सोमः॑॥३५॥

    स्वर सहित पद पाठ

    मा। भेः॒। मा। सम्। वि॒क्थाः॒। ऊर्ज॑म्। ध॒त्स्व॒। धिष॑णे॒ऽइति॑ धिष॑णे। वीड्वीऽइति॑ वी॒ड्वी। स॒ती॑ऽइति॑ स॒ती। वी॒ड॒ये॒था॒म्। ऊ॑र्जम्। द॒धा॒था॒म्। पा॒प्मा। ह॒तः। न। सोमः॑ ॥३५॥


    स्वर रहित मन्त्र

    मा भेर्मा सँविक्था ऊर्जन्धत्स्व धिषणे वीड्वी सती वीडयेथामूर्जन्दधाथाम् । पाप्मा हतो न सोमः ॥


    स्वर रहित पद पाठ

    मा। भेः। मा। सम्। विक्थाः। ऊर्जम्। धत्स्व। धिषणेऽइति धिषणे। वीड्वीऽइति वीड्वी। सतीऽइति सती। वीडयेथाम्। ऊर्जम्। दधाथाम्। पाप्मा। हतः। न। सोमः॥३५॥

    यजुर्वेद - अध्याय » 6; मन्त्र » 35
    Acknowledgment

    सपदार्थान्वयः - हे स्त्रि ! त्वं वीड्वी बलवती सती सद्गुणयुक्ता पत्युः सकाशान्मा भेः मा बिभीयाः, मा सम्+विक्थाः भयं कम्पनं च कुर्य्याः, ऊर्ज्जं स्वशरीराऽऽत्मबलं पराक्रमं वा धत्स्व। हे पुरुष ! त्वमप्येवं भवेः, युवां धिषणे द्यावापृथिव्यौ इवऊर्ज्जं सन्तानादिभ्योऽपि बलं पराक्रमं च दधाथाम्, वोडयेथां दृढबलौ भवेताम्। एवमनुवर्तिनोर्युवयोः पाप्मा अपराधो हतः नष्टो भवतु । सोमो न=चन्द्र इवाऽऽह्लादशान्त्यादिगुणवृन्दः प्रकाशितो भवतु ॥ ६ । ३५ ।। [हे स्त्रि ! त्वं.....पत्युः सकाशान्मा भेः, मासंविक्थाः, ऊर्जं धत्स्व। हे पुरुष! त्वमप्येवं भवेः]

    पदार्थः -
    (मा) (भेः) मा बिभीयाः। लिङर्थे लुङ् (मा) (सम्) (विक्थाः) भयं कम्पनं च कुर्य्या:(ऊर्ज्जम्) स्वशरीरात्मबलं पराक्रमं वा (धत्स्व) (धिषणे) द्यावापृथिव्याविव (वीड्वी) बलवती। वीड्वीति बलनामसु पठितम् ॥ निघं० २ ।९॥ (सती) सद्गुणयुक्ता (वीडयेथाम्) दृढ़बलौ भवेताम् (ऊर्ज्जम्) सन्तानादिभ्योऽपि बलं पराक्रमं च (दधाथाम्) (पाप्मा) अपराध: (हतः) नष्टः (न) इव ( सोमः)॥ अयं मन्त्रः श० २। ९।४ । १८ व्याख्यातः ॥ ३५॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः ॥ इत्थं स्त्रीपुरुषौ व्यवहारमनुवर्त्तेयातां यतः परस्परं भयोद्वेगौ नश्येतामात्मनो दृढोत्साहः प्रीतिर्गृहाश्रमव्यवहारसिद्धिरैश्वर्यं च वर्द्धेत। [एवमनुवर्तिनोर्युवयोः पाप्मा हतो भवतु, सोमो न=चन्द्र इवाऽऽह्लादशान्त्यादिगुणवृन्दः प्रकाशितो भवतु] दोषदुःखानि निवर्त्य चन्द्र इव परस्परमाह्लादकारिणौ भवेताम् ॥ ६। ३५॥

    विशेषः - मधुच्छन्दाः। द्यावापृथिव्यौ=सूर्यलोकः पृथिवी च। भुरिगार्ष्यनुष्टुप्।गान्धारः।

    इस भाष्य को एडिट करें
    Top