यजुर्वेद - अध्याय 7/ मन्त्र 10
ऋषिः - त्रिसदस्युर्ऋषिः
देवता - मित्रावरुणौ देवते
छन्दः - ब्राह्मी बृहती,
स्वरः - मध्यमः
7
रा॒या व॒यꣳ स॑स॒वासो॑ मदेम ह॒व्येन॑ दे॒वा यव॑सेन॒ गावः॑। तां धे॒नुं मि॑त्रावरुणा यु॒वं नो॑ वि॒श्वाहा॑ धत्त॒मन॑पस्फुरन्तीमे॒ष ते॒ योनि॑र्ऋता॒युभ्यां॑ त्वा॥१०॥
स्वर सहित पद पाठरा॒या। व॒यम्। स॒स॒वास॒ इति॑ सस॒ऽवासः॑। म॒दे॒म॒। ह॒व्ये॑न। दे॒वाः। यव॑सेन। गावः॑। ताम्। धे॒नुम्। मि॒त्रा॒व॒रु॒णा॒। यु॒वम्। नः॒। वि॒श्वाहा॑। ध॒त्त॒म्। अन॑पस्फुरन्ती॒मित्यन॑पऽस्फुरन्तीम्। ए॒षः। ते॒। योनिः॑। ऋ॒ता॒युभ्या॑म्। ऋ॒त॒युभ्या॑मित्यृ॑तयुऽभ्या॑म्। त्वा॒ ॥१०॥
स्वर रहित मन्त्र
राया वयँ ससवाँसो मदेम हव्येन देवा यवसेन गावः । तान्धेनुम्मित्रावरुणा युवन्नो विश्वाहा धत्तमनपस्फुरन्तीमेष ते योनिरृतायुभ्यान्त्वा ॥
स्वर रहित पद पाठ
राया। वयम्। ससवास इति ससऽवासः। मदेम। हव्येन। देवाः। यवसेन। गावः। ताम्। धेनुम्। मित्रावरुणा। युवम्। नः। विश्वाहा। धत्तम्। अनपस्फुरन्तीमित्यनपऽस्फुरन्तीम्। एषः। ते। योनिः। ऋतायुभ्याम्। ऋतयुभ्यामित्यृतयुऽभ्याम्। त्वा॥१०॥
विषयः - पुनरेतयोः कृत्यमाह।।
सपदार्थान्वयः - हे ससवांसः संविभक्ताः देवाः! विद्वांसः! वयं पुरुषार्थिनः यवसेन अभीष्टेन तृणबुसादिना गाव: गवादयः पशव इवहव्येन ग्रहीतव्येन राया धनेन सह मदेम हृष्येम। हे मित्रावरुणा! प्राणवत् सखायावुत्तमौजनौ! युवं=युवां नः=अस्मभ्यं विश्वाहा=विश्वान्यहानि सर्वाणि दिनानि अनपस्फुरन्तीं विज्ञापयित्रीमिव योगविद्याजन्यां वाचं तां धेनुं धयति=पिबत्यानन्दरसमनया तां धत्तम्। हे यजमान! यस्यैष ते विद्याबोधो योनिरस्तिअतऋतायुभ्याम् आत्मन ऋतमिच्छद्भ्यामिव सहितं त्वा=त्वां वयं पुरुषार्थिनः आददीमहे ।। ७ । १०।। [हे मित्रावरुणा! युवं=युवां नः=अस्मभ्यंविश्वाहा=विश्वान्यहान्यनपस्फुरन्तीं तां धेनुं धत्तम्]
पदार्थः -
(राया) धनेन सह (वयम्) पुरुषार्थिन: (ससवांसः) संविभक्ताः (मदेम) हृष्येम (हव्येन) गृहीतव्येन (देव:) विद्वांसः (यवसेन) अभीष्टेन तृणबुसादिना (गाव:) गवादयः पशवः (ताम्) (धेनुम्) धयति=पिबत्यानन्दरसमनया ताम्। धेनुरिति वाङ् नामसु पठितम् ॥ निघं० १ । ११।। (मित्रावरुणा) प्राणवत् सखायावुत्तमौ जनौ (युवम्) युवाम् (नः) अस्मभ्यम् (विश्वाहा) सर्वाणि दिनानि (धत्तम्) (अनपस्फुरन्तीम्) विज्ञापयित्रीमिव योगविद्याजन्यां वाचम् (एषः) (ते) (योनिः) (ऋतायुभ्याम्) आत्मन ऋतमिच्छद्भ्यामिव (त्वा) त्वाम्॥ अयम्मन्त्रः शत० ४ । १ । ४ । १० व्याख्यातः ।। १०।।
भावार्थः - अत्रोपमावाचकलुप्तोपमालङ्कारौ॥ मनुष्यैः पुरुषार्थेन विद्वत्संगेन च परोपकारनिष्पादयित्रीं कामदुघां वेदवाचं प्राप्यानन्दयितव्यम् ।। ७ । १० ।।
भावार्थ पदार्थः - अनपस्फुरन्तीम्=परोकारनिष्पादयित्रीं वेदवाचम्। धेनुम्=कामदुघाम्॥
विशेषः - त्रिसदस्युं। मित्रावरुणौ=उत्तमौ योगिजनौ। ब्राह्मी बृहती। मध्यमः ।
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal