Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 7/ मन्त्र 17
    ऋषिः - वत्सार काश्यप ऋषिः देवता - विश्वेदेवा देवताः छन्दः - स्वराट् ब्राह्मी त्रिष्टुप्, स्वरः - धैवतः
    8

    मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विपः॒ शच्या॑ वनु॒थो द्र॑वन्ता। आ यः शर्या॑भिस्तुविनृ॒म्णोऽ अ॒स्याश्री॑णीता॒दिशं॒ गभ॑स्तावे॒ष ते॒ योनिः॑ प्र॒जाः पा॒ह्यप॑मृष्टो॒ मर्को॑ दे॒वास्त्वा॑ मन्थि॒पाः प्रण॑य॒न्त्वना॑धृष्टासि॥१७॥

    स्वर सहित पद पाठ

    मनः॑। न। येषु॑। हव॑नेषु। ति॒ग्मम्। विपः॑। शच्या॑। व॒नु॒थः। द्र॑वन्ता। आ। यः। शर्य्या॑भिः। तुवि॒नृम्ण इति॑ तुविऽनृ॒म्णः। अ॒स्य॒। अश्री॑णीत। आ॒दिश॒मित्या॒ऽदिश॑म्। गभ॑स्तौ। ए॒षः। ते॒। योनिः॑। प्र॒जा इति॑ प्र॒ऽजाः। पा॒हि॒। अप॑मृष्ट॒ इत्यप॑ऽमृष्टः। मर्कः॑। दे॒वाः। त्वा॒। म॒न्थि॒पा इति॑ मन्थि॒ऽपाः। प्र। न॒य॒न्तु॒। अना॑धृष्टा। अ॒सि॒ ॥१७॥


    स्वर रहित मन्त्र

    मनो न येषु हवनेषु तिग्मँ विपः शच्या वनुथो द्रवन्ता । आ यः शर्याबिस्तुविनृम्णो अस्याश्रीणीतादिशङ्गभस्तावेष ते योनिः प्रजाः पाह्यपमृष्टो मर्का देवास्त्वा मन्थिपाः प्रणयन्त्वनाधृष्टासि ॥


    स्वर रहित पद पाठ

    मनः। न। येषु। हवनेषु। तिग्मम्। विपः। शच्या। वनुथः। द्रवन्ता। आ। यः। शर्य्याभिः। तुविनृम्ण इति तुविऽनृम्णः। अस्य। अश्रीणीत। आदिशमित्याऽदिशम्। गभस्तौ। एषः। ते। योनिः। प्रजा इति प्रऽजाः। पाहि। अपमृष्ट इत्यपऽमृष्टः। मर्कः। देवाः। त्वा। मन्थिपा इति मन्थिऽपाः। प्र। नयन्तु। अनाधृष्टा। असि॥१७॥

    यजुर्वेद - अध्याय » 7; मन्त्र » 17
    Acknowledgment

    सपदार्थान्वयः - हे शिल्पविद्याविचक्षण सभापते विद्वन् ! एषः राजधर्मः ते=तव योनिः गृहम् अस्ति, त्वं यथा यस्तुविनृम्णः तुवीनि=बहूनि धनानि यस्य सः प्रज्ञापतिर्विपः विविधं पातीति विपो मेधावी प्रजाजनश्चैतो द्वौ युवां येषु हवनेषु धर्मेणैवादानेषु शर्याभिः गतिभिः तिग्मं व्रजवत्तीव्रंमनः विज्ञानं न इव [द्रवन्ता]=द्रवन्तौ गन्तारौसन्तौ शच्या प्रज्ञया सह आवनुथः कामयेथे, इत्थं प्रत्येकः प्रजाजनोऽस्य गभस्तौ अंगुल्या निर्देशे आदिशं दिशमभिव्याप्येव यथा स्यात्तथा शत्रूना श्रीणीतःश्रीणाति= पचति, मर्क: मरणदुःखदो दुर्नयः चापमृष्ट: दूरीकृत भवतु, प्रजाः संरक्षणीयाः पाहि, मन्थिपाः मन्थन्ति शत्रून् तान् वीरान् पान्ति ते देवाः विद्वांसः त्वा=त्वां प्रणयन्तु प्रीणयन्तु। हे प्रजे ! यतोऽनाधृष्टा=निर्भया स्वतन्त्रा अधर्षणीया त्वमसि, तं राजानं सततंरक्ष ।। ७ । १७ ।। [हे शिल्पविद्याविचक्षसभापते विद्वन्! एष ते=तव योनिरस्ति, त्वं......प्रजाः पाहि,मन्थिपा देवास्त्वा=त्वां प्रणयन्तु]

    पदार्थः -
    (मनः) विज्ञानम् (न) इव (येषु) (हवनेषु) धर्म्मेणैवादानेषु (तिग्मम्) वज्रवत्तीव्रम्। तिग्ममिति वज्रनामसु पठितम्॥ निघं० २ । २० ॥ (विपः) विविधं पातीति विपो मेधावी। विप इति मेधाविनामसु पठितम् ॥ निघं ० ३ । १५ ।। (शच्या) प्रज्ञया। शचीति प्रज्ञानामसु पठितम् ॥ निघं० ३ । ९॥ (वनुथः)। कामयेथे । वनोतीति कांतिकर्मसु पठितम्॥ निघं० २। ६ ॥ (द्रवन्ता) गन्तारौ । अत्र सुपां सुलुगित्याकारादेशः ॥ अ० ७ । १ । ३९॥ (आ) (यः) (शर्य्याभिः) गतिभिः (तुविनृम्णः) तुवीनि=बहूनि धनानि यस्य सः । तुवीति बहुनामसु पठितम् ॥ निघं० ३ । १ ॥ (अस्य) (अश्रीणीत) श्रीणाति पचति आदिशंदिशमभिव्याप्येव (गभस्तौ) अङ्गुल्या निर्देशे। गभस्तय इत्यङ्गुलीनामसु पठितम् ॥ निघं० २। ५ ॥ (एषः) राजधर्म: (ते) तव (योनिः) गृहम् (प्रजा:) संरक्षणीयाः (पाहि) (अपमृष्टः) दूरीकृतः (मर्कः) मरणदुःखदो दुर्नयः (देवाः) विद्वांसः (त्वा) त्वाम् (मन्थिपाः) ये मन्थन्ति शत्रून् तान् वीरान् पांति ते (प्र) (नयंतु) प्रीणयंतु (अनाधृष्टा) अधर्षणीया (असि) लोडर्थे लट् । अयं मन्त्रः शत० ४ । १ । ६ । १२--१५ व्याख्यातः।। १७ ।।

    भावार्थः - प्रजापुरुषा राज्यकर्मणि राजानमाश्रयेयुस्स तेषां न्यायेन रक्षां कुर्यात् । ते च तं न्यायाधीशं प्रति स्वाभिप्रायं प्रवदेयुः। राजसेवकाश्च न्यायकर्मणैव प्रजापुरुषान् रक्षेयुरिति ।। ७ । १७ ।।

    विशेषः - वत्सारः काश्यप । विश्वेदेवा=विद्वांसः। स्वराड् ब्राह्मी त्रिष्टुप् । धैवतः।।

    इस भाष्य को एडिट करें
    Top