यजुर्वेद - अध्याय 7/ मन्त्र 20
ऋषिः - वत्सार काश्यप ऋषिः
देवता - यज्ञो देवता
छन्दः - निचृत् आर्षी जगती
स्वरः - निषादः
4
उ॒प॒या॒मगृ॑हीतोऽस्याग्रय॒णोऽसि॒ स्वाग्रयणः। पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिं॒ विष्णु॒स्त्वामि॑न्द्रि॒येण॑ पातु॒ विष्णुं त्वं पा॑ह्य॒भि सव॑नानि पाहि॥२०॥
स्वर सहित पद पाठउ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। आ॒ग्र॒य॒णः। अ॒सि॒। स्वा॑ग्रयण॒ इति॒ सुऽआग्रयणः। पा॒हि। य॒ज्ञम्। पा॒हि। य॒ज्ञम्। पा॒हि। य॒ज्ञप॑ति॒मिति॑ य॒ज्ञऽपतिम्। विष्णुः॑। त्वाम्। इ॒न्द्रि॒येण॑। पा॒तु॒। विष्णु॑म्। त्वम्। पा॒हि॒। अ॒भि। सव॑नानि। पा॒हि॒ ॥२०॥
स्वर रहित मन्त्र
उपयामगृहीतोस्याग्रयणो सि स्वाग्रयणः पाहि यज्ञम्पाहि यज्ञपतिँविष्णुस्त्वामिन्द्रियेण पातु विष्णुन्त्वम्पाह्यभि सवनानि पाहि ॥
स्वर रहित पद पाठ
उपयामगृहीत इत्युपयामऽगृहीतः। असि। आग्रयणः। असि। स्वाग्रयण इति सुऽआग्रयणः। पाहि। यज्ञम्। पाहि। यज्ञम्। पाहि। यज्ञपतिमिति यज्ञऽपतिम्। विष्णुः। त्वाम्। इन्द्रियेण। पातु। विष्णुम्। त्वम्। पाहि। अभि। सवनानि। पाहि॥२०॥
विषयः - अथ राज्ञां विदुषां चोपदेशप्रकारमाह।।
सपदार्थान्वयः - हे सभापते राजन् उपदेशक वा ! यतस्त्वमुपयामगृहीतः विनयादिराजगुणैर्युक्तः असि, अतो यज्ञं राजप्रजापालकंपाहि, स्वाग्रयण इव शोभनश्चासावाग्रयणश्च तद्वत् आग्रयणः समन्तादग्राणि=विज्ञानयुक्तानि प्रशस्तानि कर्माण्ययते सः असि, तस्माद् यज्ञपतिं संगतस्य न्यायस्य पालकं पाहि, अयं विष्णुः सकलशुभगुणकर्मव्यापी विद्वान् इन्द्रियेण मनसा धनेन वा त्वां पातु, त्वं न्यायाधीशः एनं विष्णुं विद्वांसं पाहि, सवनानि ऐश्वर्याणि अभिपाहि ॥ ७ । २० ॥ [हे सभापते राजन् उपदेशक वा!.....त्वम्......यज्ञं पाहि, यज्ञपतिं पाहि, अयं विष्णुरिन्द्रियेणत्वां पातु, त्वमेनं विष्णुं पाहि, सवनान्यभिपाहि]
पदार्थः -
(उपयामगृहीतः) विनयादिराजगुणैर्युक्तः (असि) (आग्रयणः) समन्तादग्राणि विज्ञानयुक्तानि प्रशस्तानि कर्माण्ययते सः । शकन्ध्वादिषु पररूपं वाच्यम् । इति पररूपम् (असि) (स्वाग्रयणः) शोभनश्चासावाग्रयणश्च तद्वत् (पाहि) (यज्ञम्) राजप्रजापालकम् (पाहि) (यज्ञपतिम्) संगतस्य न्यायस्य पालकम् (विष्णु:) सकलशुभगुणकर्म्मव्यापी विद्वान् (त्वाम्) (इन्द्रियेण) मनसा धनेन वा। इन्द्रियमिति धननामसु पठितम् ॥ निघं० २ । १० ॥ (पातु) (विष्णुम्) विद्वांसम् (त्वम्) न्यायाधीशः (पाहि) (अभि) (सवनानि) ऐश्वर्याणि (पाहि) ॥ अयं मन्त्रः शत० ४ । २ । २ । ९--११ व्याख्यातः ॥ २०॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः ।। राज्ञो विदुषां च योग्यताऽस्तिते सततं राज्योन्नतिं कुर्युर्नहि राज्योन्नत्या विना विद्वांसः स्वास्थ्येन विद्यां प्रचारयितुमुपदेष्टुं च शक्नुवन्ति, न खलु विदुषां संगोपदेशाभ्यां विना कश्चिद् राज्यं रक्षितुमर्हति, न खलु राज- प्रजोत्तमविदुषां परस्परं प्रीतिमन्तरैश्वर्योन्नतिरैश्वर्योन्नत्या विनाऽऽनन्दश्च सततं जायते ॥ ७ । २० ।।
विशेषः - वत्सारः काश्यपः। यज्ञः=राजप्रजापालको यज्ञः।। निचृदार्षी जगती। निषादः।।
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal