Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 7/ मन्त्र 19
    ऋषिः - वत्सार काश्यप ऋषिः देवता - विश्वेदेवा देवताः छन्दः - भूरिक् आर्षी पङ्क्ति स्वरः - धैवतः
    9

    ये दे॑वासो दि॒व्येका॑दश॒ स्थ पृ॑थि॒व्यामध्येका॑दश॒ स्थ। अ॒प्सु॒क्षितो॑ महि॒नैका॑दश॒ स्थ ते दे॑वासो य॒ज्ञमि॒मं जु॑षध्वम्॥१९॥

    स्वर सहित पद पाठ

    ये। दे॑वा॒सः॒। दि॒वि। एका॑दश। स्थ। पृ॒थि॒व्याम्। अधि॑। एका॑दश। स्थ। अप्सु॒क्षित॒ इत्य॑प्सु॒ऽक्षितः॑। म॒हि॒ना। एका॑दश। स्थ। ते। दे॒वा॒सः॒। य॒ज्ञम्। इ॒मम्। जु॒ष॒ध्व॒म् ॥१९॥


    स्वर रहित मन्त्र

    ये देवासो दिव्येकादश स्थ पृथिव्यामध्येकादश स्थ अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञमिमथ्जुषध्वम् ॥


    स्वर रहित पद पाठ

    ये। देवासः। दिवि। एकादश। स्थ। पृथिव्याम्। अधि। एकादश। स्थ। अप्सुक्षित इत्यप्सुऽक्षितः। महिना। एकादश। स्थ। ते। देवासः। यज्ञम्। इमम्। जुषध्वम्॥१९॥

    यजुर्वेद - अध्याय » 7; मन्त्र » 19
    Acknowledgment

    सपदार्थान्वयः - ये महिना=स्वमहिम्ना महिम्ना दिवि विद्युत्एकादश प्राण-अपान-उदान-व्यान-समान-नाग-कूर्म्म-कृकल-देवदत्त-धनञ्जय-जीवाः देवासः दिव्यगुणयुक्ताः स्थ=सन्ति, पृथिव्यां भूमौ अधि उपरि एकादश पृथिवी-अप्-तेजो-वायु-आकाश-आदित्य-चन्द्र-नक्षत्र-अहंकार-महत्तत्त्वप्रकृतयः स्थ=सन्ति अप्सुक्षितः प्राणेषु क्षयन्ति=निवसन्ति ते चैकादश श्रोत्रत्वक्-चक्षू-रसना-घ्राण-वाक्-पाणि-पाद-पायु-उपस्थ-मनांसि स्थ=सन्ति ते यथा स्वस्वकर्मसु वर्तन्ते तद्वद्वर्त्तमाना--हे देवासः = राजसभापा: सभ्यजना! राजसभासदो विद्वांसः! यूयमिमं प्रत्यक्षं यज्ञं राजप्रजासम्बद्ध-व्यवहारं जुषध्वं सेवध्वम्।। ७। १९।। [ये......दिव्येकादश देवासः स्थ=सन्ति.........ते यथा स्वस्वकर्मसु वर्त्तन्ते तद्वद्वर्त्तमाना हे देवासः=राजसभायाः सभ्यजना यूयमिमं यज्ञं जुषध्वम्]

    पदार्थः -
    (ये) (देवासः) दिव्यगुणयुक्ताः (दिवि) विद्युति (एकादश) प्राणापानोदानव्यानसमाननागकूर्मकृकलदेवदत्तधनंजय-जीवाः (स्थ ) सन्ति। अत्र पुरुषव्यत्ययः (पृथिव्याम्) भूमौ (अधि) उपरिभावे (एकादश) पृथिव्यप्तेजोवाय्वाकाशादित्यचन्द्रनक्षत्राहंकारमहत्तत्त्वप्रकृतयः (स्थ) सन्ति (अप्सुक्षितः) प्राणेषु क्षयन्ति=निवसन्ति ते (महिना) महिम्ना (एकादश) श्रोत्रत्वक्चक्षूरसनाघ्राणवाक्पाणिपादपायूपस्थमनांसि (स्थ) सन्ति (ते) (देवासः) राजसभासदो विद्वांसः (यज्ञम्) राजप्रजासम्बद्धव्यवहारम् (इमम्) प्रत्यक्षम् (जुषध्वम् ) सेवध्वम् ॥ अयम्मंत्रः शत० ४ । २ । २ । ९ व्याख्यातः॥ १९॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः।।यथा स्वस्वकर्मणि प्रवर्त्तमाना इमेऽन्तरिक्षादिषुपदार्थाः सन्ति तथा सभाजनैस्स्वस्वन्यायकर्मणि प्रयतितव्यम् ।। ७ । १९।।

    विशेषः - वत्सारः काश्यपः। विश्वेदेवाः=राजानो राजसभासदश्च ॥ भुरिगार्षी पंक्तिः धैवतः।

    इस भाष्य को एडिट करें
    Top