Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 61
    ऋषिः - शङ्ख ऋषिः देवता - पितरो देवता छन्दः - त्रिष्टुप् स्वरः - धैवतः
    4

    अ॒ग्नि॒ष्वा॒त्तानृ॑तु॒मतो॑ हवामहे नाराश॒ꣳसे सो॑मपी॒थं यऽआ॒शुः। ते नो॒ विप्रा॑सः सु॒हवा॑ भवन्तु व॒य स्या॑म॒ पत॑यो रयी॒णाम्॥६१॥

    स्वर सहित पद पाठ

    अ॒ग्नि॒ष्वा॒त्तान्। अ॒ग्नि॒स्वा॒त्तानित्य॑ग्निऽस्वा॒त्तान्। ऋ॒तु॒मत॒ इत्यृ॑तु॒ऽमतः॑। ह॒वा॒म॒हे॒। ना॒रा॒श॒ꣳसे। सो॒म॒पी॒थमिति॑ सोमऽपी॒थम्। ये। आ॒शुः। ते। नः॒। विप्रा॑सः। सु॒हवा॒ इति॑ सु॒ऽहवाः॑। भ॒व॒न्तु॒। व॒यम्। स्या॒म॒। पत॑यः। र॒यी॒णाम्। ॥६१ ॥


    स्वर रहित मन्त्र

    अग्निष्वात्ताँऽऋतुमतो हवामहे नाराशँसे सोमपीथँयऽआशुः । ते नो विप्रासः सुहवा भवन्तु वयँस्याम पतयो रयीणाम् ॥


    स्वर रहित पद पाठ

    अग्निष्वात्तान्। अग्निस्वात्तानित्यग्निऽस्वात्तान्। ऋतुमत इत्यृतुऽमतः। हवामहे। नाराशꣳसे। सोमपीथमिति सोमऽपीथम्। ये। आशुः। ते। नः। विप्रासः। सुहवा इति सुऽहवाः। भवन्तु। वयम्। स्याम। पतयः। रयीणाम्।॥६१॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 61
    Acknowledgment

    भावार्थ -
    (ये) जो (नाराशंसे) उत्तम पुरुषों के प्रशंसा योग्य सत्कार व्यवहार में (सोमपीथम् ) राज्यैश्वर्य के पालन के पदाधिकारी को (आशुः) प्राप्त करते हैं उन ( अग्नि-स्वात्तान् ) अग्रणी, तेजस्वी पद को प्राप्त या सेनानायकों द्वारा स्वीकृत विद्वान् (ऋतुमतः ) क्षात्र-बल के स्वामी पुरुषों को ( हवामहे) आदर से बुलावें । (ते) वे (विप्रासः) मेधावी, विद्वान् पुरुष (नः) हमें (सु-हवाः) उत्तम समृद्धि के देने वाले (भवन्तु) हों । और हम ( रयीणां पतयः स्याम ) ऐश्वर्यों के स्वामी बनें । 'ऋतुमतः - या षड् विभूतयः ऋतवस्ते | जै० १।२।१।१। ऋतव उपसदः श० १०।२।५ ॥ तदस्या ऋतवोऽभवन् । तै० ३।१२।९।४। ऋतवो वै सोमस्य राज्ञो राजभ्रातरो यथा मनुष्यस्य । ऐ० १। १३ ॥ ऋतव एते यऋतव्याः । क्षत्रं वा ऋतव्याः,विश इमा इतरा इष्टकाः ॥ श० ७।१|१।७२ ॥ विभूतियाँ उपसद् अर्थात् उपसभाएं, या मोर्चे, राजाओं के सम्बन्धी जन, राजसभा के सदस्य और क्षत्रिय पदाधिकारी ये सब 'ऋतु' कहाते हैं ।

    ऋषि | देवता | छन्द | स्वर - शंखः । पितरः । त्रिष्टुप् । धैवतः ॥

    इस भाष्य को एडिट करें
    Top