यजुर्वेद - अध्याय 5/ मन्त्र 15
ऋषिः - मेधातिथिर्ऋषिः
देवता - विष्णुर्देवता
छन्दः - भूरिक् आर्षी गायत्री,
स्वरः - षड्जः
2
इ॒दं विष्णु॒र्विच॑क्रमे त्रे॒धा निद॑धे प॒दम्। समू॑ढमस्य पासु॒रे स्वाहा॑॥१५॥
स्वर सहित पद पाठइ॒दम्। विष्णुः॑। वि। च॒क्र॒मे॒। त्रे॒धा। नि। द॒धे॒। प॒दम् ॥ समू॑ढ॒मिति॒ सम्ऽऊ॑ढम्। अ॒स्य॒। पा॒सु॒रे। स्वाहा॑ ॥१५॥
स्वर रहित मन्त्र
इदँविष्णुर्विचक्रमे त्रेधा नि दधे पदम् । समूढमस्य पाँसुरे स्वाहा ॥
स्वर रहित पद पाठ
इदम्। विष्णुः। वि। चक्रमे। त्रेधा। नि। दधे। पदम्॥ समूढमिति सम्ऽऊढम्। अस्य। पासुरे। स्वाहा॥१५॥
विषयः - पुनः स जगदीश्वरः कीदृश इत्युपदिश्यते॥
सपदार्थान्वयः - यो विष्णुः=जगदीश्वरः यो वेवेष्टि=व्याप्नोति चराचरं जगत्स जगदीश्वरः यत्किञ्चिदिदं=प्रत्यक्षाप्रत्यक्षं जगद्वर्त्तते तत्सर्वंविचक्रमे =रचितवान् विविधतया क्रान्तवान्=निक्षिप्तवान् क्राम्यति, क्रमिष्यति वा, त्रेधा त्रिप्रकारं निदधे=निदधाति नितरां हितवान्, दधाति धास्यति वा, अस्य त्रिविधस्य जगतः परमाण्वादिरूपं स्वाहा=सुहुतं सुहुतं जुहोति समूढम्=अदृश्यं सम्यगुह्यते=अनुमीयते शब्दयते यत्तत् पदं पद्यते=गम्यते यत्तत् पांसुरे=अन्तरिक्षे पांसवः=रेणवो रजांसि रमन्ते यस्मिन्नन्तरिक्षे तस्मिन् निहितवानस्ति, स सर्वैः सुसेवनीयः।। ५ । १५ ।। [यो विष्णुः=जगदीश्वरो यत्किञ्चिदिदं=प्रत्यक्षाप्रत्यक्षं जगद्वर्त्तते तत्सर्वं विचक्रमे=रचितवान्। त्रेधा निदधे=निदधाति=अस्य त्रिविधस्य जगतः परमाण्वादिरूपं........पदं पांसुरे=अन्तरिक्षे निहितवानस्ति]
पदार्थः -
(इदम्) प्रत्यक्षाप्रत्यक्षं जगत् (विष्णुः) यो वेवेष्टि=व्याप्नोति चराचरं जगत्स जगदीश्वरः (वि) विविधार्थे (चक्रमे) क्रान्तवान्=निक्षिप्तवान् क्राम्यति क्रमिष्यति वा । अत्र सामान्येऽर्थे लिट् (त्रेधा) त्रिप्रकारम् (नि) नितराम् (दधे) हितवान् दधाति धास्यति वा (पदम्) पद्यते=गम्यते यत्तत्। अत्र घञर्थे कविधानमितिकः प्रत्ययः (समूढम्) सम्यगुह्यतुऽनुनीयते शब्द्यते यत्तत् (अस्य) त्रिविधस्य जगतः (पांसुरे) पांसवो=रेणवो रजांसि रमन्ते यस्मिन्नन्तरिक्षे तस्मिन् (स्वाहा) सुहुतं जुहोतीत्यर्थे। इमं मन्त्रं यास्कमुनिरेवं व्याख्यातवान्--यदिदं किंच विक्रमते विष्णुस्त्रिधा निधत्ते पदं त्रेधाभावाय पृथिव्यामंतरिक्षे दिवीति शाकपूणिः । समारोहणे विष्णुपदे गयशिरसीत्यौर्णवाभः। समूढमस्य पांसुरे प्यायनेऽन्तरिक्षे पदं न दृश्यतेऽपि वोपमार्थे स्यात्समूढमस्य पांसुर इव पदं न दृश्यत इति पांसवः। पादै: सूयत इति वा, पन्नाः शेरत इति वा, पादैः सूयन्त इति वा, पन्नाः शेरत इति वा, पंसनीया भवन्तीति वा । निरु० १२ । १९।। अयं मंत्र ३। ५। ३। १३ व्याख्यातः ॥ १५।।
भावार्थः - परमेश्वरेण यत्प्रथमं प्रकाशवत् सूर्यादि, द्वितीयमप्रकाशवत् पृथिव्यादिप्रसिद्धं जगद्रचितमस्ति, यच्च तृतीयं परमाण्वाद्यदृश्यं सर्वमेतत् कारणावयवै रचयित्वाऽन्तरिक्षे स्थापितं, तत्रौषध्यादिकंपृथिव्यामग्न्यादिकं सूर्ये परमाण्वादिकमाकाशे निहितं, सर्वमेतत् प्राणानां शिरसि स्थापितवानस्ति। [प्रमाणमाह--]- "सा हैषा गयाँस्तत्रे, प्राणा वै गयास्तत्प्राणाँस्तत्रे, तद्यद् गयाँस्तत्रे तद् गायत्री नाम"॥ शत० १४। ८। १५। ६-७ ।। अनेन गयशब्देन प्राणानां ग्रहणम्॥ [समीक्षते] अत्र महीधरः प्रबुक्कति त्रिविक्रमावतारं कृत्वेत्यादि, तन्नशुद्धं सज्जनैर्बोध्यम् ।। ५ । १५ ।।
भावार्थ पदार्थः - विचक्रमे=रचितमस्ति ।
विशेषः - मेधातिथिः। विष्णुः=ईश्वरः॥ भुरिगार्षी गायत्री। षड्जः॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal