Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 5/ मन्त्र 3
    ऋषिः - गोतम ऋषिः देवता - यज्ञो देवता छन्दः - आर्षी पङ्क्तिः स्वरः - पञ्चमः
    4

    भव॑तं नः॒ सम॑नसौ॒ सचे॑तसावरे॒पसौ॑। मा य॒ज्ञꣳ हि॑ꣳसिष्टं॒ मा य॒ज्ञप॑तिं जातवेदसौ शि॒वौ भ॑वतम॒द्य नः॑॥३॥

    स्वर सहित पद पाठ

    भव॑तम्। नः॒। सम॑नसा॒विति॒ सऽम॑नसौ। सचे॑तसा॒विति॒ सऽचे॑तसौ। अ॒रे॒पसौ॑। मा। य॒ज्ञम्। हि॒सि॒ष्ट॒म्। मा। य॒ज्ञप॑ति॒मिति॑ य॒ज्ञऽप॑तिम्। जा॒त॒वे॒द॒सा॒विति॑ जातऽवेदसौ। शि॒वौ। भ॒व॒त॒म्। अ॒द्य। नः॒ ॥३॥


    स्वर रहित मन्त्र

    भवतन्नः समनसौ सचेतसावरेपसौ । मा यज्ञँ हिँसिष्टंम्मा यज्ञपतिञ्जातवेदसौ शिवौ भवतमद्य नः ॥


    स्वर रहित पद पाठ

    भवतम्। नः। समनसाविति सऽमनसौ। सचेतसाविति सऽचेतसौ। अरेपसौ। मा। यज्ञम्। हिसिष्टम्। मा। यज्ञपतिमिति यज्ञऽपतिम्। जातवेदसाविति जातऽवेदसौ। शिवौ। भवतम्। अद्य। नः॥३॥

    यजुर्वेद - अध्याय » 5; मन्त्र » 3
    Acknowledgment

    सपदार्थान्वयः - यावरेपसौअविद्यमानं रेपो=व्यक्तं प्राकृतं वचनं ययोरध्येत्रध्यापकयोस्तौ समनसौ समानं मनो=विज्ञानं ययोस्तौ सचेतसौ समानं चेतसं=ज्ञानं संज्ञापनं ययोस्तौ जातवेदसौ=अध्येतृ-अध्यापकौ जातं वेदो=विद्या ययोस्तौ, नः=अस्मभ्यमुपदेष्टारौ भवतं=स्यातांतौ यज्ञम् अध्ययनाध्यापनाख्यं कर्म यज्ञपतिम् एतद्यज्ञ-पालयितारंच मा हिसिष्टं=मा= हिंस्याताम्। एतावद्य अस्मिन् दिने नः अस्मभ्यं शिवौ=मंगलकारिणौ भवतं=स्यातांभवेतम् ।। ५ । ३ ।। [यावरेपसौ........जातवेदसावध्येत्रध्यापकौ नः=अस्मभ्यभुदेष्टारौ भवतं=स्यातां, तौ यज्ञं यज्ञपतिं च मा हिंसिष्टम्=मा हिंस्याताम् एतावद्य नः=अस्मभ्यं शिवौ=मङ्गलकारिणौ भवतं=स्याताम् ]

    पदार्थः -
    (भवतम्) स्यातम् (नः) अस्मभ्यम् (समनसौ ) समानं मनो=विज्ञानं ययोस्तौ (सचेतसौ) समानं चेतसं=ज्ञानं संज्ञापनं ययोस्तौ (अरेपसौ) अविद्यमानं रेपौ=व्यक्तं प्राकृतं वचनं ययोरध्येत्रध्यापकयोस्तौ (मा) निषेधार्थे (यज्ञम्) अध्ययनाध्यापनाख्यं कर्म (हिंसिष्टम्) हिंस्याताम् (मा) निषेधार्थे (यज्ञपतिम्) एतद्यज्ञपालयितारम् (जातवेदसौ) जातं वेदो=विद्या ययोस्तौ (शिवौ) मङ्कलकारिणौ (भवतम्) भवेतम् (अद्य) अस्मिन् दिने (नः) अस्मभ्यम्॥ अयं मंत्रः शत० ३। ४ । १ । २४ व्याख्यातः॥ ३॥

    भावार्थः - मनुष्यैर्नैव कदाचित् विद्याप्रचारायाध्ययनमध्यापनं च त्यक्तव्यं मङ्गलाचरणं चास्य सर्वोत्कृष्टत्वात् ॥ ५ । ३ ॥

    विशेषः - गोतमः । यज्ञः=स्पष्टम् । आर्षीपंक्ति: । पंचमः॥

    इस भाष्य को एडिट करें
    Top