Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 5/ मन्त्र 40
    ऋषिः - आगस्त्य ऋषिः देवता - अग्निर्देवता छन्दः - निचृत् ब्राह्मी त्रिष्टुप्, स्वरः - गान्धारः
    5

    अग्ने॑ व्रतपा॒स्त्वे व्र॑तपा॒ या तव॑ त॒नूर्मय्यभू॑दे॒षा सा त्वयि॒ यो मम॑ त॒नूस्त्वय्यभू॑दि॒यꣳ सा मयि॑। य॒था॒य॒थं नौ॑ व्रतपते व्र॒तान्यनु॑ मे दी॒क्षां दी॒क्षाप॑ति॒रम॒ꣳस्तानु॒ तप॒स्तप॑स्पतिः॥४०॥

    स्वर सहित पद पाठ

    अग्ने॑। व्र॒त॒पा॒ इति॑ व्रतऽपाः। ते॒। व्र॒त॒पा॒ इति॑ व्रतऽपाः। या। तव॑। त॒नूः। मयि॑। अभू॑त्। ए॒षा। सा। त्वयि॑। योऽइति॒ यो। मम॑। तनूः। त्वयि॑। अभू॑त्। इ॒यम्। सा। मयि॑। य॒था॒य॒थमिति॑ यथाऽय॒थम्। नौ। व्र॒त॒प॒त॒ इति॑ व्रतऽपते। व्र॒तानि॑। अनु। मे॒। दी॒क्षाम्। दी॒क्षाप॑ति॒रिति॑ दीक्षाऽप॑तिः। अमं॑स्त। अनु॑। तपः॑। तप॑स्पति॒रिति॒ तपः॑ऽपतिः ॥४०॥


    स्वर रहित मन्त्र

    अग्ने व्रतपास्त्वे व्रतपा या तव तनूर्मय्यभूदेषा सा त्वयि यो मम तनूस्त्वय्यभूदियँ सा मयि । यथायथन्नौ व्रतपते व्रतान्यनु मे दीक्षान्दीक्षापतिरमँस्तानु तपस्तपस्पतिः ॥


    स्वर रहित पद पाठ

    अग्ने। व्रतपा इति व्रतऽपाः। ते। व्रतपा इति व्रतऽपाः। या। तव। तनूः। मयि। अभूत्। एषा। सा। त्वयि। योऽइति यो। मम। तनूः। त्वयि। अभूत्। इयम्। सा। मयि। यथायथमिति यथाऽयथम्। नौ। व्रतपत इति व्रतऽपते। व्रतानि। अनु। मे। दीक्षाम्। दीक्षापतिरिति दीक्षाऽपतिः। अमंस्त। अनु। तपः। तपस्पतिरिति तपःऽपतिः॥४०॥

    यजुर्वेद - अध्याय » 5; मन्त्र » 40
    Acknowledgment

    सपदार्थान्वयः - व्रतपाः यथा सत्यपालको विद्वांस्तथा तत्सम्बुद्धौ अग्ने! विज्ञानोन्नत! विद्वांस्त्वं यथा मे व्रतपाः सत्यपालको विद्वान् अभूत् भवतु तथा ते तव अहं व्रतया भवेयम्। या तव तनूः व्याप्तिनिमित्तं शरीरं सा मयि त्वत्सखे भवतु,यैषा समक्षे वर्त्तमाना त्वयि मन्मित्रे मतिरस्तीयं गोचरा सा मयि स्यात्। यो=या मम तनूःविद्याविस्तृतिः सा त्वयि मदध्यापके भवतु। हे व्रतपते ! यथा सत्यानां रक्षकस्तथा तत्सम्बुद्धौ यथाऽयं जनो व्रतपतिरभूत्=भवति तथा त्वं चाहं च नौ आवां सखायौ भूत्वा यथायथं यथार्थं व्रतानि=सत्याचरणानि नियतानि सत्याचरणानि अनुचरेव। हे मित्र ! यथा तव दीक्षापतिः यथा व्रतादेशपालकः तुभ्यं दीक्षां व्रतोपदेशम् अमँस्त मन्यते तथा मे=मम व्रतोपदेशम् दीक्षां अन्वमँस्त । यथा ते=तव तपस्पतिःयथा ब्रह्मचर्यादिपालकः त्वदर्थं तपः प्राक्क्लेशमुत्तरानन्दं ब्रह्मचर्य्यम् अन्वमंस्त पश्चान्मन्यते यथा मे= ममापि तपस्पतिः ब्रह्मचर्यादिपालक: मदर्थं तपः प्राक्क्लेशमुत्तरानन्दं ब्रह्मचर्यम् अमँस्त।। ५ । ४० ।। [व्रतपाअग्ने विद्वांस्त्वं यथा मे व्रतपा अभूत्, तथा ते ऽहं व्रतपा भवेयम्]

    पदार्थः -
    (अग्ने) विज्ञानोन्नत (व्रतपाः) यथा सत्यपालको विद्वांस्तथा तत्सम्बुद्धौ (ते) तव (व्रतपाः) पूर्ववत् (या) (तव) (तनूः) व्याप्तिनिमित्तं शरीरम् (मयि) त्वत्सखे (अभूत्) भवतु (एषा) समक्षे वर्त्तमाना (सा) (त्वयि) मन्मित्रे (यो) या (मम) (तनूः) विद्याविस्तृतिः (त्वयि) मदध्यापके (अभूत्) भवति (इयम्) गोचरा (सा) (मयि) त्वच्छिष्ये (यथायथम्) यथार्थम् (नौ) आवाम् (व्रतपते) यथा सत्यानां रक्षकस्तथा तत्सम्बुद्धौ (व्रतानि) नियतानि सत्याचरणानि (अनु) पश्चादर्थे (मे) मम (दीक्षाम्) व्रतोपदेशम् (दीक्षापतिः) यथाव्रतादेशपालकः (अमंस्त) मन्यते तथा (अनु) पश्चाद्योगे (तपः) प्राक्क्लेशमुत्तरानन्दं ब्रह्मचर्य्यम् (तपस्पतिः) यथा ब्रह्मचर्य्यादिपालकः॥ अयं मन्त्रः शत० ३। ६। ३। २१ व्याख्यातः॥ ४० ॥

    भावार्थः - यथा पूर्वं विद्वत्कारिणोऽध्यापका अभूवन् तथाऽस्मदादिभिरपि भवितव्यम्। [त्वं चाहं च नौ सखायौ भूत्वा यथायथं व्रतानि=सत्याचरणान्यनुचरेव] यावन्मनुष्याः सुखदुःखहानिलाभव्यवस्थायां परस्परं स्वात्मवन्न वर्त्तन्ते न तावत् पूर्णं सुखं लभन्ते, तस्मादेतत्सर्वं मनुष्यैः कुतो नानुष्ठेयम्।।५ । ४० ।।

    विशेषः - अगस्त्यः। अग्निः=आचार्यः शिष्यश्च । निचृद् ब्राह्मी त्रिष्टुप्। धैवतः॥

    इस भाष्य को एडिट करें
    Top