यजुर्वेद - अध्याय 5/ मन्त्र 4
ऋषिः - गोतम ऋषिः
देवता - अग्निर्देवता
छन्दः - आर्षी त्रिष्टुप्
स्वरः - धैवतः
3
अ॒ग्नाव॒ग्निश्च॑रति॒ प्रवि॑ष्ट॒ऽऋषी॑णां पु॒त्रोऽअ॑भिशस्ति॒पावा॑। स नः॑ स्यो॒नः सु॒यजा॑ यजे॒ह दे॒वेभ्यो॑ ह॒व्यꣳ सद॒मप्र॑युच्छ॒न्त्स्वाहा॑॥४॥
स्वर सहित पद पाठअ॒ग्नौ। अ॒ग्निः। च॒र॒ति॒। प्रविष्ट॑ इति॒ प्रऽवि॒ष्टः। ऋषी॑णाम्। पु॒त्रः। अ॒भि॒श॒स्ति॒पावेत्य॑भिशस्ति॒ऽपावा॑। सः। नः॒। स्यो॒नः। सु॒यजेति॑ सु॒ऽयजा॑। य॒ज॒। इ॒ह। दे॒वेभ्यः॑। ह॒व्यम्। सद॑म्। अप्र॑युच्छ॒न्नित्यप्र॑ऽयुच्छन्। स्वाहा॑ ॥४॥
स्वर रहित मन्त्र
अग्नावग्निश्चरति प्रविष्ट ऋषीणाम्पुत्रोऽअभिशस्तिपावा । स नः स्योनः सुयजा यजेह देवेभ्यो हव्यँ सदमप्रयुच्छन्त्स्वाहा ॥
स्वर रहित पद पाठ
अग्नौ। अग्निः। चरति। प्रविष्ट इति प्रऽविष्टः। ऋषीणाम्। पुत्रः। अभिशस्तिपावेत्यभिशस्तिऽपावा। सः। नः। स्योनः। सुयजेति सुऽयजा। यज। इह। देवेभ्यः। हव्यम्। सदम्। अप्रयुच्छन्नित्यप्रऽयुच्छन्। स्वाहा॥४॥
विषयः - विद्युद्विद्वदग्नी कीदृशावित्युपदिश्यते।।
सपदार्थान्वयः - योऽभिशस्तिपावा योऽभिशस्तेराभिमुख्याद्धिंसमानात् पाति=रक्षति अग्नौ विद्युतिप्रविष्टः प्रवेशं कुर्वाणः सन् ऋषीणां वेदार्थं विदां पुत्रः सुशिक्षितोऽध्यापितः स्योनः सुखकारी सुयजा सुष्ठु यजन्ति यस्मिन् यज्ञे तेन [सः] अग्निः=विद्वान्, विद्वान् मनुष्यःअप्रयुच्छन् अप्रविवासयन् चरति गच्छति, यो [नः] अस्मभ्यमिह जगति देवेभ्यः विद्वद्भ्यो दिव्यगुणेभ्यो वा हव्यं दातुं ग्रहीतुं योग्यं पदार्थंसदं सद्यते=विज्ञायते प्राप्यते यस्तं स्वाहा=सुहुतं हविरन्नादिकं प्रयच्छति प्रापयति तं वयं संगच्छेमहि ॥ ५ । ४ ॥ [योऽभिशस्तिपावाऽग्नौप्रविष्टः.......अग्निः]
पदार्थः -
(अग्नौ) विद्युति (अग्निः) विद्वान्मनुष्यः (चरति) गच्छति (प्रविष्टः) प्रवेशं कुर्वाणः सन् (ऋषीणाम्) वेदार्थविदाम् (पुत्रः) सुशिक्षितोऽध्यापितः (अभिशस्तिपावा) योऽभिशस्तेराभिमुख्याद्धिंसमानात्पाति=रक्षति (स:) विद्वान् (नः) अस्मभ्यम् (स्योनः) सुखकारी (सुयजा) सुष्ठु यजन्ति यस्मिन् यज्ञे तेन (यज) सङ्गमयतु (इह) जगति (देवेभ्यः) विद्वद्भ्यो दिव्यगुणेभ्यो वा (हव्यम्) दातुं ग्रहीतुं योग्यं पदार्थम् (सदम्) सद्यते=विज्ञायते प्राप्यते यस्तम् (अप्रयुच्छन्) अप्रविवासयन् (स्वाहा) सुहृतं हविरन्नम्॥ अयं मंत्रः शत० ३। ४। १। २५ व्याख्यातः ॥ ४॥
भावार्थः - मनुष्यैरिह योऽग्निः किल कार्यकारणभेदेन द्विधाऽस्ति, तत्र कार्यरूपेण सूर्यादावग्नौ कारणरूपा विद्युत् सर्वभूतद्रव्येषु प्रविष्टा सती वर्तते, तस्यां च विज्ञानेन प्रविश्यैते सम्यक् संप्रयोज्य कार्योपयोगः कर्त्तव्यः ।। ५ । ४ ।।
विशेषः - गोतमः। अग्निः= विद्युत् विद्वांश्च। आर्षीत्रिष्टुप्। धैवतः ॥ अत्र महीधरेण विराडित्यशुद्धं व्याख्यातम् ॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal