यजुर्वेद - अध्याय 5/ मन्त्र 34
ऋषिः - मधुच्छन्दा ऋषिः
देवता - अग्निर्देवता
छन्दः - स्वराट् ब्राह्मी बृहती,
स्वरः - मध्यमः
3
मि॒त्रस्य॑ मा॒ चक्षु॑षेक्षध्व॒मग्न॑यः। सगराः॒ सग॑रा स्थ॒ सग॑रेण॒ नाम्ना॒ रौद्रे॒णानी॑केन पा॒त मा॑ग्नयः पिपृ॒त मा॑ग्नयो गोपा॒यत॑ मा॒ नमो॑ वोऽस्तु॒ मा मा॑ हिꣳसिष्ट॥३४॥
स्वर सहित पद पाठमित्र॒स्य॑। मा॒। चक्षु॑षा। ईक्ष॒ध्व॒म्। अग्न॑यः। स॒ग॒राः। स्थ॒। सग॑रेण। नाम्ना॑ रौद्रे॑ण। अनी॑केन। पा॒त। मा॒। अ॒ग्न॒यः॒। पि॒पृ॒त। मा॒। अग्न॑यः। गो॒पा॒यत॑ मा॒। नमः॑। वः॒। अ॒स्तु॒। मा। मा॒। हिं॒सि॒ष्ट॒ ॥३४॥
स्वर रहित मन्त्र
मित्रस्य मा चक्षुषेक्षध्वमग्नयः सगराः सगरा स्थ सगरेण नाम्ना रौद्रेणानीकेन पात माग्नयः पिपृत माग्नयो गोपायत मा नमो वोस्तु मा मा हिँसिष्ट ॥
स्वर रहित पद पाठ
मित्रस्य। मा। चक्षुषा। ईक्षध्वम्। अग्नयः। सगराः। स्थ। सगरेण। नाम्ना रौद्रेण। अनीकेन। पात। मा। अग्नयः। पिपृत। मा। अग्नयः। गोपायत मा। नमः। वः। अस्तु। मा। मा। हिंसिष्ट॥३४॥
विषयः - पुनर्विद्वांसः कीदृशाः सन्तीत्युपदिश्यते।।
सपदार्थान्वयः - हे विद्वांसः ! सगराः सगरो=ऽन्तरिक्षभवकाशो येषां ते, अग्नयः नेतरो=नयन्ति श्रेष्ठान् पदार्थान्यूयं [मा]=मां मित्रस्य सुहृदः चक्षुषा दृष्ट्या ईक्षध्वं सम्प्रेक्षध्वंयूयं सगराः सगरो=ऽन्तरिक्ष विद्योपदेशावकाशो येषां ते स्थ भवत। हे अग्नयः! ज्ञानवन्तः ! सगरेण अन्तरिक्षेण सह रौद्रेण शत्रु रोदयितृणामिदं तेन नाम्ना प्रसिद्ध्याअनीकेन सैन्येन [मा]=मां पात रक्षत, [पिपृत] विद्यादिगुणैः पूर्णान् कुरुत [हे अग्नयः!] सभाध्यक्षादयः [मा]=मां गोपायत पालयत, [मा]=मां मा हिंसिष्ट। एतदर्थं वः=युष्मभ्यं नमः नमस्कारः अस्तु भवतु ।। ५ । ३४ ।। = परिपूर्ण विद्वानो [मा [हे अग्नयः!...... [मा]=मां पात, [पिपृत], एतदर्थं वः=युष्मभ्यं नमोऽस्तु]
पदार्थः -
(मित्रस्य) सुहृदः (मा) माम् (चक्षुषा) दृष्ट्या (ईक्षध्वम्) सप्रेक्षध्वम् (अग्नयः) नेतारो=नयन्ति श्रेष्ठान् पदार्थान् (सगराः) सगरोऽन्तरिक्षमवकाशो येषान्ते। अर्शआदित्वादच् (सगरा:) सगरोतरिक्षं विद्योपदेशावकाशो येषां ते (स्थ) भवत (सगरेण) अन्तरिक्षेण सह (नाम्ना) प्रसिद्ध्या (रौद्रेण) शत्रुरोदयितृणामिदं तेन (अनीकेन) सैन्येन (पात) रक्षत (मा) माम् (अग्नयः) ज्ञानवन्तः (पिपृत) विद्यागुणैः पूर्णान् कुरुत (मा) माम् (अग्नयः) सभाध्यक्षादयः (गोपायत) पालयत (मा) माम् (नमः) नमस्कारः (व:) युष्मभ्यम् (अस्तु) भवतु (मा) निषेधे (मा) माम् (हिंसिष्ट)॥ ३४ ।।
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः॥ यथा विद्यादानेन विद्वांसः सर्वान् मनुष्यान् सुखयन्ति, तथैतान् कार्येषु विद्ययोपयुक्ताः सन्तोऽध्येतारोऽपि सुखयन्तु ।। ५ । ३४ ।।
विशेषः - मधुच्छन्दाः। अग्निः=विद्वान्॥ स्वराड्ब्राह्मी बृहती। मध्यमः॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal