Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 5/ मन्त्र 31
    ऋषिः - मधुच्छन्दा ऋषिः देवता - अग्निर्देवता छन्दः - विराट् आर्षी अनुष्टुप्, स्वरः - गान्धारः
    3

    वि॒भूर॑सि प्र॒वाह॑णो॒ वह्नि॑रसि हव्य॒वाह॑नः। श्वा॒त्रोऽसि प्रचे॑तास्तु॒थोऽसि वि॒श्ववे॑दाः॥३१॥

    स्वर सहित पद पाठ

    वि॒भूरिति॒ वि॒ऽभूः। अ॒सि॒। प्रवा॒ह॑णः। प्रवा॒ह॑न॒ इति॑ प्र॒ऽवाह॑नः। वह्निः॑। अ॒सि॒। ह॒व्य॒वाह॑न॒ इति॑ हव्य॒ऽवाह॑नः। श्वा॒त्रः। अ॒सि॒। प्रचे॑ता॒ इति॒ प्रऽचे॑ताः। तु॒थः। अ॒सि॒। वि॒श्ववे॑दा॒ इति॑ वि॒श्वऽवे॑दाः ॥३१॥


    स्वर रहित मन्त्र

    विभूरसि प्रवाहणो वह्निरसि हव्यवाहनः श्वात्रो सि प्रचेतास्तुथोसि विश्ववेदाः ॥


    स्वर रहित पद पाठ

    विभूरिति विऽभूः। असि। प्रवाहणः। प्रवाहन इति प्रऽवाहनः। वह्निः। असि। हव्यवाहन इति हव्यऽवाहनः। श्वात्रः। असि। प्रचेता इति प्रऽचेताः। तुथः। असि। विश्ववेदा इति विश्वऽवेदाः॥३१॥

    यजुर्वेद - अध्याय » 5; मन्त्र » 31
    Acknowledgment

    सपदार्थान्वयः - हे जगदीश्वर ! यस्मात्त्वं यथाssकाशस्तथा विभूः यथा व्यापक आकाशः, असि, यथा वायुस्तथा प्रवाहणः यथा वायुस्तथा, असि, यथा वह्निः वोढा तथा हव्यवाहनः यथाऽग्निर्हव्यानि वहति तथा असि, यथा प्राणस्तथा प्रचेताः यथा प्राणः प्रचेतयति तथा श्वात्रः ज्ञानवान् असि, यथा सूत्रात्मा पवनस्तथा विश्ववेदाः यथा सूत्रात्मा पवनस्तथा तुथः ज्ञानवर्धकः चासि, तस्मात् सत्कर्त्तव्योऽसीति वयं विजानीमः।। [विद्वान्] हे विद्वान् ! यस्मात्त्वं यथा वैभवयुक्तो राजा तथा विभूः यथा वैभवयुक्तो राजा, असि, यथा महानदस्तथा प्रवाहणः यथा महानदस्तथा असि यथा वह्निः वोढा तथा हव्यवाहनः यथाऽग्निर्हव्यानि वहति तथा असि, यथा प्राणस्तथा प्रचेताः यथाप्राणः प्रचेतयति तथा श्वात्रः ज्ञानवान् असि, यथा सूत्रात्मा पवनस्तथा विश्ववेदाः यथा सूत्रात्मा पवनस्तथा तुथः ज्ञानवर्धकः चासि, तस्मात् सत्कर्त्तव्योऽसीति वयं विजानीमः ।। ५ । ३१ ।। [हे जगदीश्वर वा विद्वन्! यस्मात्त्वं यथाऽऽकाशो वैभवयुक्तो राजा वा तथा विभूरसि......तस्मात्सत्कर्त्तव्योऽसीति वयं विजानीम:]

    पदार्थः -
    (विभूः) यथा व्यापक आकाशो वैभवयुक्तो राजा वा (असि) (प्रवाहणः) यथा वायुर्महानदो वा तथा (वह्निः) वोढा (असि) (हव्यवाहनः) यथाऽग्निर्हव्यानि वहति तथा (श्वात्रः) ज्ञानवान्। श्वात्रतीति गतिकर्मसु पठति ॥ निघं० २। २४॥ (असि) (प्रचेताः) यथा प्राणः प्रचेतयति तथा (तुथः) ज्ञानवर्धकः (असि) ( विश्ववेदाः) यथा सूत्रात्मा पवनस्तथा ॥ अयं मन्त्रः शत० ३।६।१। २५-२६ व्याख्यातः ॥ ३१॥ [ईश्वरः]

    भावार्थः - अत्र श्लेषोपमालङ्कारौ॥ न सर्वैर्मनुष्यैरीश्वरविदुषोः सत्कार: कदापि त्यक्तव्यो, नैतयोः प्राप्त्या विना कस्यचिद् विद्यासुखलाभो भवितुमर्हति, तस्मात्तौ सर्वथा वेद्यौस्तः ।। ५ । ३१ ॥

    विशेषः - मधुच्छन्दाः। अग्नि:=ईश्वरो विद्वाँश्च॥ विराडार्ष्यनुष्टुप्। गान्धारः ॥

    इस भाष्य को एडिट करें
    Top