Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 5/ मन्त्र 29
    ऋषिः - औतथ्यो दीर्घतमा ऋषिः देवता - ईश्वरसभाध्यक्षौ देवते छन्दः - अनुष्टुप् स्वरः - गान्धारः
    3

    परि॑ त्वा गिर्वणो॒ गिर॑ऽइ॒मा भ॑वन्तु वि॒श्वतः॑। वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑यः॥२९॥

    स्वर सहित पद पाठ

    परि॑। त्वा। गि॒र्व॒णः॒। गिरः॑। इ॒माः। भ॒व॒न्तु॒। वि॒श्वतः॑। वृ॒द्धायु॒मिति॑ वृ॒द्धऽआ॑युम्। अनु॑। वृद्ध॑यः। जुष्टाः॑। भ॒व॒न्तु॒। जुष्ट॑यः ॥२९॥


    स्वर रहित मन्त्र

    परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः । वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥


    स्वर रहित पद पाठ

    परि। त्वा। गिर्वणः। गिरः। इमाः। भवन्तु। विश्वतः। वृद्धायुमिति वृद्धऽआयुम्। अनु। वृद्धयः। जुष्टाः। भवन्तु। जुष्टयः॥२९॥

    यजुर्वेद - अध्याय » 5; मन्त्र » 29
    Acknowledgment

    सपदार्थान्वयः - हे [गिर्वणः]=गिर्वण=ईश्वर सभाध्यक्ष! गीर्भिः स्तोतुमर्ह। इमा मत्कृता विश्वतः सर्वाः गिरः स्तुतिवाचः [त्वा]=त्वां परि=परितः सर्वतः भवन्तु। न तत्क्षण एव किन्तु वृद्धायुं वृद्ध इव आचरन्तं त्वामनु पश्चात् वृद्धयः वृध्यन्ते यास्ताः जुष्टयः जुष्यन्ते=प्रीयन्ते यास्ता: जुष्टाः प्रीताः सेविता वा च भवन्तु ।। ५ । २९।। [हे [गिर्वणः]=गिर्वणः! =ईश्वर! सभाध्यक्ष! इमाः=मत्कृता विश्वतो गिरः [त्वा]=त्वां परि=परितो भवन्तु]

    पदार्थः -
    (परि) सर्वतः (त्वा) त्वाम् (गिर्वणः) गीर्भिः स्तोतुमर्ह (गिरः) स्तुतिवाचः (इमाः) मत्कृता: (भवन्तु) (विश्वतः) सर्वा:। अत्र प्रथमान्तात्तसि: (वृद्धायुम्) वृद्ध इव आचरन्तम्। क्याच्छन्दसीत्युः (अनु) पश्चाद्भावे (वृद्धयः) वृद्ध्यन्ते यास्ता: (जुष्टाः) प्रीताः, सेविता वा (भवन्तु) (जुष्टयः) जुष्यन्ते=प्रीयन्ते यास्ताः॥ अयं मन्त्रः शत० ३। ६। १। २४ व्याख्यातः॥ २९॥

    भावार्थः - अत्र श्लेषालङ्कारः॥ हे मनुष्या! यथाऽखिलैः शुभगुणकर्मभिः सह वर्त्तमानो जगदीश्वरः सभापतिर्वा स्तोतुमर्होऽस्ति, तथैव युष्माभिरपि भवितव्यम् ।। ५ । २९।।

    विशेषः - औतथ्यो दीर्घतमाः । ईश्वरसभाध्यक्षौ=ईश्वरः सभाध्यक्षश्च॥ अनुष्टुप्। गान्धारः ॥

    इस भाष्य को एडिट करें
    Top