Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 5/ मन्त्र 9
    ऋषिः - गोतम ऋषिः देवता - अग्निर्देवता छन्दः - भूरिक् आर्षी गायत्री,भूरिक् ब्राह्मी बृहती,निचृत् ब्राह्मी जगती,याजुषी अनुष्टुप् स्वरः - षड्जः, निषादः
    3

    त॒प्ताय॑नी मेऽसि वि॒त्ताय॑नी मे॒ऽस्यव॑तान्मा नाथि॒तादव॑तान्मा व्यथि॒तात्। वि॒देद॒ग्निर्नभो॒ नामाग्ने॑ऽअङ्गिर॒आयु॑ना॒ नाम्नेहि॒ योऽस्यां पृ॑थि॒व्यामसि॒ यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॒धे वि॒देद॒ग्निर्नभो॒ नामाग्ने॑ऽअङ्गिर॒ऽआयु॑ना॒ नाम्नेहि॒ यो द्वि॒तीय॑स्यां पृथि॒व्यामसि॒ यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे वि॒देद॒ग्निर्नभो॒ नामाग्ने॑ऽअङ्गिर॒ऽआयु॑ना॒ नाम्नेहि॒ यस्तृ॒तीय॑स्यां पृथि॒व्यामसि॒ यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे। अनु॑ त्वा दे॒ववी॑तये॥९॥

    स्वर सहित पद पाठ

    त॒प्ताय॒नीति॑ तप्त॒ऽअय॑नी। मे॒। अ॒सि॒। वि॒त्ताय॒नीति॑ वित्त॒ऽअय॑नी। मे॒। अ॒सि॒। अव॑तात्। मा॒। ना॒थि॒तात्। अव॑तात्। मा॒। व्य॒थि॒तात्। वि॒देत्। अ॒ग्निः। नभः॑। नाम॑। अग्ने॑। अ॒ङ्गि॒रः॒। आयु॑ना। नाम्ना॑। आ। इ॒हि॒। यः। अ॒स्याम्। पृ॒थि॒व्याम्। असि॑। यत्। ते॒। अना॑धृष्टम्। नाम॑। य॒ज्ञिय॑म्। तेन॑। त्वा॒। आ। द॒धे॒। वि॒देत्। अ॒ग्निः। नमः॑। नामः॑। अग्ने॑। अ॒ङ्गि॒रः॒। आयु॑ना। नाम्ना॑। आ। इ॒हि॒। यः। द्वि॒तीय॑स्याम्। पृ॒थि॒व्याम्। असि॑। यत्। ते। अना॑धृष्टम्। नाम॑। य॒ज्ञिय॑म्। तेन॑। त्वा॒। आ। द॒धे॒। वि॒देत्। अ॒ग्निः। नभः॑। नाम॑। अग्ने॑। अ॒ङ्गि॒रः॒। आयु॑ना। नाम्ना॑। आ। इ॒हि॒। यः। तृ॒तीय॑स्याम्। पृ॒थि॒व्याम्। असि॑। यत्। ते॒। अना॑धृष्टम्। नाम॑। य॒ज्ञिय॑म्। तेन॑। त्वा॒। आ। द॒धे॒। अनु॑। त्वा॒। दे॒ववी॑तय॒ इति॑ दे॒वऽवी॑तये ॥९॥


    स्वर रहित मन्त्र

    तप्तायनी मेसि वित्तायनी मेस्यवतान्मा नाथितादवतान्मा व्यथितात् । विदेदग्निर्नभो नामऽअग्ने अङ्गिर आयुना नाम्नेहि यो स्याम्पृथिव्यामसि यत्ते नाधृष्टं नाम यज्ञियंन्तेन त्वा दधे विदेदग्निर्नभो नामाग्नेऽअङ्गिर आयुना नाम्नेहि यो द्वितीयस्यां पृथिव्यामसि यत्ते नाधृष्टन्नाम यज्ञियन्तेन त्वा दधे विदेदग्निर्नभो नामग्ने अङ्गिर आयुना नाम्नेहि यस्तृतीयस्याम्पृथिव्यामसि यत्ते नाधृष्टन्नाम यज्ञियन्तेन त्वा दधे । अनु त्वा देववीतये ॥


    स्वर रहित पद पाठ

    तप्तायनीति तप्तऽअयनी। मे। असि। वित्तायनीति वित्तऽअयनी। मे। असि। अवतात्। मा। नाथितात्। अवतात्। मा। व्यथितात्। विदेत्। अग्निः। नभः। नाम। अग्ने। अङ्गिरः। आयुना। नाम्ना। आ। इहि। यः। अस्याम्। पृथिव्याम्। असि। यत्। ते। अनाधृष्टम्। नाम। यज्ञियम्। तेन। त्वा। आ। दधे। विदेत्। अग्निः। नमः। नामः। अग्ने। अङ्गिरः। आयुना। नाम्ना। आ। इहि। यः। द्वितीयस्याम्। पृथिव्याम्। असि। यत्। ते। अनाधृष्टम्। नाम। यज्ञियम्। तेन। त्वा। आ। दधे। विदेत्। अग्निः। नभः। नाम। अग्ने। अङ्गिरः। आयुना। नाम्ना। आ। इहि। यः। तृतीयस्याम्। पृथिव्याम्। असि। यत्। ते। अनाधृष्टम्। नाम। यज्ञियम्। तेन। त्वा। आ। दधे। अनु। त्वा। देववीतय इति देवऽवीतये॥९॥

    यजुर्वेद - अध्याय » 5; मन्त्र » 9
    Acknowledgment

    सपदार्थान्वयः - हे विद्यां जिघृक्षो! यथाहं तेन यद्=या तप्तायनी तप्तानि=स्थापनीयानि वस्तून्ययनं यस्या विद्युतः सा असि= अस्ति, वित्तायनी=विद्युत् या वित्तानां=भोगानां प्रतीतानां पदार्थानामयनी=प्राथिका सा असि=अस्ति, त्वा=तां वेद्मि तथा त्वमेतेनैतद्विद्यां मे=मम सकाशादेहि=प्राप्नुहि। यथाऽयं सुसेवितः अग्निः सविता प्रसिद्ध नभो=जलं प्रकाशं वा प्रयच्छन् मा=मां व्यथितात् भयात्संचलनात् अवतात् रक्षति, नाथितात् ऐश्वर्यात् चावतात् रक्षति, तथा त्वया सेवितः संस्त्वामपि रक्षेत्। [जाठराग्निः] यथाऽहं योऽग्ने जाठरस्थः अङ्गिरः अङ्गानां रसः अग्निः भौतिक: आयुना जीवनेन प्रापकत्वेन वानाम्ना प्रसिद्ध्या अस्यां प्रत्यक्षायां पृथिव्यां भूमौ नाम=प्रसिद्धोऽस्ति त्वा=तां देववीतये देवानां=दिव्यानां गणानां भोगानां वा प्राप्तये विजानामि,तथैतेनैनं त्वमपि मे=मम सकाशादेहि=संजानीहि प्राप्नुहि । [यज्ञियाग्निः] यथाऽहं तेन नाम्ना प्रसिद्ध्यायत् यादृशम् अनाधृष्टम् यत्समन्तान्न धृष्यते तत्तेजः यज्ञियम् यज्ञाङ्गसमूहनिष्पादकंनाम प्रसिद्धं तेज आदधे अभितो धरामि, तथा तेन त्वा=तं त्वमेतेनैनमस्मानन्वेहि अनुकूलं प्राप्नुहि सर्वो जनश्चानुविदेत् अनुकूलतया विजानीयात्। [प्रसिद्धाग्निः] यथाऽहं तेन तं योऽग्निः द्वितीयस्याम् अस्यां भिन्नायां पृथिव्यां विस्तृतायां भूमौ अग्ने प्रसिद्धोऽग्निः अङ्गिरः अङ्गारस्थः आयुना जीवनेन प्रापकत्वेन वानाम्ना प्रसिद्ध्या नाम प्रसिद्धम् असि=वर्त्तते, योऽग्निःनभः=सुखं अवकाशम् प्रयच्छति तेन त्वा=तं संप्रयोजयामि, तथैतेन त्वा=एनं त्वमेहि प्राप्नुहि, सर्वो जनश्चानुविदेत् अनुकूलेन प्राप्नुयात्। यथाऽहं तेन यत्=येन अनाधृष्टं प्रौढ़ंयज्ञियं शिल्पविद्या यज्ञसम्बन्धि नाम प्रसिद्धं तेजोऽस्मै त्वा तम् आदधेअभितः स्वीकरोमि तथात्वमेतेन नाम्ना प्रसिद्ध्यात्वमेहि प्राप्तुहि, सर्वो जनश्चनुविदेत् प्राप्नुयात् । [सूर्याग्निः] यथाऽहं तेन योऽग्निः सूर्यस्थ: आयुना जीवनेन प्रापकत्वेन वा नाम्ना प्रसिद्धया तृतीयस्यां तृतीयकक्षायां वर्तमानायां पृथिव्यां भूमौ अग्नेः सूर्यरूपः अङ्गिरः अञ्चिता सूर्यरूपेण नाम प्रसिद्धम् असि=वर्तते, यः अग्निः नभोsवकाशं द्योतयति त्वा=-तं जानामि, तथैनमेतस्मै त्वमेहि प्राप्नुहि सर्वो जनोऽपि विदेत् प्राप्नुयात् ॥ ५।९॥ [यो......अग्निः........अस्यां पृथिव्यां नाम=प्रसिद्धोऽस्ति, योऽग्निर्द्वितीयस्यां पृथिव्यां........असि= वर्तते, योऽग्निः......तृतीयस्यां पृथिव्यां.........सूर्यरूपेण नामासि=वर्तते......त्वां=तं जानामि, तथैनमेतस्मै त्वमेहि, सर्वोजनोऽपि विदेत्]

    पदार्थः -
    (तप्तायनी) तप्तानि=स्थापनीयानि वस्तून्ययनं यस्या विद्युतः सा (मे) मम (असि) भवति। अत्र सर्वत्र व्यत्ययः (वित्तायनी) या वित्तानां=भोगानां प्रतीतानां पदार्थानामयनी=प्रापिका सा। वित्तो भोगप्रत्यययोः ॥ अ०। ८। २। ५८॥अनेन वित्तशब्दः प्रतीतार्थे भोगार्थे च निपातितः (मे) मम (असि) अस्ति (अवतात्) रक्षति। अत्र सर्वत्र लडर्थे लोट् (मा) माम् (नाथितात्) ऐश्वर्यात् (अवतात्) रक्षति (मा) माम् (व्यथितात्) भयात्संचलनात् (विदेत्) विजानीयात् (अग्निः) प्रसिद्धः (नभः) जलं प्रकाशं वा । नभ इति जलनामसु पठितम् ॥ निघं० १। १२ ॥ साधारणनामसु च ॥ निघं० १ । ४ ॥ (नाम) प्रसिद्धम् (अग्ने) जाठरस्थ: (अङ्गानां रसः) (आयुना) जीवनेन प्रापकत्वेन वा (नाम्ना) प्रसिद्ध्या (आ) समन्तात् (इहि) एति (यः) अग्नि: (अस्याम्) प्रत्यक्षायाम् (पृथिव्याम्) भूमौ (असि) वर्त्तते (यत्) यादृशम् (ते) अस्य (अनाधृष्टम्) यत्समन्तान्न धृष्यते तत्तेजः (नाम) प्रसिद्धम् (यज्ञियम्) यज्ञाङ्गसमूहनिष्पादकम् (तेन) पूर्वोक्तेन (त्वा) तम् (आ) अभितः (दधे) धरामि (विदेत्) प्राप्नुयात् (अग्निः) भौतिकः (नभः) अन्तरिक्षस्थं जलम् (नाम) प्रसिद्धम् (अग्ने) प्रसिद्धोऽग्निः (अङ्गिरः) अङ्गारस्थ: (आयुना) प्रापकत्वेन (नाम्ना) प्रसिद्ध्या (आ) अभितः (इहि) प्राप्नुहि (यः) (द्वितीयस्याम्) अस्यां भिन्नायाम् (पृथिव्याम्) विस्तृतायां भूमौ (असि) अस्ति (यत्) येन (ते) (अनाधृष्टम्) प्रगल्भगुणसहितम् (नाम) प्रसिद्धम् (यज्ञियम्) यज्ञसम्बन्धी (तेन) (त्वा) तम् (आ) अभितः (दधे) धरामि (विदेत्) प्राप्नुयात् (अग्निः) सूर्यस्थ: (नभः) अवकाशम् (नाम) प्रसिद्धम् (अग्ने) सूर्य्यरूपः (अङ्गिरः) अञ्चिता (आयुना) (नाम्ना) (आ) (इहि) उक्तार्थेषु (यः) अग्निः (तृतीयस्याम्) तृतीयकक्षायां वर्तमानायाम् (पृथिव्याम्) भूमौ (असि) वर्त्तते (यत्) येन (ते) (अनाधृष्टम्) प्रौढम् (नाम) प्रसिद्धम् (यज्ञियम्) शिल्पविद्यायज्ञसम्बन्धी (तेन) (त्वा) तम् (आ) अभितः (दधे) स्वीकरोमि (अनु) आनुकूल्ये (त्वा) तम् (देववीतये) देवानां=दिव्यानां गुणानां भोगानां वा प्राप्तये ॥ अयं मंत्रः शत० ३। ५। १ । २७-३२व्याख्यातः ॥ ९॥ [विद्युत्]

    भावार्थः - अत्र वाचकलुप्तोमालङ्कारः ॥ यः प्रसिद्धसूर्यविद्युद्रूपेण त्रिविधोऽग्निः सर्वेषु लोकेषु बाह्याभ्यन्तरतो वर्तते तं विदित्वा विज्ञाप्य च सर्वैर्मनुष्यैः सर्वकार्यसिद्धिः सम्पादनीया ।।५। ९।।

    विशेषः - गोतमः। अग्निः=प्रसिद्धसूर्याविद्युद्रूपः॥ प्रथमस्य भुरिगार्षी गायत्री।षड्ज:। विदेदग्निरित्यस्य भुरिग्ब्राह्मी बृहती। मध्यमः॥ नाम्नेहीत्यस्य निचृद्ब्राह्मी जगती। निषाद:। अनुत्वेत्यस्य याजुष्यनुष्टुप्। गान्धारः॥

    इस भाष्य को एडिट करें
    Top