Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 4/ मन्त्र 13
    ऋषिः - आङ्गिरस ऋषयः देवता - आपो देवता छन्दः - भूरिक् आर्षी बृहती, स्वरः - मध्यमः
    3

    इ॒यं ते॑ य॒ज्ञिया॑ त॒नूर॒पो मु॑ञ्चामि॒ न प्र॒जाम्। अ॒ꣳहो॒मुचः॒ स्वाहा॑कृताः पृथि॒वीमावि॑शत पृथि॒व्या सम्भ॑व॥१३॥

    स्वर सहित पद पाठ

    इ॒यम्। ते॒। य॒ज्ञिया॑। त॒नूः। अ॒पः। मु॒ञ्चा॒मि॒। न। प्र॒जामिति॑ प्र॒ऽजाम्। अ॒ꣳहो॒मुच॒ इत्य॑ꣳह॒ऽमुचः॑। स्वाहा॑कृता॒ इति॒ स्वाहा॑ऽकृताः। पृ॒थि॒वीम्। आ। वि॒श॒त॒। पृ॒थि॒व्या। सम्। भ॒व॒ ॥१३॥


    स्वर रहित मन्त्र

    इयन्ते यज्ञिया तनूरपो मुञ्चामि न प्रजाम् । अँहोमुचः स्वाहाकृताः पृथिवीमाविशत । पृथिव्या सम्भव ॥


    स्वर रहित पद पाठ

    इयम्। ते। यज्ञिया। तनूः। अपः। मुञ्चामि। न। प्रजामिति प्रऽजाम्। अꣳहोमुच इत्यꣳहऽमुचः। स्वाहाकृता इति स्वाहाऽकृताः। पृथिवीम्। आ। विशत। पृथिव्या। सम्। भव॥१३॥

    यजुर्वेद - अध्याय » 4; मन्त्र » 13
    Acknowledgment

    सपदार्थान्वयः - हे विद्वन् ! यथा ते=तव येयं वक्ष्यमाणा यज्ञिया या यज्ञमर्हति सा तनूः शरीरम् अपः= प्राणान् सुसंस्कृतानि जलानि प्रजां=पालनीयां या प्रजायते तां न त्यजति, त्वं नमुञ्चसि । यथैवाहमेता ईदृशं स्वशरीरं च न मुञ्चामि=न परित्यजामि न प्रक्षिपामि, यथा यूयं पृथिव्या भूम्या सहसम्भवतांहोमुचः दुःख मोचयित्र्य: स्वाहाकृताः याः क्रियया सुसंस्कृताः क्रियन्ते ताः अपः सुसंस्कृतानिजलानि पृथिवीं भूमिंच आविशत=विज्ञानेन समन्तात् प्रवेशं कुरुत, अहं च सम्भवामि=आविशामि तथा त्वमपि सम्भव=आविश सम्यक् सम्पद्यस्व च ।। ४ । १३ ।। [इयं यज्ञिया तनूरपः=प्राणान्प्रजां=पालनीयां न त्यजति]

    पदार्थः -
    (इयम्) वक्ष्यमाणा (ते) तव (यज्ञिया) या यज्ञमर्हति सा (तनूः) शरीरम् (अपः) सुसंस्कृतानि जलानि (मुञ्चामि) प्रक्षिपामि (न) निषेधार्थे (प्रजाम्) या प्रजायते ताम् (अंहोमुचः) दुःखमोचयित्र्य: (स्वाहाकृताः) याः क्रियया सुसंस्कृताः क्रियन्ते ताः (पृथिवीम्) भूमिम् (आ) समन्तात् (विशत) प्रवेशं कुरुत (पृथिव्या) भूम्या सह (सम्) सम्यगर्थे (भव) संपद्यस्व ॥ अयं मंत्रः श० ३।२।२। २०-२१ व्याख्यातः ।। १३ ।।

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः॥ सर्वैर्मनुष्यैर्विद्यया परस्परं पदार्थान् मेलयित्वा, सेवित्वा, रोगरहितं शरीरमात्मानं च पालयित्वा सुखयितव्यम् ।। ४ । १३ ।।

    विशेषः - अङ्गिरसः । आपः=जलानि॥ भुरिगार्षी बृहती। मध्यमः॥

    इस भाष्य को एडिट करें
    Top