Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 4/ मन्त्र 3
    ऋषिः - प्रजापतिर्ऋषिः देवता - मेघो देवता छन्दः - स्वराट् अनुष्टुप्, स्वरः - धैवतः
    3

    म॒हीनां॒ पयो॑ऽसि वर्चो॒दाऽअ॑सि॒ वर्चो॑ मे देहि। वृ॒त्रस्या॑सि क॒नीन॑कश्चक्षु॒र्दाऽअ॑सि॒ चक्षु॑र्मे देहि॥३॥

    स्वर सहित पद पाठ

    म॒हीनाम्। पयः॑। अ॒सि॒। व॒र्चो॒दा इति॑ वर्चः॒ऽदाः। अ॒सि॒। वर्चः॑। मे॒। दे॒हि॒। वृ॒त्रस्य॑। अ॒सि॒। क॒नीन॑कः। च॒क्षु॒र्दा इति॑ चक्षुः॒दाः। अ॒सि॒। चक्षुः॑। मे॒। दे॒हि॒ ॥३॥


    स्वर रहित मन्त्र

    महीनांम्पयोसि वर्चादा असि वर्चा मे देहि वृत्रस्यासि कनीनकश्चक्षुर्दा असि चक्षुर्मे देहि ॥


    स्वर रहित पद पाठ

    महीनाम्। पयः। असि। वर्चोदा इति वर्चःऽदाः। असि। वर्चः। मे। देहि। वृत्रस्य। असि। कनीनकः। चक्षुर्दा इति चक्षुःदाः। असि। चक्षुः। मे। देहि॥३॥

    यजुर्वेद - अध्याय » 4; मन्त्र » 3
    Acknowledgment

    सपदार्थान्वयः - यो महीनां पृथिवीनां पयः रसनिमित्तम् असि=अस्ति, वर्चोदा:दीप्तिं ददातीति, असि=अस्ति, यो मे=मह्यं वर्चः प्रकाशं [देहि]=ददाति, वृत्रस्य मेघस्य कनीनकः यः कनति=दीपयति इति स एव कनीनक: [असि]=अस्ति, चक्षुर्दा: चष्टेऽनेन तद् ददातीति, [असि]=अस्ति स सूर्यो मे=मह्यं चक्षुः नेत्रव्यवहारं[देहि]=ददाति॥ ४ । ३॥ [यो.......वृत्रस्य कनीनकः [असि]=अस्ति, चक्षुर्दा: [असि]=अस्ति, स सूर्यो मे=मह्यं चक्षुः [देहि ]=ददाति]

    पदार्थः -
    (महीनाम्) पृथिवीनाम् । महीति पृथिवीनामसु पठितम् ॥ निघं० १ ।१ ॥ (पयः) रसनिमित्तम् (असि) अस्ति । अत्र सर्वत्र व्यत्ययः (वर्चोदाः) दीप्तिं ददातीति (असि) अस्ति (वर्चः) प्रकाशम् (मे) मह्यम् (देहि) ददाति (वृत्रस्य) मेघस्य (असि) अस्ति (कनीनकः) यः कनति=दीपयतीति स एव कनीनकः। अत्र कनीधातोर्बाहुलकादौणादिक ईनप्रत्ययस्ततः स्वार्थे कन् (चक्षुर्दा:) चष्टेऽनेन तद्ददातीति (असि) अस्ति (चक्षुः) नेत्रव्यवहारम् (मे) मह्यम् ( देहि) ददाति ॥ अयं मंत्र श० ३ ।१ ।३। ९-१५ व्याख्यातः॥ ३॥

    भावार्थः - मनुष्यैः--नहि सूर्यस्य प्रकाशेन विना वृष्ट्युत्पत्तिश्चक्षुर्व्यवहारश्च सिध्यति, येनायं सूर्यो निर्मितस्तस्मा ईश्वराय कोटिशो धन्यवादादेया इति वेद्यम् ॥ ४ । ३ ।।

    भावार्थ पदार्थः - वृत्रस्य कनीनकः=वृष्ट्युत्पादकः। चक्षुर्दाः=चक्षुर्व्यवहारसाधकः ।।

    इस भाष्य को एडिट करें
    Top