Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 4/ मन्त्र 23
    ऋषिः - वत्स ऋषिः देवता - वाग्विद्युतौ देवते छन्दः - आस्तार पङ्क्ति, स्वरः - पञ्चमः
    5

    सम॑ख्ये दे॒व्या धि॒या सं दक्षि॑णयो॒रुच॑क्ष॒सा। मा म॒ऽआयुः॒ प्रमो॑षी॒र्मोऽअ॒हं तव॑ वी॒रं वि॑देय॒ तव॑ देवि स॒न्दृशि॑॥२३॥

    स्वर सहित पद पाठ

    सम्। अ॒ख्ये॒। दे॒व्या। धि॒या। सम्। दक्षि॑णया। उ॒रुच॑क्ष॒सेत्यु॒रुऽच॑क्षसा। मा। मे॒। आयुः॑। प्र। मो॒षीः॒। मोऽइति॒ मो। अ॒हम्। तव॑। वी॒रम्। वि॒दे॒य॒। तव॑। देवि॒। संदृशीति॑ स॒म्ऽदृशि॑ ॥२३॥


    स्वर रहित मन्त्र

    समख्ये देव्या धिया सन्दक्षिणयोरुचक्षसा मा म आयुः प्र मोषीर्मा अहन्तव वीरँविदेय तव देवि सन्दृशि ॥


    स्वर रहित पद पाठ

    सम्। अख्ये। देव्या। धिया। सम्। दक्षिणया। उरुचक्षसेत्युरुऽचक्षसा। मा। मे। आयुः। प्र। मोषीः। मोऽइति मो। अहम्। तव। वीरम्। विदेय। तव। देवि। संदृशीति सम्ऽदृशि॥२३॥

    यजुर्वेद - अध्याय » 4; मन्त्र » 23
    Acknowledgment

    सपदार्थान्वयः - हे विद्वन् मनुष्य! यथाऽहं सर्वप्रियं प्रेप्सुः दक्षिणया ज्ञानसाधिकयाज्ञाननाशिकया च उरुचक्षसा उरु=बहु चक्षो=व्यक्तं वचनं दर्शनं वा यस्यास्तया देव्या देदीप्यमानया धिया प्रज्ञया कर्मणा वा तव तस्याः देवि=तस्या दिव्यगुणैर्विराजमानाया वाचो विद्युतो वा, संदृशि समीचीनं दृग्=दर्शनं यस्मिन् व्यवहारे तस्मिन् जीवनं समख्ये सम्यक् प्रकथयामि, सा मे=मम आयुः जीवनं मा प्रमोषीः=खण्डनं न कुर्यात् न मुष्णीयात्=खण्डयेत्, अहं सर्वप्रियं प्रेप्सुः एतां समख्ये=प्रख्यातां कुर्य्यामन्यायेन तव सर्वसुहृदः वीरं विक्रान्तं जनं मो=मा संविदेय अन्यायेन एकीभूय न विन्देय तथैव त्वमेतत् सर्वमाचर्य्यान्यायेनापि मम वीरं विक्रान्तं जनं च [मो विदेय]=मा संविन्दस्व ॥ ४ । १३ ।। [अहं.......देव्या धिया तव देवि=तस्या दिव्यगुणैर्विराजमानाया वाचो विद्युतो वा संदृशि जीवनं समख्ये.....वीरं मो=मा संविदेय]

    पदार्थः -
    (सम्) सम्यगर्थे (अख्ये) प्रकथयामि । अत्र व्यत्ययेनात्मनेपदं लडर्थे लुङ् च (देव्या) देदीप्यमानया (धिया) प्रज्ञया कर्मणा वा (सम्) एकीभावे (दक्षिणया) ज्ञानसाधिकयाऽज्ञाननाशिकया च (उरुचक्षसा) उरु=बहु चक्षो=व्यक्तं वचनं दर्शनं वा यस्यास्तया (मा) निषेधे (मे) मम (आयुः) जीवनम् (प्र) क्रियायोगे (मोषी:) मुष्णीयात्खण्डयेत् । अत्र लिङर्थे लुङ् (मो) निवारणे (अहम्) सर्वप्रियं प्रेप्सुः (तव) सर्वसुहृदः (वीरम्) विक्रान्तं जनम् (विदेय) अन्यायेन विन्देय। अत्र वा छन्दसि सर्वे विधयो भवन्तीति नुमभावः। अत्रावैयाकरणेन महीधरेण भ्रान्त्या विद्लृलाभ इत्यस्य व्यत्ययेन तुदादिभ्यः शप्रत्ययेन लिङि रूपमित्यशुद्धं व्याख्यातम् । कुतः? विद्लृ धातो: स्वत एव तुदादित्वं वर्त्तते (तव) तस्याः (देवि) दिव्यगुणैर्विराजमानायाः। अत्रार्थाद्विभक्तेर्विपरिणाम इति विभक्तेर्विपरिणाम: (संदृशि) समीचीनं दृग्दर्शनं यस्मिन् व्यवहारे तस्मिन्॥ अयं मंत्रः श० ३। ३ । १ । १२ व्याख्यातः॥ २३ ॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः ॥ मनुष्यैः शुद्धाभ्यां कर्मप्रज्ञाभ्यां वाग्विद्युद्विद्यां संगृह्य जीवनं वर्धयित्वा विद्यादिसद्गुणेषु वीरान् सम्पाद्य सदा सुखयितव्यम् ।। ४ । २३।।

    भावार्थ पदार्थः - देव्या=शुद्धया ।

    विशेषः - वत्सः । वाग्विद्युतौ=वाणी विद्युच्च॥ आस्तारपंक्तिश्छन्दः । पंचमः ॥

    इस भाष्य को एडिट करें
    Top