Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 4/ मन्त्र 9
    ऋषिः - आङ्गिरस ऋषयः देवता - विद्वान् देवता छन्दः - आर्षी पङ्क्तिः स्वरः - पञ्चमः
    4

    ऋ॒क्सा॒मयोः॒ शिल्पे॑ स्थ॒स्ते वा॒मार॑भे॒ ते मा॑ पात॒मास्य य॒ज्ञस्यो॒दृचः॑। शर्मा॑सि॒ शर्म॑ मे यच्छ॒ नम॑स्तेऽअस्तु॒ मा मा॑ हिꣳसीः॥९॥

    स्वर सहित पद पाठ

    ऋक्सा॒मयो॒रित्यृ॑क्ऽसा॒मयोः॑। शि॒ल्पे॒ऽइति॒ शि॒ल्पे॑। स्थः॒। तेऽइति॒ ते। वा॒म्। आ। र॒भे॒। तेऽइति॒ ते। मा॒। पा॒त॒म्। आ। अ॒स्य। य॒ज्ञस्य॑। उ॒दृचः॒ इत्यु॒त्ऽऋचः॑। शर्म्म॑। अ॒सि॒। शर्म्म॑। मे॒। य॒च्छ॒। नमः॑। ते॒। अ॒स्तु॒। मा। मा॒। हि॒ꣳसीः॒ ॥९॥


    स्वर रहित मन्त्र

    ऋक्सामयोः शिल्पे स्थस्ते वामारभे ते मा पातमास्य यज्ञस्योदृचः । शर्मासि शर्म मे यच्छ नमस्ते अस्तु मा मा हिँसीः ॥


    स्वर रहित पद पाठ

    ऋक्सामयोरित्यृक्ऽसामयोः। शिल्पेऽइति शिल्पे। स्थः। तेऽइति ते। वाम्। आ। रभे। तेऽइति ते। मा। पातम्। आ। अस्य। यज्ञस्य। उदृचः इत्युत्ऽऋचः। शर्म्म। असि। शर्म्म। मे। यच्छ। नमः। ते। अस्तु। मा। मा। हिꣳसीः॥९॥

    यजुर्वेद - अध्याय » 4; मन्त्र » 9
    Acknowledgment

    सपदार्थान्वयः - हे विद्वन् ! अहमृक्सामयोः ऋक् च साम च तयोर्वेदयोः अध्ययनानान्तरमुदृचः उत्कृष्टा अधीताः=प्रत्यक्षीकृता ऋचो यस्मिंस्तस्य, अस्य वक्ष्यमाणस्य यज्ञस्य शिल्पविद्यासिद्धस्य यज्ञस्य सम्बन्धिनी वां=ये शिल्पे मानसप्रसिद्धक्रियया सिद्धे [स्थः] भवतः [ते] द्वे आरभे समन्तादारम्भं कुर्वे । ये [ते] द्वे मा=मां पातं=रक्षतो, ये यस्य तव सकाशान्मया गृह्यते, ते तुभ्यं मम नमः अन्नम्अस्तु भवतु ।त्वं मा=मां शिल्पविद्यां शिक्षस्व माहिंसी:=विचालनं वा मा कुर्याः न हिन्धि । यच्छर्म=सुखम् [असि]=अस्ति तच्छर्म सुखंमे=मह्यं [आ] यच्छ=देहि अभितो ददाति ।। ४ ।९।। [हे विद्वन् ! अहमृक्सामयोरध्ययनानन्तरमुदृचोऽस्य यज्ञस्य सम्बन्धिनी वां=ये शिल्पे [स्थः] [ते] आरभे... त्वं मा=मां शिल्पविद्यां शिक्षस्व.....यच्छर्म=सुखम् [असि] अस्ति मे=मह्यं [आ] यच्छ=देहि]

    पदार्थः -
    (ऋक्सामयोः) ऋक् च साम च तयोर्वेदयोः अध्ययनानन्तरम् (शिल्पे) मानसप्रसिद्धक्रियया सिद्धे (स्थः) भवतः (ते) द्वे (वाम्) ये (आ) समन्तात् (रभे) आरम्भं कुर्वे (ते) द्वे (मा) माम् (पातम्) रक्षतः । अत्र व्यत्ययः (आ) अभितः अस्य वक्ष्यमाणस्य (यज्ञस्य) शिल्पविद्यासिद्धस्य यज्ञस्य (उदृचः) उत्कृष्टा अधीताः= प्रत्यक्षीकृता ऋचो यस्मिंस्तस्य (शर्म्म) सुखम् (असि) अस्ति (शर्म्म) सुखम् (मे) मह्यम् (यच्छ) ददाति । अत्र व्यत्ययो लडर्थे लोट् च ( नम:) अन्नम्।नम इत्यन्ननामसु पठितम्।।निघं० २ । ७ ॥ (ते) तुभ्यम् (अस्तु) भवतु (मा) निषेधार्थे (मा) माम् (हि७सीः) हिन्धि । अत्र लोडर्थे लुङ् ॥ अयं मंत्रः श० ३ ।२ ।१ ।५-८ व्याख्यातः ॥ ९॥

    भावार्थः - मनुष्यैर्विदुषां सकाशाद् वेदानधीत्य शिल्पविद्यां प्राप्य हस्तक्रियाः साक्षात्कृत्य विमानयानादीनि कार्याणि निष्पाद्य सुखोन्नतिः कार्या ।। ४ । ९ ।।

    विशेषः - अङ्गिरसः। विद्वान्=स्पष्टम् ॥ आर्षी पंक्तिः । पञ्चमः ।।

    इस भाष्य को एडिट करें
    Top