यजुर्वेद - अध्याय 4/ मन्त्र 16
ऋषिः - वत्स ऋषिः
देवता - अग्निर्देवता
छन्दः - भूरिक् आर्षी पङ्क्ति,
स्वरः - पञ्चमः
3
त्वम॑ग्ने व्रत॒पाऽअ॑सि दे॒वऽआ मर्त्ये॒ष्वा। त्वं य॒ज्ञेष्वीड्यः॑। रास्वेय॑त्सो॒मा भूयो॑ भर दे॒वो नः॑ सवि॒ता वसो॑र्दा॒ता वस्व॑दात्॥१६॥
स्वर सहित पद पाठत्वम्। अ॒ग्ने॒। व्र॒त॒पा॒ इति॑ व्रत॒ऽपाः। अ॒सि॒। दे॒वः। आ। मर्त्त्ये॑षु। आ। त्वम्। य॒ज्ञेषु॑। ईड्यः॑। रास्व॑। इय॑त्। सो॒म। आ। भूयः॑। भ॒र॒। दे॒वः। नः॒। स॒वि॒ता। वसोः॑। दा॒ता। वसु॑। अ॒दा॒त् ॥१६॥
स्वर रहित मन्त्र
त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा । त्वँयज्ञेष्वीड्यः । रास्वेयत्सोमा भूयो भर देवो नः सविता वसोर्दाता वस्वदात् ॥
स्वर रहित पद पाठ
त्वम्। अग्ने। व्रतपा इति व्रतऽपाः। असि। देवः। आ। मर्त्त्येषु। आ। त्वम्। यज्ञेषु। ईड्यः। रास्व। इयत्। सोम। आ। भूयः। भर। देवः। नः। सविता। वसोः। दाता। वसु। अदात्॥१६॥
विषयः - पुनस्तौ कीदृशावित्युपदिश्यते॥
सपदार्थान्वयः - हे सोम ! ऐश्वर्यप्रद अग्ने जगदीश्वर! यस्त्वं स वा मर्त्येषु मरणधर्मेषु मनुष्येषु व्रतपाः यो व्रतं =सत्यं धर्माचरणनियमं पाति=रक्षतीति सविता सर्वस्य जगत् उत्पादकः यज्ञेषु सत्कारेषूपासनादिषु अग्निहोत्रादिषु ईड्यः स्तोतुमर्हः देवः द्योतकः असि अस्ति स भवान् नः=अस्मभ्यं वसोः धनस्य दाता प्रापकः सन् वसु (धनम्) [आ-] अदात्=विज्ञानधनं ददाति समन्ताद् ददाति, स [देवः] दाता भूयः अतिशयेन बहु वसु धनम् आरास्व अभितो देहि इयत् प्राप्नुवन् संस्त्वमेतान्यस्मदर्थम् आभरअभितो भर इत्येकः।। [भौतिकाग्निः] योऽग्ने=अयमग्निः [त्वं]=स मर्त्येषु कार्येषु व्रतपाः यो व्रतं=सत्यं धर्माचरणनियमं पाति रक्षतीति सविता सर्वस्य जगतः प्रेरकः यज्ञेषु शिल्पेषु ईड्यः=अध्येषितव्यः अध्येषितुमर्हः सोमः ऐश्वर्यहेतुः देवः द्योतकः [असि]=अस्ति [त्वम्] स नः=अस्मभ्यं वसोः धनस्य दाता प्रापकः इयत् प्राप्नुवन् सन् [देवः] दाता [वसु] धनं [आअदात्] समन्ताद् ददाति, भूयः अतिशयेन बहुः सर्वकार्येष्वारास्व=आरासते समन्ताद् ददाति आभर=अभितः सुखैर्भरति पुष्णातीति द्वितीयः ।। ४ । १६ ।। [हे........अग्ने! यस्त्वं व्रतपाः, ईड्यः, सविता, देवः, असि, स भवान् नः=अस्मभ्यं........वसु [आ-] अदात्=विज्ञानधनं ददाति]
पदार्थः -
(त्वम्) स वा (अग्ने) जगदीश्वर! अग्निर्वा (व्रतपाः) यो व्रतं सत्यं धर्माचरणनियमं पाति रक्षतीति (असि) अस्ति वा । अत्र पक्षे व्यत्ययः (देवः) दाता प्रकाशको वा (आ) समन्तात् (मर्त्येषु) मरणधर्मेषु मनुष्येषु कार्येषु वा (आ) अभितः (त्वम् ) सवा (यज्ञेषु) सत्कारेषूपासनादिष्वग्निहोत्रादिषु शिल्पेषु वा (ईड्यः) स्तोतुमध्येषितुं वाऽर्हः (रास्व) देहि, ददाति वा (इयत्) प्राप्नुवन् (सोम) ऐश्वर्य्यप्रदैश्वर्य्यहेतुर्वा (आ) अभितः (भूयः) अतिशयेन बहुः (भर) भरति वा (देवः) द्योतकः (नः) अस्मभ्यम्। ( सविता) सर्वस्य जगत उत्पादकः प्रेरको वा (वसोः) धनस्य (दाता) प्रापकः (वसु) धनम् (अदात्) ददति ।। अयं मंत्रः श० ३ ।२ ।२ ।२४-२५ व्याख्यातः ॥ १६ ॥
[ईश्वरः]
भावार्थः - अत्रश्लेषालङ्कारः॥ सर्वैर्मनुष्यैःसत्यस्वरूपस्य,पूजार्हस्य, सर्वजगदुत्पादकस्य, सकलसुखप्रदातुः परमेश्वरस्यैवोपासनां कृत्वा सुखयितव्यम् । [योऽग्ने=अयमग्निः ........सर्वकार्येष्वारास्व=आरासते, आभर=अभितः सुखैर्भरति पुष्णातीति] एवं च कार्यसिद्धये भौतिकमग्निं संप्रयोज्य सर्वाणिसुखानि प्राप्तव्यानीति ।। ४ । १६ ।।
भावार्थ पदार्थः - व्रतपाः=सत्यस्वरूपः । ईड्यः=पूजार्हः। सविता=सर्वजगदुत्पादकः। देवः=सकलसुखप्रदाता ।
विशेषः - वत्सः। अग्निः=ईश्वरो भौतिकश्च ॥ भुरिगार्षी पंक्तिः ।पंचमः ।।
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal