यजुर्वेद - अध्याय 4/ मन्त्र 17
ऋषिः - वत्स ऋषिः
देवता - अग्निर्देवता
छन्दः - आर्ची त्रिष्टुप्
स्वरः - धैवतः
5
ए॒षा ते॑ शुक्र त॒नूरे॒तद्वर्च॒स्तया॒ सम्भ॑व॒ भ्राज॑ङ्गच्छ। जूर॑सि धृ॒ता मन॑सा॒ जुष्टा॒ विष्ण॑वे॥१७॥
स्वर सहित पद पाठए॒षा। ते॒। शु॒क्र॒। त॒नूः। एतत्। वर्चः॑। तया॑। सम्। भ॒व॒। भ्राज॑म्। ग॒च्छ॒। जूः। अ॒सि॒। धृ॒ता। मन॑सा। जुष्टा॑। विष्ण॑वे ॥१७॥
स्वर रहित मन्त्र
एषा ते शुक्र तनूरेतद्वर्चस्तया सम्भव भ्राजङ्गच्छ । जूरसि धृता मनसा जुष्टा विष्णवे ॥
स्वर रहित पद पाठ
एषा। ते। शुक्र। तनूः। एतत्। वर्चः। तया। सम्। भव। भ्राजम्। गच्छ। जूः। असि। धृता। मनसा। जुष्टा। विष्णवे॥१७॥
विषयः - एतान्सेवित्वा मनुष्येण कथं भवितव्यमित्युपदिश्यते॥
सपदार्थान्वयः - हे शुक्र=विद्वन् ! वीर्यवन् विद्वन्! [एषा] वक्ष्यमाणा ते=तव या विष्णवे परमेश्वराय यज्ञाय वा तनूः शरीरम् [असि]=अस्ति (भवसि) या त्वया धृताध्रियते यया तयाजुष्टा प्रीता सेविता वा च तया तन्वा जूः ज्ञानी वेगवान् वा सँस्त्वमेतत् प्रत्यक्षंवर्चः विज्ञानं तेजो वा सम्भव=सम्यग्भावय सम्यक् निष्पद्यस्व, भ्राजं प्रकाशंगच्छ प्राप्नुहि, मनसा विज्ञानेन एतेनपुरुषार्थं गच्छ=प्राप्नुहि ।। ४ । १७ ।। [हे शुक्र=विद्वन्! [एषा] ते तव या विष्णवे तनूः[असि]=अस्ति.......तथा जूः संस्त्वमेतद्वर्चः सम्भव=सम्यग्भावय,........मनसैतेन पुरुषार्थं गच्छ=प्राप्नुहि]
पदार्थः -
(एषा) वक्ष्यमाणा (ते) तव (शुक्र) वीर्य्यवन् विद्वन्! (तनूः) शरीरम् (एतत्) प्रत्यक्षम् (वर्च:) विज्ञानं तेजो वा (तथा) तन्वा (सम्) सम्यगर्थे (भव) निष्पद्यस्व (भ्राजम्) प्रकाशम् (गच्छ) प्राप्नुहि (जूः) ज्ञानी वेगवान् वा (असि) भवसि (धृता) ध्रियते यया तया। अत्र कृतो बहुलमिति क्विप् (मनसा) विज्ञानेन (जुष्टा) प्रीता सेविता वा (विष्णवे) परमेश्वराय यज्ञाय वा ॥ अयं मन्त्रः श० ३।२।४। ९-११ व्याख्यातः ।।
१७ ।।
भावार्थः - मनुष्यैः परमेश्वराज्ञापालनेन विज्ञानयुक्तेन मनसा शरीरात्मारोग्यं वर्धित्वा, यज्ञमनुष्ठाय, विज्ञानयुक्तेन मनसा सुखयितव्यम् ।। ४ । १७ ।।
भावार्थ पदार्थः - विष्णवे=परमेश्वराज्ञापालनाय, यज्ञानुष्ठानाय वा । मनसा=विज्ञानयुक्तेन मनसा।
विशेषः - वत्सः। अग्नि:=ईश्वरः॥ आर्चीत्रिष्टुप् ।धैवतः।।
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal