यजुर्वेद - अध्याय 4/ मन्त्र 14
ऋषिः - आङ्गिरस ऋषयः
देवता - अग्निर्देवता
छन्दः - स्वराट् आर्षी उष्णिक्,
स्वरः - ऋषभः
6
अग्ने॒ त्वꣳ सु जा॑गृहि व॒यꣳ सु म॑न्दिषीमहि। रक्षा॑ णो॒ऽअप्र॑युच्छन् प्र॒बुधे॑ नः॒ पुन॑स्कृधि॥१४॥
स्वर सहित पद पाठअग्ने॑। त्वम्। सु। जा॒गृ॒हि॒। व॒यम्। सु। म॒न्दि॒षी॒म॒हि॒। रक्ष॑। नः॒। अप्र॑युच्छ॒न्नित्यप्र॑ऽयुच्छन्। प्र॒बुध॒ इति॑ प्र॒ऽबुधे॑। न॒। पु॒न॒रिति॒ पुनः॑। कृ॒धि॒ ॥१४॥
स्वर रहित मन्त्र
अग्ने त्वँ सु जागृहि वयँ सु मन्दिषीमहि । रक्षा णो अप्रयुच्छन्प्रबुधे नः पुनस्कृधि ॥
स्वर रहित पद पाठ
अग्ने। त्वम्। सु। जागृहि। वयम्। सु। मन्दिषीमहि। रक्ष। नः। अप्रयुच्छन्नित्यप्रऽयुच्छन्। प्रबुध इति प्रऽबुधे। न। पुनरिति पुनः। कृधि॥१४॥
विषयः - पुनरग्निगुणा उपदिश्यन्ते ।
सपदार्थान्वयः - अग्नेअयमग्निः त्वं=योऽग्निः प्रबुधे जागरिते नः=अस्मान् सुजागृहिसुष्ठु जागरयति जागर्ति। येन वयं कर्मानुष्ठातारो नित्यं जागरिताः सुमन्दिषीमहि शोभनं शयीमहि योऽअप्रयुच्छन् प्रमादमकुर्वन् नः=अस्मान् रक्ष=रक्षति, प्रयुच्छँश्च हिनस्ति यो नः=अस्मान् पुनः पुनरेवं कृधि=करोति सोऽस्माभिर्युक्त्या सम्यक्सेवनीयः ।। ४ । १४ ।। [अग्ने त्वं=योऽग्निः प्रबुधे नः=अस्मान् सुजागृहि=सुष्ठु जागरयति, येन वयं सुमन्दिषीमहि, योऽप्रयुच्छन् नः=अस्मान् रक्ष=रक्षति, प्रयुच्छँश्च हिनस्ति........सोऽस्माभिर्युक्त्वा सम्यक् सेवनीय:]
पदार्थः -
(अग्ने) अयमग्निः (त्वम्) य: (सु) श्रैष्ठ्ये (जागृहि) जागर्ति । अत्र व्यत्ययो लडर्थे लोट् च (वयम्) कर्मानुष्ठातारो नित्यं जागरिताः (सु) शोभने (मन्दिषीमहि) शयीमहि (रक्ष) रक्षति। अत्र द्व्यचोऽतस्तिङ इति दीर्घः (नः) अस्मान् (अप्रयुच्छन्) प्रमादमकुर्वन् (प्रबुधे) जागरिते (नः) अस्मान् (पुनः) (कृधि) करोति । अत्र व्यत्ययो लडर्थे लोट् च ॥ अयं मन्त्रः शत० ३ ।२ ।२ ।२२ व्याख्यातः॥ १४ ॥
भावार्थः - मनुष्यैर्योऽग्निः शयन-जागरण-जीवन-मरण हेतुरस्ति, स युक्त्वा संप्रयोक्तव्यः ।। ४ । १४ ।।
विशेषः - अङ्गिरसः।अग्निः=भौतिकः। स्वराडार्ष्युष्णिक् ऋषभः ।।
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal